श्रीगुणरत्नकोशः व्याख्या Part 1

श्रीः

श्रीमते रामानुजाय नमः

पराशरभट्टैः विरचित

श्रीगुणरत्नकोशः

[वसुराश्यभिधाव्याख्यासहितः]

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।

श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ||

[व्याख्यातृप्रतिज्ञा]

श्रीगुरुपङ्क्तिपादसरसीरुहसम्विनतः

श्रीगुणरत्नकोशविवृतिम् वसुराश्यभिधाम् ।

श्रीनगदेशिकेन्द्रतनयः शुभवात्स्यकुलः

श्रीयुतवीरराघवगुरुर्वितनोतितराम् ||

श्रीमन्महाहरितवम्शविशुद्धवृत्त-

मुक्तामणिः सकलशास्त्रविदग्रगण्यः ।

भट्टारको विरचयन् गुणरत्रकोशम्

स्तोत्रम् श्रियो नमति तामिह विघ्रशान्त्यै ||

[अवतारिका]

श्रीमत्कुरकुलपयःपारावारसुधाकरश्रीमद्रामानुजमुनीन्द्रकृपालब्ध श्रीभाष्यदप्रबन्धपरिचयमहिमोल्लासबुद्धिः, द्रविडोपनिषद्गम्भीराशय-

विवरणश्रीरङ्गराजकमलापदलालितः, श्रीरङ्गनाथदिव्याज्ञालब्धपराशर-.

भट्टारकनामधेयः, कैशिकपुराणश्रवणसमुदितमहिमोल्लासभासुररङ्ग- रमणकरुणाप्रसादसमासादितब्रह्मरथवैभवः, यतिवरचरणाम्भोरुहप्रवणान्ते

वासिजनाग्रेसरकूरेशतनूभवः, सकलशास्त्रविदग्रेसरः, श्रीभट्टाख्यदेशिकः निखिलजगदुदयविभवलयलीलाशालिभगवत्प्रापकभूताम् श्रियम् तत्कृत-महोपकारातिशयानुसन्धानेन दयाबात्सल्यादिगुणातिशयपरिशीलनेन स्तोतुकामः, प्रारिप्सितग्रन्थनिर्विघ्नपरिसमाप्त्यर्थम् शिष्टाचारपरम्परा-

प्राप्तम् मङ्गलमाचरम्स्तामेव स्तौति –

 

श्रियै समस्तचिदचिद्विधानव्यसनम् हरेः ।

अङ्गीकारिभिरालोकैः सार्थन्त्यै कृतोऽञ्जलिः ||||

श्रिया इति । हरेः – हरति परिहरति स्वासम्श्लिष्टान् करोति पाप्मन इति हरिः *अपहतपाप्मा*(छा.उ.८-४-१) इति श्रुतेः । अनेन  हेयगुण-प्रतिभटत्वमुक्तम् भवति । हरत्याश्रितपापानीति वा हरिः । *हरिर्हरति पापानि (हर्यष्टकम्.१) इति स्मृतेः । अनेन सम्श्रितानाम् स्वप्राप्तिविरोधि-सर्वपापहरणोक्त्या मोक्षप्रदत्वम् पापहरणस्य तज्ज्ञान तन्निवर्तककृपा-क्षमादिसापक्षत्वेन कल्याणगुणाकरत्वम् च फलितम् । हरति सर्वम् स्ववशीकरोतीति वा हरिः । *सर्वस्य वशी* (बृ.उ.६-४-२२) *यत्र कामगमो वशी* इति श्रुतिस्मृत्योस्सद्भावात् । वशीत्यस्य सर्व वशे यस्य स वशी इति श्रुतप्रकाशिकाचार्यैः व्याख्यानम् कृतम् । अनेन  उभयविभूतियोगः फलितः । *हरिम् हरन्तमनुयन्ति देवाः* (तै.आर.३-१५-१) *ब्रह्माणमीशम् रुद्रम् च यमम् वरुणमेव च । प्रसह्य हरते यस्मात्तस्माद्धरिरिहोच्यते* || इति श्रुतिनिर्वचनाभ्याम् भगवतस्सर्वस्मात्परत्वम् सर्वदेवनियन्तृत्वम् च सिद्धम् ।

तस्य समस्तचिदचिद्विधानव्यसनम् अत्र चिदचिच्छब्दाभ्याम् *अचिदविशेषितान् प्रलयसीमनि सम्सरतः करणकलेबरैर्घटयितुम् दयमान- मनाः । वरद निजेच्छयेव परवानकरोः प्रकृतिम्महदभिमानभूतकरणावलि-

कोरकिणीम्’ || (श्रीरम्.स्त.२-४१) इत्युक्तसृष्टियोग्यसम्सारिचेतनमिश्र-सत्वे गृह्येते । समस्तशब्देन ब्रह्मादिपिपीलिकान्तम् चेतनजातम् चतु-र्विम्शतितत्त्वात्मकम् प्रकृतितत्कार्यजातम् च विवक्षितम्, तेषाम् समस्त- चिदचिताम् विधानम् करणकलेबरयोजनलक्षणा तदर्थम् महदहङ्कारभूत- करणग्रामोत्पादनलक्षणा च सृष्टिः, स्थितिलययोरपि एतदुपलक्षणम् ।
यद्वा समस्तचिदचिताम् बद्धमुक्तनित्यरूपाणाम् चेतनानाम् शुद्ध-सत्त्व-मिश्रसत्त्व-सत्त्वशून्यलक्षणानाम् अचेतनानाम् च विधानम् । *इच्छात एव तव विश्वपदार्थसत्ता । नित्यम् प्रियास्तव तु केचन ते हि नित्याः*(श्रीवै.स्त.३६) इति श्रीवत्साङ्कश्रीसूक्तिप्रकारेण भगवतो नित्ये-च्छया नित्यसूरीणाम् नित्यासङ्कुचितज्ञानतया सङ्कल्पनम्, मुक्ताना-माविर्भूतापहतपाप्मत्वादिगुणाष्टकतया सङ्कल्पनम्, बद्धानाम् करणादि-प्रदानकर्मतारतम्यज्ञानोत्पादनादि च, एवम् चेतनविषये विधानम् वेदितव्यम् ।
अचेतनविषये तु शुद्धसत्त्वस्य स्वेच्छया नित्यविभूतौ विमानगोपुर- मण्डपप्रासादादिरूपेण परिणमयितृत्वम् । मिश्रसत्त्वस्य सम्सारिचेत- नान्प्रति भोग्यभोगोपकरणभोगस्थानरूपेणाण्डतदावरणचतुर्दशभुवन- समस्तदेहेन्द्रियादिरूपेण चोत्पादनम् । सत्त्वशून्यस्य कालस्य चेतन- कर्मानुगुण्येन कलाकाष्ठामुहूर्तयामदिनपक्षमासायनसम्वत्सरादिरूपेण
परिणमयितृत्वम् च विधानम् ।
तत्र व्यसनमभिनिवेशमायासम् वा । अङ्गीकार एषामस्तीति अङ्गी- कारिणः तैरङ्गीकारसूचकैः इत्यर्थः । आलोकैः कटाक्षैः *स्मितविकसित-गण्डम् व्रीडविभ्रान्तनेत्रम् मुखमवनमयन्ती स्पष्टमाचष्ट सीता* इतिवन्न-यनलीलयैव अङ्गीकारस्सूच्यते न तु *पूर्णोक्ताद्दक्षिणापथाः* इतिवदेवमेव कार्यमिति स्पष्टोक्त्येत्यर्थः । सार्थयन्त्यै स्वानुमोदेन सफलम् कुर्वत्यै । स्वानुमोदाजनने हरेर्जगत्सृष्ट्यादिलीला विरसा स्यात् । तदुक्तम् श्रीस्तवे *क्रीडेयम् खलु नान्यथास्य रसदा स्यादैकरस्यात्तया’ (श्रीस्त.१) इति । अनेन भगवत एव जगज्जन्मादिकारणत्वम्, श्रियस्तु तदनुमोदेन तदुत्त- म्भकत्वमात्रम् सूचितम् । एवम् परत्वमुक्तम् ।
सौलभ्यमाह – श्रिया इति । श्रियै तत्तत्पुरुषार्थलाभाय सर्वसम्श्रय- णीयायै श्रीरङ्गनायक्यै । अत्र श्रीशब्दस्य षोढा व्युत्पत्तिर्द्रष्टव्या, ततो घटकत्वसिद्धिः । व्युत्पत्तिषट्कय च मदीये श्रीगुणसुधासारलहरीस्तोत्रे
प्रदर्शितम् – *श्रितास्यन्यैस्सर्वैः श्रयसि रमणम् सम्श्रितगिरः शृणोषि प्रेयाम्सम् श्रितजनवचः श्रावयसि च । शृणास्येतद्दोषान् जननि ! निखि-लान्सर्वजगतीम् गुणैः श्रीणासि त्वम् तदिह भवतीम् श्रीरिति विदुः* || इति ।
अञ्जलिः स्वशेषत्वसूचकस्सुकरः क्षिप्रप्रसादहेतुश्च *अञ्जलिः परमा
मुद्रा क्षिप्रम् देवप्रसादिनी'(ग.पु.२-११-२६) इत्युक्तेः । कृतः कृतो भवति ।
मयेति शेषः ।
अत्र हरेः समस्तचिदचिद्विधानव्यसनमालोकैस्सार्थयन्त्या इति वस्तुना यथा कस्यचित्प्रभोः प्रीत्यै केनचित्प्रयत्नसाध्ये कर्मणि कृते प्रभुणा तद्दर्श- नतदनुमोदने कर्तुर्महानन्दो भवति, तथा समस्तचिदचिद्विधानव्यसनिनो हरेरपि तत्प्रयत्ने श्रिया दर्शनेनानुमोदिते तस्यापि महानन्दो भवतीति वस्तु ध्वन्यत इत्यस्य स्तोत्रस्योत्तमत्वम् सूचितम् । *ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्* इति लक्षणात् ।
अञ्जलिरिति कमलमुकुलाकारकरतलयुगलयोगरूपञ्जल्युक्त्या
कायिकनमस्कारः कृत इति वाचा तदनुवादेन वाचिकनमस्कार: *मनः
पूर्वो वागुत्तर:’ (ऐ.उ.१-१-२) इति मनः प्रसरणपूर्वकत्वाद्वाचो मानसिक- नमस्कारश्च कृत इति मन्तव्यम् ।
मङ्गलारम्भसम्भवाय स्तोत्रादौ श्रीशब्दप्रयोगः । *देवतावाचका-श्शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्यास्युर्लिपितो गणतोऽपि वा* || इत्युक्तेरादौ रोगफलकजगणप्रयोगदोषो नेति ध्येयम् || १ ||

उल्लासपल्लवितपालितसप्तलोकी
निर्वाहकोरकितनेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखाम्
श्रीरङ्गराजमहिषीम् श्रियमाश्रयामः ||||
       उल्लासेति । अत्र उल्लासपदान्वयाय सप्तलोक्या इति षठ्यन्तम् पदम् लभ्यते । तथा च सप्तलोक्या उल्लासेन उदयेन पल्लविता सञ्जातपल्लवा, पालिताया रक्षितायास्सप्तलोक्या, निर्वाहेण स्थित्या, कोरकिता सञ्जातकोरका पल्लवितकोरकितेत्युभयत्रापि *तदस्य सञ्जातम्* (पा.सू.५-२-३५) इति तारकादित्वादितच्प्रत्ययः । नेम-कटाक्षोऽर्धवीक्षणम् *नेम इत्यर्धे* इति सिद्धान्तकौमुद्याम् । तस्य तथा-भूता लीलाविलासो यस्यास्ताम् । उल्लासपल्लवितेत्यनेन लक्ष्मीकटाक्ष-लीलाया जगदुत्पत्तिप्राक्कालापेक्षया भूयस्त्वम् । निर्वाहकोरकिता इत्यने-नोत्पन्नजगत्स्थितिजनितहर्षेण ततोऽपि भूयस्त्वम् च गम्यते । अनेन लक्ष्म्या जगदुत्पत्तिस्थितिप्रयोजकत्वमुक्तम् । ततः परत्वम् फलितम् ।
सौलभ्यमाह – श्रीरङ्गेति । श्रीरङ्गे दिव्यनगरे हर्म्यतलस्य दिव्य- विमानप्रदेशस्य श्रीरङ्गाख्यदिव्यविमानप्रदेशस्य वा मङ्गलदीपरेखाम्
शोभनदीपकलिकामिव श्रीरङ्गविमानान्तःप्रकाशिकामिति भावः । मङ्गले- त्यनेन अनुष्णत्वद्योतनात्प्रसिद्धदीपापेक्षया व्यावृत्तिः । दीपरेखामिति
औज्ज्वल्यम् च द्योत्यते । श्रीरङ्गराजमहिषीम् श्रीरङ्गराजेन सह विश्व-रक्षणे कृताभिषेकाम् । *कृताभिषेका महिषी*(अ.को.२-६५) इत्यमरः ।
श्रियम् सर्वसमाश्रयणीयाम् लक्ष्मीम् आश्रयामः शरणम् गच्छामः । कटाक्षलेशलीलाकल्पितजगदुत्पत्तिस्थितिकाम् सर्वसम्श्रयणीयत्वाय श्रीरङ्गे कृतनित्यवासाम् श्रीरङ्गेश्वरवल्लभाम् । अत एव श्रियम् शरणम् गच्छाम इति भावः । अत्र सप्तलोक्युत्पत्तिस्थित्योः लक्ष्मीनेमकटाक्ष-लीलापल्लव कोरकत्वरूपणात् कटाक्षलीलालतात्वमर्थसिद्धमिति सावयव-रूपकमलङ्कारः । एकदेशरूपणे सर्वरूपणमप्यर्थसिद्धम् । *प्रौढमौक्तिक-रुचः पयोमुचाम् बिन्दवः कुटजपुष्पबन्धवः । विद्युताम् नभसि नाट्य-मण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियः*(सा.चिम्.) || इत्यत्र पयोमुचाम् बिन्दवो नभसि नाट्यमण्डपे कुसुमाञ्जलिश्रियः कुर्वत इत्यनेन विद्युताम्
नटीनामित्यर्थसिद्धमिति साहित्यचिन्तामणिकारोक्तेः । श्रीरङ्गहर्म्यतल-
मङ्गलदीपरेखामित्यत्र निरवयवरूपकमलङ्कार इति सावयवनिरवयव
रूपकयोस्सम्सृष्टिः । *भेदेनावस्थितिर्येषाम् सा सम्सृष्टिरुदाहृता* इति
लक्षणात् || २ ||
अथ मङ्गलभूयस्त्वसिद्ध्या एव श्लोकद्वयेन स्वस्मिन् लक्ष्मीकटाक्ष- प्रार्थनेनाशीर्वादमङ्गलमाचरति –

