श्रीगुणरत्नकोशः व्याख्या Part 2

श्रीः श्रीमते रामानुजाय नमः पराशरभट्टैः विरचित श्रीगुणरत्नकोशः Part 2 [वसुराश्यभिधाव्याख्यासहितः]      इत्थम् लक्ष्म्या लीलाविभूत्युपयोगमुक्त्वा नित्यविभूतियोगमाह – यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतम् यत्कालादपचेलिमम् सुरपुरी यद्गच्छतो दुर्गतिः । सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिराम् तद्विष्णोः परमम् पदम् तव कृते मातः ! समाम्नासिषुः || २१ ||      यदिति – हे मातः । यत् स्थानम् । मनसो दूरे स्मर्त्तुमशक्यमि-त्यर्थः […]

श्रीगुणरत्नकोशः व्याख्या Part 1

श्रीः श्रीमते रामानुजाय नमः पराशरभट्टैः विरचित श्रीगुणरत्नकोशः [वसुराश्यभिधाव्याख्यासहितः] श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे || [व्याख्यातृप्रतिज्ञा] श्रीगुरुपङ्क्तिपादसरसीरुहसम्विनतः श्रीगुणरत्नकोशविवृतिम् वसुराश्यभिधाम् । श्रीनगदेशिकेन्द्रतनयः शुभवात्स्यकुलः श्रीयुतवीरराघवगुरुर्वितनोतितराम् || श्रीमन्महाहरितवम्शविशुद्धवृत्त- मुक्तामणिः सकलशास्त्रविदग्रगण्यः । भट्टारको विरचयन् गुणरत्रकोशम् स्तोत्रम् श्रियो नमति तामिह विघ्रशान्त्यै || [अवतारिका] श्रीमत्कुरकुलपयःपारावारसुधाकरश्रीमद्रामानुजमुनीन्द्रकृपालब्ध श्रीभाष्यदप्रबन्धपरिचयमहिमोल्लासबुद्धिः, द्रविडोपनिषद्गम्भीराशय- विवरणश्रीरङ्गराजकमलापदलालितः, श्रीरङ्गनाथदिव्याज्ञालब्धपराशर-. भट्टारकनामधेयः, कैशिकपुराणश्रवणसमुदितमहिमोल्लासभासुररङ्ग- रमणकरुणाप्रसादसमासादितब्रह्मरथवैभवः, यतिवरचरणाम्भोरुहप्रवणान्ते वासिजनाग्रेसरकूरेशतनूभवः, सकलशास्त्रविदग्रेसरः, श्रीभट्टाख्यदेशिकः निखिलजगदुदयविभवलयलीलाशालिभगवत्प्रापकभूताम् श्रियम् तत्कृत-महोपकारातिशयानुसन्धानेन […]

श्रीगुणरत्नकोशः-श्रीपराशरभट्ट

श्रीपराशरभट्टाचैरनुगृहीतः ॥ श्रीगुणरत्नकोशः || श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥ उल्लासपल्लवितपालितसप्तलोकीनिर्वाहकोरकितनेमकटाक्षलीलाम् । श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥ अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः । स्तननयनगुलुच्छस्फारपूष्पद्विरेफा रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३ ॥ यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति । भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.