 

अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्लीकटाक्षान् ॥ ३ ॥
   अनुकलेति – अनुकलम् अनुक्षणम् इदम् शुम्भदिति प्रकाशने अन्वेति । तनुः काण्ड इव तनुकाण्डः काण्डो दण्डः *काण्डोऽस्त्री दण्डबाणार्ववर्गाव- सरवारिषु* इत्यमरः (३-३-४३) । तस्य तनुकाण्डस्यालिङ्गनारम्भेण, तनुकाण्डेनालिङ्गनारम्भे वा शुम्भन्ती प्रकाशमाना । दिशासु दिशासु प्रतिदिशम् । *अव्ययम् विभक्ति…*(पा.सू.२-१-६) इति सप्तम्यर्थेऽव्ययी- भावः । सर्वासु दिशास्वित्यर्थः । भुजाः शाखा इव भुजशाखाः । प्रति-दिशम् भुजशाखा यस्य स तथोक्तः । श्रियस्सखा श्रीसखः । *राजाहस्स-खिभ्यष्टच्*(पा.सू.५-४-९)इति टच्प्रत्ययान्ततया श्रीसखशब्दोऽकारान्तः । श्रीसखः अनोकह इव श्रीसखानोकहः । प्रतिदिशभुजशाखश्चासौ श्रीसखा-नोकहश्च स तथोक्ताः तस्य ऋद्धिः ज्ञानशक्त्यादीनाम् आत्मगुणानाम् औज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्यादीनाम् विग्रहगुणानाम् च सम्पत् । अनुकलतनुकाण्डालिङ्गनारम्भशुम्भन्ती प्रतिदिशभुजशाख-श्रीसखानोकहर्द्धिर्यस्यास्सेति बहुव्रीहिः । स्वालिङ्गनारम्भप्रतिफलप्रकाश- मानभगवत्स्वरूपरूपगुणसमृद्धिरित्यर्थः ।
लक्ष्मीतनोः काण्डौपम्यादार्जवम् सूचितम् । प्रतिदिशशब्देन भगव- द्भुजेषु चतुष्टुम् भुजाः शाखाः इवेत्यनेन भुजानाम् शाखौपम्यादायतत्वम्
सूचितम् । श्रीसख इत्यनेन सर्वस्मात् परत्वम्, अनोकह इत्यनेन
श्रीतनुकाण्डालिङ्गनसुखजनितम् वैवश्यम् च द्योतितम् । भगवतः श्री-सख इति रूढ्या श्रियो भगवत्स्वरूपनिरूपकत्वेन च प्रयोगः । अनोकह इति भगवत आनन्दनिर्भरत्वेन स्तब्धतयावस्थानात् वृक्षौपम्यम् *वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः*(श्वे.उ.३-९) इति श्रुतेः । भवाध्वश्रान्त-
विश्रान्तिपदत्वेन वा वृक्षौपम्यम् *वासुदेवतरुच्छाया नातिशीता न घर्मदा*(गा.पु.१-२२२-२५, विह.सम्.२४-१४) इति स्मृतेः । एवम् लक्ष्म्याः विग्रहसौन्दर्यस्वाधीनपतिकत्वञ्चोक्तम् ।
अथावयवसौन्दर्यमाह – स्तननयनेति । स्तनौ च नयने च स्तन- नयनम् गुलुच्छौ गुच्छौ स्फारपुष्पयोः विकचपुष्पयोः द्विरेफौ, भ्रमरौस्फारपुष्पद्विरेफौ गुलुच्छौ च स्फारपुष्पद्विरेफौ च गुलुच्छस्फारपुष्प-द्विरेफम् स्तननयनम् गुलुच्छस्फारपुष्पद्विरेफमिव यस्यास्सा तथोक्ता । स्तनयोः गुलुच्छौपम्येन सौन्दर्यम्, नयनयोः स्फारपुष्पौपम्येन विकासो वैपुल्यम् च गम्यते । कनीनकयाः द्विरेफौपम्येन नेल्यस्निग्धते द्योतिते। लक्ष्मीः कल्पवल्लीव लक्ष्मीकल्पवल्लीपुष्पादितुल्यावयवयोगेन सर्वाभीष्ट-प्रदत्वेन च लक्ष्म्याः कल्पवल्यौपम्यम् । मयि स्तुत्युद्यते । कटाक्षान् रचयतु माम् कटाक्षलक्ष्यम् करोत्वित्यर्थः । अत्र इवेत्युपमावाचका-प्रयोगात् वाचकलुप्तोपमालङ्कारः ।
नन्वत्र तनौ काण्डत्वरूपणम् तदालिङ्गनारम्भशोभिषु श्रीसखभुजेषु
नानादिग्व्यापिशाखत्वरूपणम् तद्वति श्रीसखे वृक्षत्वरूपणम् स्तनयोः
गुलुच्छत्वरूपणम् सतारकनयनयोस्सभ्रमरविकचपुष्पत्वरूपणम् लक्ष्याम्
कल्पवल्लीत्वरूपणम् चेति सावयवरूपकमेवालङ्कारोऽस्तु स्फुटत्वाञ्चा-रुतातिशयावहत्वाच्चेति चेत् न; अर्थबाधे स्फुटत्वचारुतातिशयावहत्वयोर-
किञ्चित्करत्वात्, लक्ष्मीकल्पवल्लीकटाक्षात्रचयत्वित्यत्र लक्ष्म्याम्
कल्पवल्लीत्वरूपणे कल्पवल्ल्याः कटाक्षरचनानुपपत्तेः । न हि लक्ष्म्या इव कल्पवल्ल्याः कटाक्षास्सभवंति स्थावरजाती-यत्वान् न च कल्पवल्ल्यास्सर्वफलप्रदत्वेन कटाक्षरचनमपि युज्यत इति वाच्यम् । विचित्र वसनाभरणाद्यपेक्षितप्रदत्वेऽपि तस्याः कटाक्षसद्भावे मानाभावादिति दिक् । न च तदुपपत्त्यै परिणाम एवात्रालङ्कारोऽस्त्विति वाच्यम्, तनुकाण्डेत्यादि सर्वविशेषणवैयर्थ्यप्रसङ्गात् । लक्ष्मीकल्प-वल्लीति विशेष्यमात्रे कटाक्षरचनौचित्याय परिणामप्राप्तेः । तस्मात् वाचकलुप्तोपमैवालङ्कार इति तत्त्वम् || ३ ||
भगवत्तस्स्थावरजङ्गमतरतमभावसृष्टिनियामक भ्रूविक्षेपा श्रुतिशिरसा- मपि परतत्त्वसम्शयनिवर्तकपदरागा स्वभोगोपक्रमलीलाल्पीकृत भगव- द्वैश्वरूप्यविभवा लक्ष्मीः सुधातरङ्गान्तरङ्गैः अपाङ्गैरस्मानभिषिञ्चतु इत्याशास्ते –

यद्भ्रूभङ्गाः प्रमाणम् स्थिरचररचनातारतम्ये मुरारेः
वेदान्तास्तत्त्वचिन्ताम् मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।

भोगोपोद्घातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ||||
     यद्भ्रूभङ्गा इति – मुरारे: मुरद्विषः श्रीरङ्गराजस्य स्थिरचररचना- तारतम्ये स्थावरजङ्गमसृष्टिनीचोच्चभावे । स्थावरसृष्टौ नीचोच्चभावः – कल्पवृक्ष चन्दनरसालाश्वत्थनारिकेलाद्यपेक्षया स्नुहिबुर्बूरार्ककण्टकि- द्रुमाणाम् नीचभावस्तत्प्रतियोगिनामुक्तानाम्  कल्पवृक्षादीनामुच्चभावः । चरसृष्टिनीचोच्चभावस्तु देवापेक्षया मनुष्याणाम् मनुष्येषु च ब्राह्मणा-पेक्षया क्षत्रियाणाम् तदपेक्षया वैश्यानाम् तदपेक्षया शूद्रादीनाम् नीचभावः तदपेक्षया तिरश्चाम् तेष्वपि हम्सगरुशुकसारिकामयूरकोकिलाद्यपेक्षया क्ङ्कगृध्रकाकघूकादीनाम् नीचभावस्तत्प्रतियोगिनामुक्तानाम् देवादीनामुच्च भावश्चेति बोद्धव्यम् । तत्र यस्याः लक्ष्म्याः भ्रूभङ्गाः भ्रूविक्षेपाः प्रमाणम् नियामकाः श्रीभ्रूभङ्गतारतम्यम् दृष्ट्वा हरिः स्थावरजङ्गमात्मकम् जगत्तरतमभावेन सृजतीति भावः । श्रीभ्रूभङ्गतारतम्ये च तत्तत्कर्म-तारतम्यम् हेतुरिति श्रियो न वैषम्यनैर्घृण्य- प्रसङ्गः । भ्रूभङ्गाः प्रमाणमित्यनेन धातुर्जगत्सृष्टौ यथा वेदाः प्रमाणम् तथा भगवतोऽपि स्थिरचररचनातारतम्ये श्रीभ्रूभङ्गाः प्रमाणमिति भावः ।

वेदान्ताः उपनिषदः तत्त्वचिन्ताम् ब्रह्मा शिवो विष्णुर्वा परतत्त्वमिति
सम्शयम् मुरभिदुरसि श्रीरङ्गेशवक्षसि यत्पादचिह्नैः यस्याः श्रियः
पादचिह्नैः पादालक्तकाङ्कैः । तरन्ति – निरतिशयदीप्त्यापादकश्रीपद-
मुद्रितश्रीरङ्गराज एव परतत्त्वमिति निर्णयेन निवृत्तसम्शया भवन्ति ।
अत्र वेदान्तशब्देन चैतन्ययोगिनस्तदधिष्ठातृपुरुषा उच्यन्ते । तेषामेव
तत्त्वचिन्ताया देवतान्तरासम्भवन्मुरभिद्वक्षोनिष्ठलक्ष्मीचरणलाक्षाचिह्न-दर्शनस्य ततस्तदङ्कितो मुरभिदेव परतत्त्वमिति निवृत्तसम्शयत्वस्य चोपपत्तेः । *अतश्च वेदान्तपुरुषा वेदेषु*  *न किरिन्द्रत्वदुत्तरः*(ऋ.वे. ४-३०-१) *अग्निरग्रे प्रथमो देवतानाम्*(तै.ब्रा.२-४-३-३) *एक एव रुद्रो श्श
न द्वितीयाय तस्थे*(श्वे.उ.३-४, ४-१२)  *विश्वाधिको रुद्रो महर्षिः*(तै.सम्. ४-१-८)  *हिरण्यगर्भः समवर्तताग्रे*(ऋवे.१०-१२१-१) इति नानादेवता-पारम्यप्रतिपादनात्, *एको ह वै नारायण आसीत्*(महो.उ.१-१) *अग्नि-रवमो देवतानाम् विष्णुः परमः*(तै.सम्.५-५-१-४) इति तत्सा-धारण्येन विष्णुपारम्यस्यापि प्रतिपादनादुक्तेष्वेतेषु कः परतत्त्वमिति सम्शये सति स्वयम् निर्णेतुमसमर्थाः श्रीरङ्गधामनि मुरभिदम् श्रीरङ्ग-राजमासेव्य तदुरस्यसाधारणश्रीपदलाक्षालाञ्छनदर्शनेन अयमेव परतत्त्वमिति निश्चिन्वत इति भगवतः श्रीपराशरभट्टार्यस्य तात्पर्यम् । यद्वा वेदान्ता उपनिषदस्तत्त्वचिन्ताम् *न किरिन्द्र त्वदुत्तरः*(ऋ.वे. ४-३०-१) इत्याद्युक्तरीत्या स्वैर्नानादेवपारम्यप्रतिपादनादिषु कः परतत्त्वमिति पर-तत्त्वविषये श्रोतृसम्शयजनननिमित्ताम् चिन्ताम् खेदम् मुरभिदुरसि भगव- द्वक्षसि यत्पादचिह्नैः इत्यनेन लक्ष्मीसम्बन्धो लक्ष्यते । तरन्ति अतिवर्त्तन्ते । प्राशस्त्यप्रतिपादनसाधारण्येऽपि कारणवाक्येषु *एको ह वै नारायण आसीत् न ब्रह्मा नेशानः*(महो.उ.१-१) इतीतरनिषेधपूर्वकम् भगवतः प्रलयसमयावस्थितिम् प्रतिपाद्य *अथ पुरुषो ह वै नारायणो
अकामयत प्रजास्सृजेयेति*(ना.उ.१) इत्यादिना तस्य पुरुषशब्दवाच्यताम् जगत्सृष्ट्यादिकर्तृताम् च प्रतिपाद्य *सहस्रशीर्षा पुरुषः*(तै.आर. ३-१२-१)
इत्यारभ्य *तस्य धीराः परिजानन्ति योनिम्*(तै.आर.३-१३-२) इत्यन्तेन
वाक्यजातेन नारायण पुरुषशब्दवाच्यस्य सहस्रशिरः पादादिमत्त्वविश्व-
शरीरत्व-मोक्षप्रदत्व-महामहिमत्व, सर्वतोज्यायस्त्व-सर्वभूतैकपादत्व-
त्रिपाद्विभूतिमत्त्व-विश्वाक्रमणकर्तृत्व-चराचरोत्पादकनानावयवत्त्वतमः-
पारवर्त्तित्व-सर्वनामरूपव्याकर्तृत्व-कर्मकृतजन्मरहितत्वस्वेच्छाकृतानेका-
वतारत्वतदवतारहेत्वपारकारुणिकत्वानि प्रतिपाद्य एवम् विभवो नारायण-शब्दवाच्यश्च क इत्यपेक्षायाम् *ह्रीश्चते लक्ष्मीश्च पत्न्यौ *(तै.आर.३-१३-२) श्रियम् लोके देवजुष्टामुदाराम्’ (श्री.सू.५) इति तस्य लक्ष्मीपतित्वप्रति-पादनाल्लक्ष्मीपतिरेव नारायणपुरुषशब्दवाच्यः पूर्वोक्त-सर्ववैभवयुक्तः परतत्त्वम् चेति श्रोतारो निश्चिनुयुस्ततो नास्माभिश्चिन्ता कार्येति खेदम् मुञ्चन्तीत्यर्थः । तरन्तीत्यनेन मातापितृसहस्रेभ्यो वत्सलतरतया वेदान्तानाम् तत्खेदस्य दुस्तरत्वम् सूचितम् । अनेन लक्ष्म्याः वेदान्त-वेद्यत्वम् सूचितम् । भोगोपोद्धातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा भोगस्य श्रीविषयस्य भगवत्कृतस्यालिङ्गनचुम्बनालोकनश्लाघनादि- रूपोद्धात उपक्रमः, तस्मिन्केल्या लीलया चुलुकितः प्रसृति-पीतोऽल्पीकृतो वा भगवद्वैश्वरूप्यस्य विश्वशरीरत्वस्य अनन्तभुजवक्त्रनेत्रशीर्षत्वरूपस्य अनुभावो माहात्म्यम् यस्यास्सा तथोक्ता स्वालिङ्गनचुम्बनाद्युपक्रम-केल्यपर्याप्तभगवद्विश्वविग्रहविभवेत्यर्थः । तदुक्तम् यामुनार्यैः *स्ववैश्व-रूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया*(स्तो.र.३८) इति । वक्ष्यति चायम् *दशशतपाणिपादे*त्यादिना ।

यद्वा भोगस्य श्रीकृतस्वभगवत्स्वरूपरूपगुणविभूत्यनुभवस्य
उपोद्घातकेलीत्यादेः पूर्ववदर्थः । पूर्वयोजनायाम् स्वानुभवसाधनत्वा-पर्याप्तभगवद्विश्वविग्रहविभवत्वम् । द्वितीययोजनायाम् स्वानुभवविषया-पर्याप्तभगवद्विश्वविग्रहविभवत्वम् चार्थ इति भेदः । पूर्वयोजनायाम् लक्ष्म्यास्सौन्दर्यातिशयस्सूचितः । द्वितीययोजनायाम् तद्ज्ञानशक्ति-चातुर्यादिवैलक्षण्यम् सूचितम् । सा पूर्वोक्तगुणविशिष्टा भगवत्स्वरूप-निरूपकत्वेन प्रसिद्धा वा । पादत्रयेणापि परत्वमुक्तम् । अथ सौलभ्यमाह – श्रीरिति । स्वेतरैः श्रीयत इति श्रीः । अमृतलहरिधीलङ्घनीयैः अमृत-लहरीधिया अमी अमृततरङ्गा इति बुद्ध्या लङ्घनीयैः प्राप्यैः । लघेर्ग-त्यर्थत्वात् स्वेषु अमृततरङ्गबुद्धिजनकैरित्यर्थः । यद्वा अमृतलहरिधीः अमृततरङ्गबुद्धिस्तदपेक्षया लङ्घनीया त्याज्या यैस्तैः प्रयोजकैस्सर्वे-षामिति शेषः । अमृततरङ्गेभ्योप्यतिमधुरतया सर्वेषाममृततरङ्गाशा-निवर्तकैः इत्यर्थः । अपाङ्गैः कटाक्षैः । नः अस्मान् । आस्तृणीताम् – आच्छादयतु अभिषिञ्चतु इत्यर्थः । आङ्पूर्वात् *स्तृञ् आच्छादने* (धा. पा.२५३) इत्यस्माद्धातोः श्नाप्रत्यये *ईहल्यघोः*(पा.सू.६-४-१३) इतीत्वे लोडात्मनेपदप्रथमपुरुषैकवचनम् ||||
श्लोकद्वयप्रार्थितप्रकारेण लक्ष्मीकटाक्षामृतवीचिविशदीकृतविज्ञान-विषयीकृततत्स्वरूपरूपगुणविभूतिः ब्रह्माद्यशक्यस्तव तद्वैभववैपुल्यम्
स्ववाक्फल्गुताम् चानुसन्धाय तत्स्तुतिसाहसप्रवृत्तस्य स्वस्य वाक्प्रशस्त्ये स्वस्तीति साभिप्रायमाह –


यद्यावत्तव वैभवम् तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुम् के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्यादयः ।
अप्येवम् तव देवि वाङ्मनसयोर्भाषानभिज्ञम् पदम्
कावाचः प्रयतामहे कवयितुम् स्वस्ति प्रशस्त्यै गिराम् ||||
      यद्यावत्तवेति – हे देवि श्रीरङ्गेश्वरि ! तव वैभवम् यत् यत्स्वरूपम्
यावत् यावत्परिमाणम् तदुचितस्तोत्राय तदुभयानुरूपस्तवनाय *क्रिया- र्थोपपद*….. (पा.सू.२-३-१४) इत्यादिना चतुर्थी । स्पृहा इच्छा दूरे दूरतः एव न सम्भवतीत्यर्थः । इच्छा जाताऽपि विफलैव निरवधिकविभवस्तुतेः अशक्यत्वादित्यर्थः । इच्छादूरे इत्यत्र सम्बन्ध्यनिर्देशात् सर्वेषामिति गम्यते ।
ननु मद्विभवस्य स्तोतुमशक्यत्वे विरिञ्ज्यादयः कथम् तुष्टुवु-रित्यत्राह – स्तोतुम् क इति । प्राञ्चः प्राचीनाः नाद्यतनाः तेन ज्ञान-शक्तिवैपुल्यम् सूचितम् । विरिञ्चिः ब्रह्मा *ब्रह्मा ब्रह्मविदाम्वरः*(वि.स.ना.) इति प्रसिद्धविभवश्चतुर्मुख आदिर्येषाम् ते तथोक्ताः। आदिशब्देन शिवशत- मखादयो गृह्यन्ते । अदश्चेत्यत्र चशब्दो भिन्नक्रमः विरिञ्ज्यादयश्च
इत्यर्थः । ते च वयम् मितप्रज्ञा इत्यर्थः । अद इदम् वैभवम् अद-श्शब्देन *यतो वाचः*(तै.आर.२-४-५) इति श्रुत्युक्त-वाङ्मनसागोचरत्वम् सूच्यते । स्तोतुम् के कियच्छक्तिका इति इदम् वचनम् जगृहुः अवदन् न तुष्टुवुरित्यर्थः ।
यद्वा वयम् स्तोतुम् क इति वचनम् । अदश्च इदम् वैभवम् च जगृहुः । स्तोतुमशक्यमिति वदन्त एव तूष्णीम् भवितुमशक्ताः वैभवम् यथाशक्तितुष्टुवुरित्यर्थः । तेन स्तुतावसाकल्यम् सूचितम् ।

अप्येवम् एवमपि ब्रह्माद्यशक्यस्तवत्वेऽपि वाङ्मनसयोः वाक्यचित्तयो- रुपनिषदामपीति शेषः । वाङ्मनसशब्दोऽकारान्तः *अचतुरविचतुर*(पा.सू. ५-४-८८) इति सूत्रेण निपातितः । भाषा भाषणम् । वाक्चित्ताभ्याम् परिच्छेदः तदनभिज्ञम् वाङ्मनसागोचरमित्यर्थः । यद्वा वाङ्मनसयोर्भाषा वाङ्मनसवाचकशब्द स्तदनभिज्ञम् तद्वाचकशब्दमेव न जानाति कुतस्ते जानीयात् तद्गोचरत्वम् दूरापास्तमिति भावः । तव पदम् पद्यत इति पदम् त्वत्स्वरूपम् । कवयितुम् वर्णयितुम् । कावाचः कुत्सितवाचः । *ईषदर्थे च*(पा.सू.६-३-१०४) इति कुशब्दस्य कादेशः । अनेन स्तुति-सामग्रीवैकल्यम् सूचितम् । प्रयतामहे प्रकृष्टयत्नम् कुर्महे अहो साहसि-कत्वम् अस्माकमिति भावः । गिराम् स्तुतिवचसाम् प्रशस्त्यै प्रसिद्ध्यै । स्वस्ति मङ्गलद्ध्यै स्यादितिशेषः । स्यादिति काकुः न स्यादित्यर्थः । अतिसाहसिकप्रयत्नोऽयम् न फलतीति हृदयम् । स्तुतिप्रयत्नस्य साहस- कृत्यत्वेऽपि शेषत्वस्वरूपोचितकिञ्चित्काररूपत्वात् वाक्प्रसिद्ध्यै स्वस्ति भवत्विति प्रार्थनायाम् वा तात्पर्यम् ||||
ब्रह्माद्यशक्यस्तवत्वेऽपि श्रियस्तद्गुणविस्तारेण न स्तोतृत्वम् स्वस्मि- न्नेव पर्यवस्यतीत्याह –

स्तोतारम् तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति स्वाम् प्रस्नुवीरन्प्रथाम् ||||
      स्तोतारमिति – हे देवि ! स्तोतव्यस्य स्तुत्यस्य गुणान् यो विस्तृणीते विस्तारयति विपूर्वात् स्तृञ् आच्छादने*(धा.पा.२५३) इति धातोः श्नाप्रत्यये *ई हल्यघोः*(पा.सू.६-४-११३) इतीत्वे त इत्यस्य एत्वे कृते विस्तृणीत इति रूपम् । तम् कवयः पण्डिताः । *सङ्ख्यावान् पण्डितः कविः* इत्यमरः (अ.को.२-७५) । स्तोतारम् स्तावकम् उशन्ति कथयन्ते । *वश कान्तौ*(धा.पा.१०८०) इत्यस्माद्धातोः *ग्रहिज्या*(पा.सू. ६-१-१६) इति सम्प्रसारणे *झोऽन्तः*(पा.सू.७-१-३)इत्यन्तादेशे उशन्तीति रूपम् ।
ततः गुणविस्तारकस्यैव स्तोतृत्वकथनात् । चेति चकारेण पूर्वश्लोक- सूचितस्वरूपोचितकिञ्चित्काररूपस्तुतिप्रवृत्तिर्हेतुत्वेन समुच्चीयते । ते स्तुतिधुरा त्वद्विषयस्तोत्रभारः । धुराशब्द आकारान्तः हलन्तानाम्
भावन्तत्वम् भागुरिर्मन्यते । मय्येव न विरिञ्ज्यादिषु तेषाम् श्रुतिमधुर- वाक्त्वादिति भावः । विश्राम्यति पर्यवस्यति स्तोतृत्वम् च ममैवोचित-मित्यर्थः ।
कथम् त्वया मद्गुणा विस्तीर्यन्ते येन तवैव स्तोतृता स्यादित्यत
आहयस्मादिति । यस्मात् यतो हेतोः अस्मदमर्षणीयफणितिस्वीकारतो
मत्कठोरवचनविषयीभावतः ते तव क्षान्त्यौदार्यदयादयः वाग्दोषसहनेन
क्षान्तिः अयोग्येनापि मया स्वस्तुतिनिर्वर्तनादौदार्यम् । स्तुत्यकरणे
दुःखितस्य मे फणिति स्वीकारेणानुकम्पना दया । आदिशब्देन फणिति-दोषे गुणत्वबुद्धेर्वात्सल्यम् चेति गुणाः स्वाम् स्वकीयाम् । प्रथाम् सिद्धिम् प्रकाशम् वा प्रस्नुवीरन् जनयेयुः । *ष्णु प्रस्रवणे*(धा.पा.१०३८) इत्यस्माद्धातोः लिङात्मनेपदबहुवचने *लिङस्सीयुट:*(पा.सू.३-४-१०२) सलोपे उवङि झस्यरनादेशेप्रस्नुवीरन् इति रूपम् ||||
एवम् स्वस्य स्तोत्राधिकारम् प्रसाध्य लक्ष्म्यनुग्रहेण स्वसूक्तिसमग्र-ताम् प्रार्थयते –

सूक्तिम् समग्रयतु नःस्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्फनगौरवैर्याम्
कण्डूलकर्णकुहराः कवयो धयन्ति ||||
       सूक्तिमिति – श्रीरङ्गराजमहिषी श्रीरङ्गेश्वरवल्लभा । लक्ष्मीः श्रीः । श्रीरङ्गराजमहिषी लक्ष्मीरिति विशेषणविशेष्याभ्याम् पतिवाल्लभ्यकृतम्
स्वविभवसामर्थ्यम् सूचितम् । मधुरैः स्वादुभिः प्रियैश्च *स्वादुप्रियौ तु
मधुरौ*(अ.को.३-३-१९) इत्यमरः । कटाक्षैः – अपाङ्गैः न त्वध्यापनैः
नोऽस्माकम् । सूक्तिम् – शोभनाम् वाचम् । स्वस्तुतिम् स्वयमेव अस्म- त्प्रयत्नमनपेक्ष्यैव अस्मत्प्रयत्नापेक्षणे शोभनत्वम् न सिध्येदिति भावः ।
समग्रयतु समग्राम् करोतु सम्पूर्णाम् निर्वर्तयतु इत्यर्थः ।
उत्तरार्धेनोक्तशोभनतामेव विशदयति – वैदग्ध्येति । यामुक्तिम्
वैदग्ध्यवर्णगुणगुम्फनगौरवैः वैदग्ध्येन चातुर्येण वर्णानाम् अक्षराणाम्
गुणानाम् ओजःप्रसादशय्यापाकादीनाम् गुम्फनगौरवैः ग्रथनातिशयैः ।
यद्वा वैदग्ध्यम् अर्थकल्पना वर्णगुणाः वर्णधर्माः प्रसादमाधुर्यादयः तेषाम् गुम्फनम् रचना तद्गैरवैः तदतिशयैः निमित्तैः । कवयः पण्डिताः । कण्डूलकर्णकुहराः कण्डूरेषामस्तीति कण्डूलानि मत्वर्थे लच् तथाभूतानि
कर्णकुहराणि श्रोतृविवराणि येषाम् ते तथोक्ताः श्रवणसकुतूहलश्रुतिविवराः
सन्तः सदा दत्तकर्णा इत्यर्थः । धयन्ति पिबन्ति *धेट् पाने* (धा.पा. ९०२) इत्यस्माद्धातोः तिङि शप् प्रत्यये अयादेशे *झोऽन्तः*(पा.सू.७-१-३) इत्यन्तादेशे धयन्तीतिरूपम् । धयन्तीति पानोक्त्या सूक्त्याः सुधा-साम्यम् सूचितम् ||||
सङ्ग्रहेणोक्तम् विवक्षितोक्तिगौरवम् विवृण्वन् स्वस्मै श्रीरेव तद्विस्ता- रयतु इति प्रार्थयते –

अनाघ्रातावद्यम् बहुगुणपरीणाहि मनसो
दुहानम् सौहार्दम् परिचितमिवाथापि गहनम् ।
पदानाम् सौभ्रात्रादनिमिषनिषेव्यम् श्रवणयोः
त्वमेव श्रीर्मह्यम् बहुमुखय वाणीविलसितम् ||||
     अनाघ्रातेति – हे श्रीः । अनाघ्रातावद्यम् – अनाघ्रातमस्पृष्टमवद्यम्
वर्णपदवाक्यगतः श्रुतिकट्वश्लीलप्रक्रमभङ्गादिदोषो यस्य तत् तथोक्तम् । बहूनाम् गुणानाम् पाकवृत्तिशब्दार्थालङ्कारादीनाम् परीणाहो विशालता-स्यास्तीति तथोक्तम् । मनसः सौहार्दम् सन्तोषम्। दुहानम् दोग्धृ सम्पूर्णरसमित्यर्थः । अनेन विशेषणत्रयेण काव्यसामान्यलक्षणमुक्तम् । निर्दोषसगुणसरसशब्दार्थयोरेव काव्यत्वात् । परिचितमिव ज्ञातार्थमिव स्थितम् । श्रोतॄणामिति शेषः । अथापि गहनम् अज्ञातार्थबहुलम् ध्वनि-प्रधानमित्यर्थः । अनेन उत्तमकाव्यत्वम् सूचितम् । *ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्* इति लक्षणात् ।
पदानाम् सुप्तिङन्तानाम् सौभ्रात्रात् स्नेहात् शय्याया इत्यर्थः । *या
पदानाम्परान्योन्यमैत्री शय्येति कथ्यते* इति लक्षणात् । श्रवणयोः श्रोत्रयोः । अनिमिषम् निर्निमेषम् सावधानम् साश्चर्यम् वा निषेव्यम् सेवितुमर्हम्, ग्राह्यमित्यर्थः । वाण्याः सरस्वत्याः । *गीर्वा-ग्वाणी सरस्वती* इत्यमरः (अ.को.१-६-१) । विलसितम् भाषारूपम् विलासम् कर्म भावे क्तः । त्वमेव मह्यम् बहुमुखय बहुमुखीकुरु । न त्वहम् वाणीम् प्रसादयामि । अनन्यदैवत्वस्वरूपविरुद्धत्वात् । त्वत्प्रा-सादलक्षणराजकुलमाहात्म्यलब्धस्यैव तद्विलसितस्य स्वरसत्वाच्चेति भावः ॥ ८ ॥

स्वप्रार्थनानुगुण्येन लक्ष्मीकटाक्षलब्धवाग्विलासपूर्वम् श्रीरङ्गराज-
स्तवे त्रिम्शदुत्तराभ्याम् पूर्वोत्तरशतकाभ्याम् श्रीरङ्गराजमुच्चैरभिष्टूय एक-षष्ठिश्लोकपरिमितत्वेन ततः शब्दसङ्कोचेप्यर्थपौष्कल्येन, रसपौष्कल्येन सन्दर्भविशेषविशिष्टतया च ततोप्यतिशयिताम् श्रीस्तुतिम् चिकीर्षुः स्वापेक्षया श्रियोऽधिकतया स्तवने श्रीरङ्गराजः कुपितः स्यादिति तत्कोपशान्तये तम् श्रियः श्रीःश्रीरङ्गेशयेतिविशेषणविशेष्याभ्याम् प्रसाद्य स्ववाल्लभ्येन चिकीर्षितम् सप्रागल्भ्यम् प्रतिजानीते –


श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्याम् भगवतीम्
श्रियम् त्वत्तोऽप्युञ्चैर्वयमिह (भ) फणामः शृणुतराम् ।
दृशौ ते भूयास्ताम् सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्ञ्जुकशतम् ||||
    श्रियः श्रीरिति । श्रियः सर्वसमाश्रयणीयायाः श्रीः आश्रयणीयः श्रिय इति सर्वेषाम् श्रीसमाश्रयणेन स्वरूपलाभः । श्रीरिति श्रियो भगवत्समाश्र- यणेन स्वरूपलाभश्च सूचितः । तथा श्रिय इति श्रियः स्वव्यतिरिक्तैकोन- सर्वशेषित्वम् । श्रीरितिभगवतः स्वव्यतिरिक्तसर्वशेषित्वम् सूचितम् । श्रीरङ्गे दिव्यनगरे श्रीरङ्गाख्ये दिव्यविमाने वा शेत इति श्रीरङ्गेशय सर्वसमाश्रयणोचितसौलभ्यसीमाभूमे! एवम् विशेषणविशेष्य पदाभ्याम् श्रीरङ्गेशः प्रसादितः । तव च हृद्यामिति साभिप्रायम् वचनम् स्वेतरसर्व- जनहृद्यस्त्वमुच्चैः फणितः । तव च हृद्यायास्त्वत्तोऽप्युच्चैः फणनमुचित- मिति त्वया न कोपः कार्य इति । हृद्याम् हृदयङ्गमाम् भोग्याम् वक्षः- स्थलनिवासिनीम् वा भगवतीम् –  षाड्गुण्यपरिपूर्णाश्रीकाममाहात्म्यादि-युक्ताम् वा अत एव श्रियम् पुरुषकारत्वेनास्मदाद्याश्रयणीयाम्। त्वत्तोऽप्यु- च्चैः भवतोऽप्यतिशयेन त्वदपेक्षया श्रियमतिशयितत्वेन त्वम् श्रीस्तुतिम् करोषि चेद्यथाकुर्यास्ततोऽप्यतिशयेनेतिवार्थः ।
मत्तोऽप्युच्चैः के फणिष्यन्तीत्यत आह – वयमिति । वयम् युष्मत्प्र-सादैकलब्धविशदतमज्ञानाः । अनेन स्वप्रयत्नपूर्वकाविशदज्ञानब्रह्मादि- व्यावृत्तिः । वयमिति बहुवचनेन स्वसमानज्ञानश्रीवत्साङ्कमिश्रयतिवर-
यामुनाचार्या गृह्यन्ते । इह त्वत्समक्षमेव फणामः स्तुमः, न तु परोक्षे यत्किञ्चत्प्रगल्भवचनम् ब्रूमः । अत्र स्तुतिर्नाम नाविद्यमानगुणारोपो
विद्यमानयावद्गुणपरिच्छेदो *वा किन्तु यथावज्ज्ञातगुणवर्णनम् तत्तथैव क्रियते शृणुतराम् सम्यक्छ्रवणम् कुर्याः त्वमेव साक्षीभवेति भावः ।
न केवलम् श्रीस्तुतिश्रवणेन ते कोपाभावः प्रत्युत श्रवणसुखेन चक्षु- षोर्वैवश्यम् सन्तोषातिशयादपरिमितकञ्चुकस्फुटनहेतुर्गात्रपरिपोषश्च
भवेदित्याह – दृशौ त इत्यादिना । श्रवणतः स्तुतिश्रवणात् ते दृशौ
सुखेन तरले चञ्चले तारके कनीनिके ययोस्ते तथोक्तम् भूयास्ताम् पुनः
किञ्चेत्यर्थः । हर्षोत्कर्षात् आनन्दातिशयात् । भुजयोः अधिकरणे
सप्तमी कञ्चुकशतम् स्फुटतु प्रथममेककञ्चुकस्फोटे ततोऽपि पृथुत्वे-नापरकञ्चुकधारणे गात्रजृम्भणेन तस्यापि स्फुटने ततोऽपि विपुल-कञ्चुकधृतौ विग्रहविवृद्ध्या अस्यापि स्फोट इत्येव प्रकारेणापरिमित-कञ्चुकस्फोटो भवत्वित्यर्थः । पुनरित्यस्य मुहुरिति वा अर्थः ||||
प्रतिज्ञातक्रमेण श्रियम् स्तोष्यन् मानाधीना मेयसिद्धिरिति न्यायेन
श्रीस्वरूपरूपगुणादिषु सपरिकराम् श्रुतिम् प्रमाणयन् अर्थतः श्रीगुणरत्न- कोशाख्याम् स्तुतेः सूचयति –


देवि श्रुतिम् भगवतीम् प्रथमे पुमाम्सः
त्वत्सद्गुणौघमणिकोशगृहम् गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास-
सन्तर्कणस्मृतिपुराणपुरस्सराणि || १० ||
    देवीति । हे देवि! प्रथमे पूर्वे *प्रथमचरम*(पा.सू.१-१-३३) इत्यादिना विकल्पेन सर्वनामसञ्ज्ञा । पुमाम्सः वसिष्ठवाल्मीकिपराशरपाराशर्यादि- परमर्षयः । श्रीपराङ्कुशपरकालयतिवरादयश्च । भगवतीम् स्वतःप्रमाण-त्वसकलपुरुषार्थप्रतिपादकत्वरूपमाहात्म्ययुक्ताम् श्रुतिम् नित्यम् श्रूय- माणाम् त्रयीम् अनेनापौरुषेयत्वनिर्दोषत्वादीनि सूचितानि । त्वत्सद्गु-णौघाः त्वत्कल्याणगुणगणाः । ओघशब्देन गुणानामानन्त्यम् सूचितम् । त एव मणिकोशारत्नराशयः । *कोशोऽस्त्रीसञ्चयेऽपि च* इति रत्नमाळा । गुणानामुज्ज्वलत्वमङ्गलावहत्वाभ्याम् मणित्वरूपणम् तेषाम् मणिकोशानाम् गृहम् भाण्डागारम् गृणन्ति व्यक्तम् कथयन्ति । उपनिषदमित्यनुक्त्वा श्रुतिमिति सामान्यवचनेन पूर्वोत्तरभागात्मक- कृत्स्नवेदेऽपि श्रीवैभवप्रतिपादनम् क्रियत इति भावः ।
तथैव *गृणाहि* *घृतवती*(ऋ.वे.६-७०-१) इत्यादिना पूर्वकाण्डे
*सुमज्जानये विष्णवे*(तै.ब्रा.४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा. ३-१२-३-१) *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) *हिरण्यवर्णाम् हरिणीम्*(श्री.सू.१) इत्यादिना परस्सहस्राणि वाक्यानि उत्तरकाण्डे च श्रीवैभवप्रतिपादकानि सन्ति । अत्र त्वत्सद्गुणेति श्रीगुणेत्यस्य मणि-कोशेति रत्नकोशेत्यस्य च सूचनादर्थतः श्रीगुणरत्न-कोशाख्यस्तोत्रनाम सूचितम् ।
इतिहासाः श्रीरामायणादयः । सम्यक् तर्कणम् सन्तर्कणम् समीचीन तर्क इत्यर्थः । *यस्तर्केणानुसन्धत्ते स धर्मम् वेद नेतर:’ (म.स्मृ.१२-१०६) इति स्मृतेः । सन्तर्कणम् वेदार्थविचाररूपमीमाम्सा वा । इतिहाससन्तर्कणैस्सहितानि सेतिहाससन्तर्कणानि । स्मृतयो मन्वादिस्मृतयः । पुराणानि श्रीविष्णुपुराणप्रभृतीनि स्मृतयश्च पुराणानि च स्मृतिपुराणानि तान्येव पुरस्सराणि प्रमुखानि येषाम् तानि तथोक्तानि सेतिहाससन्तर्कणानि च तानि स्मृतिपुराणपुरस्सराणि चेति कर्मधारयः । पुरस्सराणीति लक्ष्मीतन्त्रादीनि द्राविडदिव्यप्रबन्धरूपाणि प्रमाणानि च स ङ्गृह्यन्ते ।
पटूनि च इत्यत्र चकारो भिन्नक्रमः । पुरस्सराणि चेति चस्त्वर्थः । तानि तु तद्द्वारपाटनपटूनि तस्य श्रुतिलक्षणत्वगुणमणिकोशगृहस्य द्वारपाटने कवाटविवृतौ त्वद्गुणवैभवतात्पर्यविवृतौ इत्यर्थः । पटूनि समर्थानि कुञ्चिकारूपाणि गृणन्तीत्यनुषङ्गः । तदुक्तम् – *इतिहास-पुराणाभ्याम् वेदम् समुपबृम्हयेत् । बिभेत्यल्पश्रुताद्वेदो मामयम् प्रतरिष्यति* (महाभा.आदि.१-२७३) इति श्रुतिम् त्वद्गुणौघमणिकोशगृहम् स्मृतिपुराणपुरस्सराणि तद्द्वारपाटनपटूनि च गृणन्ति इति यथाश्रुत-मेवान्वयः । इतिहासेषु श्रीरामायणस्य वेदोपबृम्हणत्वम् श्रीविभव- प्रतिपादकत्वम् च *वेदोपबृम्हणार्थाय तावग्राहयत प्रभुः । काव्यम्
रामायणम् कृत्स्नम् सीतायाश्चरितम् महत्*(रा.बा.का.४-६) || इति तत्रैव
प्रसिद्धम् । महाभारतादेस्तु भगवद्वैभवप्रतिपादने श्रियस्तदन्तर्भावात्
तद्वैभवप्रतिपादकत्वम् च सिद्धम् । श्रीविष्णुपुराणस्य श्रीवैभवप्रति-पादकत्वम् *नमामि सर्वलोकानाम् जननीम्*(वि.पु.१-९-११७) इत्यादिना स्पष्टमेव । एवमन्यत्रापि योजनीयम् || १० ||
इत्थम् श्रीविभवे सपरिकराम् श्रुतिम् प्रमाणीकृत्य यावत्परमतम् न
निराक्रियते तावत्स्वमतमस्थिरमिति न्यायेन बाह्यकुदृष्टिमतानि निरसितुम् तन्मतान्युपक्षिप्य बाह्यप्रभृतयो न मया निरसनीयाः, किन्तु मिथो विरोधात् परस्परमेव प्रतिहता बभूवुः यतस्तव कटाक्षलक्ष्यताम् न गता इति श्रियम् सम्बोध्याह –

आहुर्वेदानमानम् कतिचन कति चाराजकम् विश्वमेतत्
राजन्वत्केचिदीशम् गुणिनमपि गुणैस्तम् दरिद्राणमन्ये ।
भिक्षावन्ये सुराजम् भवमिति च जडास्ते तलातल्यकार्षुः
ये ते श्रीरङ्गहर्म्याङ्गणकनकलते न क्षणम् लक्ष्यमासन् ।। ११ ।।
आहुरिति । हे श्रीरङ्गहर्म्याङ्गणकनकलते, श्रीरङ्गे पुरे हर्म्यस्य
दिव्यविमानस्य श्रीरङ्गाख्यस्य दिव्यविमानस्य वा अङ्गणमजिरम् पुरःप्रदेशः । *अङ्गणम् चत्वराजिरे*(अ.को.२-१-१३) इत्यमरः । तस्य कनकलते तत्रोद्भूत-कनकलतेवस्थिते ! कनकेत्यनेनौज्वल्यलावण्य-सौन्दर्यानि सूचितानि, लतेत्यनेन सौगन्ध्यसौकुमार्ययौवनानि सूचितानि । ये पुरुषाः ते तव लक्ष्यम् जायमानकटाक्षविषयाः । क्षणम् क्षणमपि जन्मपरम्परासु कदापि नासन् नाभवन् *जायमानम् हि पुरुषम् यम् पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः* । (महाभा.मो.प.३५८-७३) इति वचनम् लक्ष्मीजायमानकटाक्ष-स्याप्युपलक्षणम् । तत्कटाक्षतदुपेक्षयोः इष्टानिष्टसाधनत्वम् स्पष्टम् श्रीविष्णुपुराणे *सः श्लाघ्यः स गुणी धन्यः स
कुलीनः स बुद्धिमान् । स शूरः स तु विक्रान्तो यम् त्वम् देवि ! निरीक्षसे ! सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वम् विष्णुवल्लभे*(वि.पु.१-९-१३१,१३२) || इति जडा: –
तत्त्वज्ञानहेतुत्वतत्कटाक्षविषयराहित्यादेव जडाः अज्ञानान्यथाज्ञान-
विपरीतज्ञानव्याकुलास्ते । कतिचन सुगतचार्वाकादयो वेदबाह्याः
तेषामव्यपदेश्यत्वात् कतिचनेत्युक्तिः । एवम् कतिचेत्यादिष्वपि बोध्यम् । वेदान् अपौरुषेयत्वनित्यत्वनिर्दोषत्वाखिलपुरुषार्थाऽऽवेदकत्वादिभिः
प्रमाणतमान् अमानम् अप्रमाणम् आहुरिति साहसिकत्वम् सूचितम् ।
कतिचन कापिलाः एतत्क्षेत्रज्ञा ज्ञातोपादानकविविधविचित्र-
भूधरसमुद्रादिरूपम् ब्रह्मादिपिपीलिकान्तम् च विश्वम् जगत् अराजकम्
राजशून्यमनाथमाहुरित्यनुषङ्गः । ते हि प्रकृतिपुरुषावेव जगत्कारणम्
प्रकृतिः पुरुषसन्निधानात्स्वव्यतिरिक्तत्रयोविम्शतितत्त्वात्मना विकुरुते ।
प्रकृतिपुरुषाभ्याम् सह पञ्चविम्शतितत्त्वान्येव सन्ति तदतिरिक्त ईश्वरो
नास्तीत्युपगच्छन्ति, उदाहरन्ति च *मूलप्रकृतिरविकृतिर्महदाद्याः
प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः*
(सां.का.३) इति ।
केचित् काणादाः राजन्वत् सुराजकम् आनुमानिकनिमित्तमात्रेश्वरम् *सुराज्ञिदेशे राजन्वान्* इत्यमरः (अ.को.२-१-१२) ।
विश्वमित्यनुषङ्गः । आहुरिति सर्वत्रान्वेति ।
अन्ये मृषावादिनः ईशम् नियन्तारम् गुणिनमपि *परास्य
शक्तिर्विविधैव श्रूयतेस्वाभाविकौ ज्ञानबलक्रिया च*(श्वे.उ.६-८) *यस्सर्वज्ञ- स्सर्ववित्*(मुं.उ.२-२-७) अपहतपाप्मा………….सत्यकामः सत्यसङ्कल्पः*(छां.उ.८-१-१) *तस्मिन्यदन्तस्तदन्वेष्टव्यम्*(छां.उ.८-१-५)  *तस्मिन्कामाः समाहिताः*(छां.उ.८-१-५) *काम्यन्त इतिकामाः कल्याणगुणाः*(श्री.भा.१-१९९) इति भाष्यम् । *तेजोबलैश्वर्यमहावबोध-
सुवीर्यशक्त्यादिगुणैकराशिः*(वि.पु.६-५-८५) *सङ्ख्यातुम् नैव शक्यन्ते गुणा दोषाश्च शार्ङ्गिणः । आनन्त्यात्प्रथमोराशिरभावादेव पश्चिमः* ||
इत्यादिपरस्सहस्रवेदान्तस्मृतीतिहासपुराणागमादिप्रसिद्धापरिमितगुण-
सागरमपि तमेव सर्वप्रमाणविरोधेन गुणैर्दरिद्राणम् शून्यम् *दरिद्रा दुर्गतौ* (धा.पा.१०७३) इत्यतः चानशि दरिद्राणमिति रूपम् । आहुरित्यन्वयः ।
ते हि निर्गुणश्रुतितात्पर्यमजानन्तः सजातीय-विजातीय-स्वगतभेद- शून्यम् निर्गुणमेव ब्रह्म तदेवाविद्यापरिकल्पितम् सगुणत्वमनुभवतीति
कथयन्ति । तेषाम् *स्वाभाविकी ज्ञानबलक्रिया च*(श्वे.उ.६-८) इत्यादि-भिर्विरोधः स्फुट एव । निर्गुणश्रुतितात्पर्यम् वर्णितम् श्रीवत्साङ्कमिश्रैः
*दूरे गुणास्तव तु सत्त्वरजस्तमाम्सि तेन श्रुतिः प्रथयति त्वयि निर्गुण-त्वम्*(श्रीवै.स्त.४९) इति ।
अन्ये शैवाः । भिक्षौ स्वकुक्षिपूरणेऽप्यशक्ते भिक्षुके कपालिनीत्यर्थः । सुराजे भवम् सुराजत्वम् । *कर्तृकर्मणोश्च भूकृञोः*(पा.सू.३-३-१२७) इति भूधातोः खच्प्रत्यये कृते भावे सुराजम् भवमिति रूपम् । आहुरिति हेलनम् । *ब्रूञ् व्यक्तायाम् वाचि*(धा.पा.१०४४) इत्यस्माद्धातोः *ब्रुवः पञ्चानाम्*(पा.सू.३-४-८४) इत्यादिसूत्रेण आहादेशे लिट्परस्मैपदबहु- वचनस्य झेरुसादेशे च कृते आहुरिति रूपम् । इति उक्तप्रकारेण तलैश्च तलैश्च प्रहृत्येदबहु युद्धम् प्रवर्तते इति तलातलि तलप्रहारम् अकार्षुः अकुर्वन् मिथ इति शेषः । इति चेत्यत्र चकारेण गुणगुण्यभेदमुक्तितार-
तम्यवादादिना केचन तलातल्यकार्षुरिति ते च सङ्गृह्यन्ते || ११ ||

त्वत्कटाक्षविषयताविधुराः मिथः प्रतिहता इत्युक्त्वा तद्विषयत्व-भाग्यशालिनः त्वन्महिमानमनुभवन्तीत्याह –


मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढम् लक्ष्मि ! ते वीक्षमाणाः ।
निधिमिव महिमानम् भुञ्जते येऽपि धन्याः
ननु भगवति ! दैवीम् सम्पदम् तेऽभिजाताः || १२ ||
      मनसीति । भगवति सकलकल्याणगुणसम्पन्ने ! ननु लक्ष्मि हे
श्रीः! धन्याः त्वत्कटाक्षविषयत्वरूपभाग्यवन्तः येऽपि ये केचन पुरुषाः ।
येऽपीत्यनेन तेषामतिशयो वाचामगोचर इति सूचितम् । भक्तिसिद्धाञ्ज-नेन भक्तिः युष्मत्स्वरूपरूपगुणविभूतिषु अनितरसाधारणप्रावण्यम् सिद्धा-ञ्जनमिव गूढार्थप्रकाशकाञ्जनविशेष इव यस्य तेन भक्तिविशदीकृते-नेत्यर्थः । अत एव मनसि हृदये । विलसता प्रकाशमानेन अक्ष्णा दृष्ट्या ज्ञानेनेत्यर्थः । श्रुतिशिरसि वेदान्ते श्रुतिशिरसीति जात्येकवचनम् श्रुतिशिरस्वित्यर्थः । निगूढम् नितराम् गूढम् वेदरहस्यम् वस्तुत्वादिति-भावः । ते तव महिमानम् स्वरूपरूपादिविभवम्, भक्तिसिद्धाञ्जनेन भक्ति- युक्तम् रचनायुक्तम् सिद्धाञ्जनम् सिद्ध्यञ्जनम् यस्य तेन तथोक्तेन अत एव विलसता विशेषप्रकाशमानेन अक्ष्णा चक्षुषा श्रुतिशिरसि श्रवणकोणे निगूढम् नितराम् गूढम् परश्रवणानभिज्ञम् रहस्योपदिष्टमित्यर्थः । शिरसि निगूढमित्यनेन निधेः पर्वतशिरोनिगूढत्वमपि सूच्यते । तथाभूतम् निधि- मिव वीक्षमाणास्सन्तः । भुञ्जते अनुभवन्ति ।
निधिपक्षे भुक्तिर्धनविनियोगः महिमपक्षे तदनुसन्धानम् वेदितव्यम् ।
ते पुरुषाः दैवीम् सम्पदम् अभिमोक्षहेतुभूतदैवसम्पदमभिमुखीकृत्य दैव-सम्बन्धिनी सम्पद्दैवी देवा भगवदाज्ञानुवर्त्तनशीलास्तेषाम् सम्पत् सा च भगवदाज्ञानुवृत्तिरेव तामभिमुखीकृत्य जाता उत्पन्ना भवन्तीति शेषः | कार्यात्कारणमनुमीयते इति भावः । भगवति ! लक्ष्मि ! ते दैवीम् सम्पदम् अभिजाता ननु सम्पदुद्देशेनोत्पन्ना हीति वान्वयः ।
यथा निधिसम्पदनुभावकभाग्यवत्तया तदुद्देशेनोत्पन्ना एव निध्यञ्ज- नाक्तदृशः पर्वतादिनिगूढम् निधिम् वीक्षमाणास्तमनुभवन्ति तथा दैव- सम्पदुद्देशेनोत्पन्ना एव भक्तिसिद्धाञ्जनस्फुरत्प्रबोधदृशा श्रुतिशिरोनि-गूढम् त्वन्महिमानम् विलोक्यानुभवन्तीति भावः ।
अत्र श्रुतिशिरसि निगूढम् निधिमिव दैवीम् सम्पदमिति पदैः *तम्
दुर्दर्शम् गूढमनुप्रविष्टम् गुहाहितम् गह्वरेष्ठम् पुराणम्’ (कठ.उ.३-१२) *तद्यथा हिरण्यनिधिम् निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः* (छां.उ.८-३-२) *दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता*(भ.गी.१६-५) || इति श्रुतिस्मृतिप्रमाणानि स्मारितानि || १२ ||
प्राधान्येन श्रीसूक्तस्य श्रीसमृद्धिप्रतिपादकत्वम् दर्शयन् पुरुषसूक्ता- देरपि श्रीसमृद्धिपरत्वम् दर्शयति –

अस्येशाना जगत इति ते धीमहे याम् समृद्धिम्
श्रीः श्रीसूक्तम् बहुमुखयते ताम् च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः
तम् च त्वत्कम् पतिमधिजगावुत्तरश्चानुवाकः || १३ ||
     अस्येति – *अस्येशाना जगतः*(तै.सं.४-४-१२) इति श्रुत्यनुवादः ।
हे श्रीः ! विष्णुपत्नि ! अस्य जगतः ईशाना ईश्वरीत्यनया श्रुत्या ते तव
याम् समृद्धिम् ऐश्वर्यम् अधीमहे अधीताम् कुर्महे । अधिपूर्वात् *इङ्
अध्ययने*(धा.पा.१०४६) इति धातोरुत्तमपुरुषबहुवचनम् । ताम् समृद्धिम् चेति चकारेणाधिकाञ्च समृद्धिम् । श्रीसूक्तम् – *हिरण्यवर्णाम् हरिणीम्*
इत्यादिकम् शाखानुशाखम् । शाखानुगता शाखा यस्मिन्कर्मणि तद्यथा
भवति तथा सर्वशाखावच्छेदेनेत्यर्थः । बहुमुखयते बहुप्रकारम् प्रतिपाद-यति  । यद्वा *इदम् हि पौरुषम् सूक्तम् सर्ववेदेषु पठ्यते* इत्युक्तप्रकारेण श्रीसूक्तमपि शाखानुशाखम् स्थितमिति शेषः । सर्वासु वेदान्तशाखा-स्वधीतम् सत् त्वत्समृद्धिम् बहुमुखयते इत्यर्थः ।तथाहि-
*हिरण्यवर्णाम्* – हिरण्यस्य वर्ण इव वर्णो यस्यास्ताम् तद्वत्पीतभास्व- रविग्रहवर्णाम् अनेन विग्रहस्य निर्मलत्वप्रतीत्या हेयप्रतिभटत्वम् सूचितम् । यद्वा हिरण्यमिव स्पृहणीयो वर्णः श्रीरिति शब्दो यस्यास्ताम् श्रीशब्दो हि षोढा व्युत्पत्तिसूचितत्वेन सर्वविधोपकारकस्ववाच्यवस्तुतया *शेष एष इति शेषताकृतेः प्रीतिमानहिपतिस्स्वनामनि* इत्युक्त शेषशब्द इव स्पृहणीयतमः ।
*हरिणीम्* – सुवर्णप्रतिमाम् तामिवौज्वल्यसौन्दर्यलावण्यवतीम् ।
यद्वा हरिणीम् मृगीम् तद्वद्विशाललोचनाम् । *योषिद्वृत्ताप्सरोभेदः सुवर्णप्रतिमा मृगी । हरिताश्च हरिण्यश्च स्युः* इति नानार्थरत्नमाला । हरिम् नयति चेतनामिति चेतनानाम् भगवदाश्रयणे पुरुषकारभूताम् वा हरिणीम् ।

*सुवर्णरजतस्रजाम्* – तत्तद्दिव्यावयवोचितसुवर्णरजतादिमयदिव्य-
भूषणकलापाम् । *आबन्तत्वम् हलन्तानाम्* इति भागुरिवचनात् स्रजा- मित्याबन्तत्वम् ।

*चन्द्राम्* – मुखे चन्द्रसदृशीम् आह्लादिनीम् वा । *चदि आह्लादने*(धा.पा.६८)इति धातोः *इदित*(पा.सू.७-१-५८) इति नुमागमे औणादिके रन्प्रत्यये *अजाद्यत*(पा.सू.४-१-४) इति टाप्यमि च चन्द्रामिति रूपम् ।
*हिरण्मयीम्* – *तस्मिन्कामास्समाहिताः* इतिवत् हिरण्यस्पृहणीय-
कल्याणगुणगणप्रचुराम् हिरण्यप्रभृतिसकलधनप्रचुराम् वा ।
*लक्ष्मीम्* – भगवतश्चेतनानाम् च सम्पदम् । यद्वा लक्ष्माण्यु-त्तमस्त्रीलक्षणानि अस्यास्सन्तीति लक्ष्मीस्ताम् । *चिन्हम् लक्ष्म च लक्षणम्* इत्यमरः(अ.को.१-३-१७) ।
*अनपगामिनीम्* – वात्सल्यातिशयेन दोषभूयस्त्वेऽप्यविमुक्तचेतन- जाताम् । भगवन्नित्यानपायिनीम् वा ।
*अश्वपूर्वाम्* – अश्वाः पूर्वे प्रथमप्राकाराजिरस्थितायस्यास्ताम् ।
*रथमध्याम्* – रथाः मध्यप्रकाराजिरस्था यस्यास्ताम् ।
*हस्तिनादप्रबोधिनीम्* – हस्तिनाम् ततोऽपि तृतीयप्रकाराजिर-
वर्त्तिनाम् दन्तिनाम् नादैः बृम्हितैः प्रबोधिनीम् जागरणशीलाम् लक्ष्मी- दिव्यनगरे प्रथमप्राकारावृतवीथ्यामश्वाः, द्वितीयप्राकारावृतवीथ्याम् रथाः, तृतीयप्राकारावृतवीथ्याम् हस्तिनश्च निवसन्ति । तत्र हस्तिनाम् तृतीय-प्राकारान्तः स्थिततया तेषाम् लक्ष्मीदिव्यभवनसान्निध्यात्तन्नादैः सुप्रातः प्रबुद्धा भवतीत्यर्थः । अनेन तस्या निरतिशयैश्वर्य सूचितम् । यद्वा *कोणपत्रगजैर्हेमकमलैरमृतोदकैः । सम्भृत्तैस्तर्प्यमाणाम् ताम् बोध्य-मानाम् च तैर्गजैः* इति स्वायम्भुववचनरीत्या स्वासनपद्मदलस्थितहस्ति-नादैरहरहः प्रबुद्ध्यमानाम् ।
*श्रियम्* एवम् निरङ्कुशैश्वर्येऽपि चेतनरक्षणतृष्णया भगवन्तमा-श्रिताम् । तत्फलमाह –
*देवीम्* इति । देवयति क्रीडयति कान्तमिति देवी! ताम् भगवतो भक्तदोषालक्ष्यीकरणाय तस्य क्रीडापारवश्यमापादयन्तीमित्यर्थः । तदयम् श्रीपराशरभट्टार्योऽपि वक्ष्यति – *किमेतन्निर्दोषः क इह जगति*(श्रीगु.र. को.५२) इत्यादिना ।
*काम्* कम् सुखमस्या अस्तीति काम् । सुखरूपाम् । अर्श आदि- त्वान्मत्वर्थीयोऽच्प्रत्ययः । सर्वानुकूलस्वभावामित्यर्थः । तत्स्वभावमेव विशदयति –
*सोत्स्मिताम्* इति । उत् अतिशयितम् स्मितम् उत्स्मितम्
उत्स्मितेन सह वर्तत इति सोत्स्मिता ताम् निस्सहापराधजननिश्शङ्क-सम्श्रयणाय नित्यव्यक्तमन्दहासाम् । अनेनानुग्रहमयीत्वम् सूचितम् । तत्कार्यमाह –
*हिरण्य* इति । *हिरण्यप्राकाराम्* *अजायमानो बहुधा विजायते* (तै.आर.३-१३-१) *स उ श्रेयान्भवति जायमानः*(ऋ.वे.३-८-४ तै.ब्रा.३-६-१) इतिवत् । *देवत्वे देवदेहेयम् मनुष्यत्वे च मानुषी* । *राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि*(वि.पु.१-९-१४५) || *अन्येषु चावतारेषु विष्णोरेषानपायिनी*(वि.पु.१-९-१४४) || इति । *इच्छाकृतोज्ज्वलानेक- भगवदभिमतानुरूपविग्रहाम् । हिरण्मयप्राकारपरिवृतानन्दमयमहामणि-मण्डपान्तर्निवासिनीम्* वा ||
*आर्द्राम्* – अनुकूलविषये दयार्द्रदृशम् अनुकूलतेजसम् वा ।
*ज्वलन्तीम्* – प्रतिकूलविषये ज्वलन्तीम् तदभिभावकतेजोयुक्ताम् ।
*नित्यानुकूलमनुकूलनृणाम् परेषामुद्वेजनम् तव तु तेज उदाहरन्ति*(श्रीवै.  स्त.५६) इति श्रीवत्साङ्कश्रीसूक्तिः श्रीविषयेऽपि समाना । प्रतिकूलत्वम् च प्रातिकूल्यकर्तृबुद्ध्या बोद्ध्यम् ।
*तृप्ताम्* – स्वकृतेन भगवत्स्वरूपरूपगुणविभूत्यनुभवेन तत्सम्श्लेष- जनितानन्देन वा तृप्ताम् ।
*तर्पयन्तीम्* – भगवत्कृतस्वरूपाद्यनुभवेन स्वसम्श्लेषसुखेन वा तम् तर्पयन्तीम् । स्वस्वकान्तोभयस्वरूपरूपगुणविभूत्यनुभवप्रापणेन
सम्श्रिताम्स्तर्पयन्तीम् वा । *आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ’*!
(भ.गी.७-१६) इत्युक्तचतुर्विधाधिकारिणः तत्तदभिलषितप्रापणेन तर्प- यन्तीम् वा ।
*पद्मे स्थिताम्* – स्वसौन्दर्यसौगन्ध्यसौकुमार्यानुगुणसुन्दर-सुगन्धसुकुमारसरसिजासनासीनाम् ।
*पद्मवर्णाम्* – *नारीणामुत्तमा* वधूः इत्युक्तप्रकारेणोत्तमकान्ता-
त्वेन पद्मारुणपाणिपादतलप्रान्तलोचनाम् पद्मसमविग्रहवर्णा वा ।
*श्रियम्* – सर्वैराश्रयणीयाम् ।
*चन्द्राम्* – चन्दयत्यानन्दयति चेतनानीश्वरम् च स्वगुणैरिति
चन्द्राम् ताम् ।
*प्रभासाम्* – भासो भासनम् तदानन्दजनितहर्षसम्भूत प्रकृष्ट-कान्तिम् *अभिषिच्य तु लङ्कायाम् राक्षसेन्द्रम् विभीषणम् । कृतकृत्य-स्तदा रामो विज्वरः प्रमुमोद ह*(रा.बा.का.१-८५) इतिवत् ।
*यशसाज्वलन्तीम्* – यशसासम्श्रितानाम् सर्वाभीष्टप्रापणकीर्त्या
ज्वलन्तीम् । सोपबृम्हणश्रुत्या लोके च प्रकाशमानाम् ।
*श्रियम्* – जगदगुणैर्योजयन्तीम् ।
*देवजुष्टाम्* – देवे नारायणे *दिव्यो देव एको नारायणः*(सुबालो. ६-१) इति श्रुतेः । जुष्टाम् प्रीताम् प्रेमसम्पन्नाम् देवैर्ब्रहादिभिस्तत्तदभि-
लषितलाभाय जुष्टाम् सेविताम् वा । *जुषी प्रीतिसेवनयोः*(धा.पा.१२८९) इत्युभयत्र धातुः ।
*उदाराम्* – काङ्क्षाधिकदातृत्वलक्षणनिरतिशयौदार्याम् ।
*ताम्* – उक्तवैभवयुक्ततया सर्ववेदान्तप्रसिद्धाम् ।
*पद्मनेमीम्* – नेमिः सुदर्शनम् । *पवित्रम् नेमिर्लोकद्वारम् सुदर्शनम्* इति निघण्टुः । पद्मम् नेमिरिवयस्यास्ताम् चक्राकारविकसित-पद्मपाणिमित्यर्थः । यद्वा पद्ममेव नेमिर्ननयनसाधनम् यस्यास्ताम् । *नियो मिः*(उ.सू.४९२) इत्यौणादिको मिप्रत्ययः । स्वकरस्थकमलेना-श्रितानामनिष्टमपनीय सर्वमिष्टमुपनीय स्वचरणाम्बुजे तान् प्रापयन्ती-मित्यर्थः । एवमादिप्रकारेण श्रीसूक्तम् श्रीसमृद्धिम् बहुमुखयत इति बोध्यम् ।

ननु *देविश्रुतिम्* – इत्यादिना मत्समृद्धेः सर्वश्रुतिवेद्यताम् प्रतिज्ञाय
*अस्येशाना जगतः…… श्रीसूक्तम् बहुमुखयत* इति पूर्वकाण्डस्थयत्कि-ञ्चिद्वाक्यस्य श्रीसूक्तस्य च मत्समृद्धिप्रतिपादकत्वमुपपादितम् । तावता पुरुषसूक्तादिरूपायाः श्रुतेः कथम् मत्समृद्धिपरत्वमित्यत आह ईष्ट इति ।
पौरुषे सूक्ते पुरुषसूक्ताख्योपनिषदि कश्चित्पुरुषो जगतः ईष्टे, जगत इति कर्मणि षष्ठी, जगन्नियमयतीत्यर्थः । *ईश ऐश्वर्ये*(धा.पा.१०२०)
इत्येतस्माद्धातोरदादिकाच्छपो लुकि लटस्तङि तकारस्यैत्वे *व्रश्च*(पा.सू. ८-२-३६) इति षत्वे ष्टुत्वे च ईष्ट इति रूपम् । अयम् चार्थानुवादः *पुरुष एवेदम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः*(पु.सू.२) इत्येव श्रवणात् । इति य उक्तः तम् तत्प्रतिपादितम् चेति चकारेण महानाराय-णमहोपनिषदादिप्रतिपादितम् चेति लभ्यते । पुरुषमिति शेषः ।

उत्तरोऽनुवाकः । अभ्द्यः सम्भूतानुवाकः । चेति चकारेण *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ'(तै.आर.३-१३-२) *सुमज्जानये विष्णवे*(तै.ब्रा. ४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा.३-१२-३-१) इत्यादि वेदान्तवाक्य-जातम् च सङ्गृह्यते । तञ्च त्वत्कम् तावकम् । पतिम् स्वामिनम् । अधिजगौ अधिकम् गायति स्म । त्वत्पतित्वकृतसमृद्धिम् प्रत्यपाद-यदित्यर्थः । ततश्च तस्य त्वदधीनसमृद्धिकत्वात्तत्समृद्धिपराणाम् पुरुष-सूक्तादीनाम् त्वत्समृद्धिपरत्वमिति साधूक्तम् । तस्य त्वदधीनसमृद्धिक-त्वम् च वक्ष्यति *त्वदायत्तर्दित्वेऽप्यभवदपराधीनविभवः* इति ।

अयम् भावः – पुरुषसूक्तनारायणमहोपनिषदादि प्रतिपादितस्य
महाविभवस्य भगवतो *वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णम् तमसः* (पु.सू.१६) इति पुरुषसूक्ततुल्यानुपूर्व्यवगतदैवतैक्योऽभ्द्यः सम्भूतानुवाको *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) इति तदतिरिक्तवेदान्तवाक्य-जातम् च *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) *सुमज्जानये विष्णवे*(तै.ब्रा.४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा. ३-१२-३-१) इत्यादिप्रकारेण च तस्य लक्ष्मीपतित्वम् प्रत्यपादयत् । तद्वैभवम् सर्व लक्ष्मीपतित्वप्रयुक्तमवगमयतीति तत्समृद्धिपरा सर्वापि श्रुतिः श्रीसमृद्धिपरैव || १३ ||

अत्यादरेणोपनिषत्प्रतिपाद्यताम् वदन्नेव न केवलमुपनिषत्त्वद्वैभवम्
प्रतिपादयति, किन्तु इतिहासादयोपीत्याह –

उद्बाहुस्त्वामुपनिषदसावाहनैकानियन्त्रीम्
श्रीमद्रामायणमपि परम् प्राणिति त्वञ्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः
निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् || १४ ||
       उद्बाहुरिति – हे अस्मज्जननि ! असौ उपनिषदेकैव श्रीसूक्तादि रूपावैताळिक इव त्वमेव जगत्स्वामिनीति शपथम् कुर्वाणेव वा उद्बाहुः उद्यतबाहुः सती त्वाम् नियन्त्रीम् जगत्स्वामिनीम् । आह किन्तु श्रीमद्रामायणमपि त्वञ्चरित्रे परम् तव चरित्रे सत्येव प्राणिति जीवति तव चरित्रप्रतिपादनरूपधारकेणैव जीवतीति भावः । यद्वा परमिति क्रिया- विशेषणम् सोत्कर्षमित्यर्थः । त्वञ्चरित्रे इत्यधिकरणे सप्तमी । तथा च रामादिचरित्रे प्राणिति जीवनमात्रम् धत्ते । त्वञ्चरित्रे तु परम् प्राणिति सोत्कर्ष जीवतीत्यर्थः । अतिशयितजीवनस्यैव फलत्वादिति हृदयम् । प्रपूर्वात् *अन प्राणने*(धा.पा.१०७०) इत्यस्माद्धातोः *रुदादिभ्यः सार्व- धातुके*(पा.सू.७-२-७६) इति इटि णत्वे च कृते प्राणिति इति रूपम् ।

त्वञ्चरित्रे परम् प्राणितीत्यनेन *काव्यम् रामायणम् कृत्स्नम् सीतायाश्चरितम् महत्*(रा.बा.कां.४-६) इति वाल्मीकिवचनम् स्मारितम् । सीताचरितमहत्त्वम् च तत्पुरुषकारोपयुक्तकृपापारतन्त्र्यानन्यार्हत्वप्रति-पादनेन । कृपाप्रकाशनम् रावणापहारकृते भगवता सीतायाः प्रथमवियोगे सुस्पष्टम् । तथा हि रावणवधानन्तरम् रामविजयरूपप्रिया-ख्यापकतया सन्निहितान्महोपकारात्स्वस्यामार्द्रापराधाश्चित्रवधार्हाराक्षसीर्दृष्ट्वातदपरा- धानुगुणम् चित्रवधम् कर्तुमुद्यतान्मारुतेः *पापानाम् वा शुभानाम् वा वधा- र्हाणाम् प्लवङ्गम । कार्यम् करुणमार्येण न कश्चिन्नापराध्यति*(रा.यु. कां.११३-४५) || इत्याद्युपदेशेन तासाम् सम्रक्षणान्महती कृपा प्रकाशिता । स्वयम् रावणगृहे बन्दीभूय बन्दीकृतसुरसुन्दरीविमोचनाद्वा महती कृपा प्रकाशिता । द्वितीयविश्लेषे भर्तृनियमनानतिक्रमणेन वाल्मीक्याश्रमे तस्या निवासात्पारतन्त्र्यम् प्रकाशितम् । तृतीयविश्लेषे पतिपरित्यक्तायास्तस्याः पृथगाश्रयानवलम्बेन भूमौ प्रवेशादनन्यार्हत्वम् प्रकाशितमिति कृत्स्न-स्यापि श्रीरामायणस्य सीताचरितत्वम् सिद्धम् । यतमे ये स्मर्तारः – स्मृतिप्रणेतारः पराशरादयः । ततमेऽपि च तेऽमि । अपिचेत्येकम् पदम् । यत्तच्छब्दौ डतमच् प्रत्ययान्तौ सर्वनामसञ्ज्ञौ । वेदान् तत्त्वहितपुरुषा-र्थवेदकतया वेदशब्दवाच्यान् आम्नायान् सेतिहासैः इतिहाससहितैः इतिहासशब्देन भारतादिर्गृह्यते, श्रीरामायणस्य पूर्वमेव निर्देशात् । पुराणैः
श्रीविष्णुपुराणादिभिः । त्वन्महिम्नि तव विभवे प्रमाणम् भावप्रधानोयम्
निर्देशः । प्रमाणताम् इत्यर्थः । निन्युः नयन्ति स्म । वेदानाम् त्वन्म- हिमवेदकतया तत्प्रमाणताम् स्मृतीतिहासपुराणैः पराशरादयो अदर्शय-न्नित्यर्थः । निन्युरिति नियो द्विकर्मकत्वात्कर्मद्वयम् || १४ ||

इत्थम् लक्ष्मीविभवे सपरिकरम् प्रमाणमुपन्यस्य तत्प्रतिपन्नम्
तदैश्वर्यमाह –

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्
ऐश्वर्यम् यदि होत्तरोत्तरगुणम् श्रीरङ्गभर्तुः प्रिये ।
तुङ्गम् मङ्गलमुज्ज्वलम् गरिमवत्पुण्यम् पुनः पावनम्
धन्यम् यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः || १५ ||

आकुग्रामेति – हे श्रीरङ्गभर्तुः प्रिये श्रीरङ्गराजवल्लभे ! आकु- ग्रामनियामकात् कुग्रामनियामकमारभ्य । कुग्रामो ग्रामटिका, पल्ली- त्यर्थः । सर्वनिर्वाहकात् सर्वलोकशासितुः । आविभोरपि ब्रह्मपर्यन्तम् ।
उत्तरोत्तरगुणम् उत्तरोत्तरातिशयितम् । यदैश्वर्यमस्ति तुङ्गम् उन्नतम् मेर्वादि, मङ्गलम् चन्दनकुसुमादि । उज्ज्वलम् मणिद्युमणिदीपादि । गरिमवत् गुरुत्वगुणयुक्तम् हिमवन् मन्दरादि । पुण्यम् परलोक-साधनभूतम् यज्ञादि । पुनः भूयः पावनम् पवित्रीकुर्वत् कावेरीप्रभृति । धन्यम् भाग्यफलभूतम् नवनिधिरूपम् चेति यदैश्वर्यमस्ति तत्पूर्वोक्तम् कुग्रामाधिपप्रभृति स्रवप्रभुपर्यन्तैश्वर्यम् । अदश्च इदम् तुङ्गाद्यैश्वर्यम् । चेति चकारेणानुक्तमन्यदप्यैश्वर्यम् । ते तव, वीक्षणभुवः कटाक्षकन्द- लिताः पञ्च वा षड्वामानम् येषाम् ते पञ्चषाः । *सङ्ख्याव्ययेति* (पा.सू.४-१-२६) सूत्रेण बहुव्रीहिसमासे *बहुव्रीहौ सङ्ख्येये*(पा.सू.५-४२३) इत्यादि सूत्रेण डचि *टे:*(पा.सू.६-४-५५) इति टिलोपे पञ्चषा इति रूपम् । विप्रुषः बिन्दवः लेशा इत्यर्थः । लोके समीचीनम् सर्व वस्तु त्वत्कटाक्षलेशायत्तमित्युक्तम् भवति || १५ ||
सम्प्रत्यैश्वर्यदारिद्रयोर्लक्ष्मीकटाक्षतदभावहेतुकतामुदाहरति –

एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यो
दृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणम् क्षोणिपालान् ।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपडिक्तम्
तत्ते श्रीरङ्गराजप्रणयिनि! नयनोदञ्चितन्यञ्चिताभ्याम् || १६ ||
एक इति । हे श्रीरङ्गराजप्रणयिनि ! एको मनुष्यः !
दृप्यद्दन्तावलस्थः मदद्विरदमस्तकस्थितः मुक्तातपत्रप्रचलमणिघणा-
त्कारिमौलिः मुक्तातपत्रे मौक्तिकच्छत्रे गजगमनेन प्रचलैर्मणिभिर्घट्टने
घणात्कारिभिः शब्दायमानो मौलिः किरीटम् यस्य स तथोक्तस्सन् नतान् नम्रान् क्षोणिपालान् नानामण्डलाधिपतीन् न गणयतीति यत्
इयमैश्वर्यपराकाष्ठा ।
अथ दारिद्र्यकाष्ठामाह – अन्य इति । अन्यः इतरो मनुष्यः अशरणो रक्षकान्तररहितस्सन् कृपणम् दैन्यप्रकाशो यथा भवति तथा दन्तपङ्क्तिम् दर्शयन् तस्मै दन्तावलस्थिताय पुरुषाय । तिष्ठते स्वाभि-प्रायम् प्रकटयन्नास्ते । इति यत्तदुभयम् क्रमेण ते तव नयनोदञ्चित-न्यञ्चिताभ्याम् नयनयोरुदञ्चितेन कटाक्षेण न्यञ्चितेन सङ्कोचेन च भवतीति शेषः || १६ ||
*स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् । स शूरस्स
च विक्रान्तो यम् त्वम् देवि निरीक्षसे* || (वि.पु.१-९-१३१) इत्युक्त-प्रमाणानुसारेण सर्वसम्पदाम् लक्ष्मीभ्रूविलासप्रसराभिमुखजङ्घालतामाह –

रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः
सुधासखि! यतोमुखम् चिचलिषेत्तव भ्रूलता ।
ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकाम्
विगाह्य च वशम्वदाः परिवहन्ति कूलङ्कुषाः || १७ ||
     रतिरिति – हे सुधासखि अमृतसोदरे! अनेन मधुरतमत्वम् जगदु- ज्जीवनहेतुत्वम् च व्यञ्जितम् । हे इन्दिरे ! तव भ्रूलता यतोमुखम्
यत्पुरुषाभिमुखम् चिचलिषेत् चलितुमिच्छेत् । चलनम् विनापि चलने-च्छायामेव । ततोमुखम् तत्पुरुषाभिमुखम् रतिः प्रीतिः मतिसरस्वती-धृतिसमृद्धिसिद्धिश्रियः मतिः ज्ञानम्, सरस्वती वाक् वागधिदेवता च, धृतिः स्थैर्यम्, समृद्धिः परिपूर्णत्वम्, सिद्धिः अभिलषितावाप्तिः, श्रियः सम्पदश्च अथ साकल्येन *प्रश्नकार्त्स्न्येष्वथो अथ* इत्यमरः (अ.को. ३-३-२४७) । बहुमुखीम् बहुप्रकाराम् । अहम्पूर्विकाम् अहम्पूर्वम् प्रवहाम्यहम् पूर्वमित्यहन्ताम् विगाह्य प्रविश्य वशम्वदाः विधेयाः सत्यः

। कूलङ्कुषा: – उद्वेलाः । परिवहन्ति पुत्रपौत्रशिष्यप्रशिष्यपर्यन्तम् प्रसरन्तीत्यर्थः । *सर्वकूलाभ्रकरीषेषु कषः*(पा.सू.३-२-४२) इति खच्प्र-त्यये मुमागमे च कृते कूलङ्कुषा इति रूपम् || १७ ||
सर्ववस्तु नीचोच्चभावो लक्ष्मीकटाक्षविकाससङ्कोचायत्त इत्याह –


सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः
अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।
इदम् सदसदात्मना निखिलमेव निम्नोन्नतम्
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् || १८ ||
     सहेति – हे लक्ष्मि! स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः सह स्थिराः स्थावराः शैलवृक्षादयः परित्रसाः परिस्पन्दनशीलाः जङ्गमाः तेषाम् व्रजैः समूहैः विरिञ्चनो ब्रह्मा अकिञ्चनो दरिद्रस्तैः सह अनोकहाः वृक्षाः बृह-स्पतिः गुरुः प्रबलो – बलवान् विक्लवो दुर्बलः समस्तमपि, सदसदात्मना समीचीनासमीचीनरूपेण निम्नोन्नतम् नीचोच्चम् इति यत्तव कटाक्षतदु- पेक्षयोः वीक्षणावीक्षणयोः ताण्डवम् नटनम् हि || १८ ||
सम्प्रति भगवतो जगत्सृष्टिः लक्ष्मीविहारायेत्याह –

काले शम्सति योग्यताम् चिदचितोरन्योन्यमालिङ्गतोः
भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैः सहस्रमकरोत्तान् भूर्भुवःस्वर्वतः
श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः || १९ ||
काल इति – हे श्रीरङ्गेश्वरदेवि! काले सर्गाद्यसमये योग्यताम्
सृष्ट्यौन्मुख्यम् शम्सति सति स्रष्टुमयमवसर इति सूचयति सति, चिदचितोः प्रकृतिपुरुषयोः अन्योन्यमालिङ्गतोः मिथो मिलितयोः सतोः प्रियः श्रीरङ्गराजः सङ्कल्पमानो *बहु स्याम् प्रजायेय*(छां.उ.६-२-३) इति बहुभवनसङ्कल्पम् कुर्वन् ते विहृतये भूताहङ्कृतिबुद्धिपञ्चकरणी-
स्वान्तप्रवृत्तीन्द्रियैः भूतानि पृथिव्यादीनि, अहङ्कृतिः प्रकृतिविकाररूपम् अहङ्कारतत्त्वम्, बुद्धिर्महत्तत्त्वम्, पञ्चानाम् करणानाम् समाहारः पञ्च- करणी पञ्च ज्ञानेन्द्रियाणि, स्वान्तम् मनः, प्रवृत्तीन्द्रियाणि वागादिपञ्च- कर्मेन्द्रियाणि तैः सह आवरणैः सप्तावरणैः समम्, तान् प्रसिद्धान् भूर्भुवः स्वर्वतः त्रैलोक्यवतः सहस्रमण्डान् अनन्तान् अकरोत् कृतवान् || १९ ||
*विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्*(वि.त.) इत्युक्तप्रमाणानु- सारेण करणकलेबरयोगरूपभगवत्कैङ्कर्यार्थत्वेऽपि तद्विस्मृत्य तानि करणानि शब्दादिप्रवणानि कुर्वाणानात्मनो भगवानेव तथाभूतान्कार- यम्स्तव परिहासरसमुत्पादयतीत्याह –

शब्दादीन्विषयान्प्रदर्श्यविभवम् विस्मार्य दास्यात्मकम्
वैष्णव्या गुणमाययात्मनिवहान्विप्लाव्य पूर्वः पुमान् ।
पुम्सा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये || २० ||

शब्दादीनिति – हे श्रीरङ्गेश्वरि – श्रीरङ्गराजप्रिये! पूर्वः पुमान् ।
पुराणपुरुषः श्रीरङ्गराजः शब्दादीन् शब्दस्पर्शरूपरसगन्धान् विषयान्
प्रदर्श्य दर्शयित्वा दास्यात्मकम् दासत्वरूपम् विभवम् ऐश्वर्यम् विस्मार्य
विस्मृतम् कृत्वा वैष्णव्या विष्णुसम्बन्धिन्या स्वकीययेत्यर्थः । *मम
माया दुरत्यया*(भ.गी.७-१४) इत्युक्तेः । गुणमायया त्रिगुणात्मिकया
प्रकृत्या । अत्र मायाशब्दो विचित्रसृष्टिनिबन्धनः, *देवमायेव निर्मिता*
(रा.बा.१-२७) इतिवत् । आत्मनिवहान् जीवसमूहान् विप्लाव्य वञ्च-यित्वा पण्यवधूविडम्बिवपुषा वेश्यानुकारिशरीरवेषेण पुम्सा पुरुषेण धूर्तानिव धृष्टपुरुषानिव आयासयन् विवशान् कुर्वन् भगवानेवात्मनिवहान्
धूर्ताश्चायासयति गुणमायावेश्यानुकारिपुरुषश्च द्वारमात्रमिति भावः । तव परीहासात्मने परिहासरसरूपाय केलये विहाराय कल्पते समर्थो भवति । *कृपू सामर्थ्ये*(धा.पा.७६२) इत्यस्माद्धातोः *कृपो रो लः*(पा.सू.८-२-१८) इति लकारे कल्पत इति रूपम् ।
केचित्तु धूर्तानिवायासयन्नित्यत्र धूर्तानायासयन् सूत्रधार इवेति
योजयन्ति तञ्चिन्त्यम् सूत्रधारपदाध्याहारप्रसङ्गात् । धूर्तानिवेति धूर्त- पदान्वितस्येवशब्दस्य अध्याहृत सूत्रधारपदान्वये व्यवहितान्वयश्च ।
तव परीहासात्मने केलये कल्पत इति वचनानुपपत्तिश्च । सूत्रधारस्य
लक्ष्मीपरिहासरसापादने दृष्टान्तत्वायोगात् । न हि लोकस्य परिहासर-
समापादयन्सूत्रधारो लक्ष्म्या अपि तमापादयति येन तस्य दृष्टान्तता स्यात् ।
न च लोकस्येत्यध्याहृत्य पण्यवधूविडम्बिवपुषा पुम्सा धूर्ताना- पादयन् सूत्रधारो लोकस्येव गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् तव परीहासात्मने केलये कल्पत इति योजना क्रियत इति
वाच्यम्; तथासत्याविष्कृतमेव व्याख्यानकौशलम् पण्डितमन्यैः ।
प्रथमान्तषष्ठ्यन्तपदद्वयाध्याहारदोषात्, इवशब्दस्य लोकपदान्वये
नात्यन्तव्यवधानदोषाञ्च । अव्यवधानेनानध्याहारेण च वाक्यार्थ-वर्णनसम्भवे व्यवधानाध्याहारकल्पनानौचित्याञ्च । तथाकल्पने विशेषस्वारस्यासिद्धेश्च ।
न च त्वत्पक्षापेक्षया दृष्टान्तदार्ष्टान्तिकभेदसिद्धिरेवास्मत्पक्षे
विशेषसिद्धिरिति वाच्यम्; धूर्तायासयितृत्वात्मनिवहविप्लावकत्वरूप-भिन्नविशेषणविशिष्टवेषेणैकस्यैव दृष्टान्तदार्ष्टान्तिकभावे स्वारस्याक्षते-श्चेत्यलम् पल्लवितेन || २० ||

Continued….

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.