सुबालोपनिषत्-चतुर्थः खण्डः
सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ चतुर्थः खण्डः [जीवस्य जागराद्यवस्थावर्णनम्] हृदयस्य मध्ये लोहितं मांसपिण्डम्, यस्मिंस्तद्दहरं पैण्डरीकं कुमुदमिवानेकधा विकसितम् । हृदयस्य दश छिद्राणि भवन्ति; येषु प्राणाः प्रतिष्ठिताः । एवं खण्डत्रयेण परस्य ब्रह्मणो जगत्कारणत्वम्, तत्प्रयुक्तदोषशङ्कानिवारणार्थं विश्वविलक्षणत्वञ्चोक्तम् । अपवर्गोपायश्च सत्याद्यनुगृहीतं तदुपासनमिति च संक्षेपत उक्तम् । अथ उपासनविशेषान् पञ्च प्रपञ्चयितुं उपासनस्थानेषु प्रधानं हृदयकमलं प्रस्तुत्य तत्रावस्थितस्य जीवस्य परमात्मोपासिसिषोपजननाय प्रकृतिसम्बन्धसंकुचितज्ञानस्यास्य ज्ञानसंकोचविकासतारतम्यकृतो जागराद्यवस्थायोगः चतुर्थेन खण्डेन प्रतिपाद्यते । हृदयस्य […]
सुबालोपनिषत्-तृतीयः खण्डः
सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ तृतीयः खण्डः [कारणस्य परब्रह्मणः स्वरूपनिरूपणम्] असद्वा इदमग्र आसीत् जगत्कारणतया उक्तस्य परब्रह्मणः कारणत्वशङ्कितविकारादिदोषव्युदासार्थं तत्स्वरूपं विशोध्यते तृतीयखण्डेन । तदर्थं कारणमनुवदति – असद्वा इदमग्र आसीत् इति । इदं शब्दो न जगन्मात्रपरः । तस्य वक्ष्यमाणजगद्वैलक्षण्यव्याघातात् । न हि जगत् जगतो विलक्षणाकारं भवति । जगतः परमात्मशरीरत्वञ्च अत्रैव वक्ष्यते । अत इदंशब्देन जगच्छरीरकं ब्रह्मोच्यते । जगद्रूपं परं ब्रह्म तु अग्रे सृष्टेः […]
सुबालोपनिषत्-द्वितीयः खण्डः
सुबालोपनिषत् अथ द्वितीयः खण्डः सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् [अथ भूतादिसृष्टिः] अपानानिषादा यक्षराक्षसगन्धर्वाश्च, अस्थिभ्यः पर्वता लोमभ्या ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत (जायते) । तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि?) तं ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि । अथ अनुक्तसर्गप्रपञ्चपूर्वकं प्रळय उच्यते – अपानात् इति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदा: यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्य […]
सुबालोपनिषत्-प्रथमः खण्डः
।। श्रीः ।। शुक्लयजुर्वेदीया सुबालोपनिषत् शान्तिमन्त्रः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओम् शान्तिः शान्तिः शान्तिः ।। शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्य स्वरूपस्य भावप्रतिपादक इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – ‘पूरी -आप्यायने’ (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति ‘वा दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-छन्न-ज्ञप्ताः’ इति पाणिनिसूत्रेण (पा.सू.७-२-२७)पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । […]
कौषीतकिब्राह्मणोपनिषत्-चतुर्थोऽध्यायः
कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता चतुर्थोऽध्यायः गार्ग्यो हवै बालाकिरनूचान: संस्पष्ट आस ॥ १ ॥ बलाकस्यापत्यं बालाकिः, गोत्रतो गार्ग्य:, अनूचान: – अङ्गाध्यायी । अङ्गाध्याय्यनूचानः इति स्मृतेः । संस्पष्टः – सम्यक् विद्यया प्रख्यातः एवम्भूतस्सन् आस – बभूव ।। सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहेष्विति ॥ २ ॥ स: – बालाकिः उशीनरेषु सत्त्वप्रचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास – उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः […]
कौषीतकिब्राह्मणोपनिषत्-तृतीयोऽध्यायः
कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता तृतीयोऽध्यायः [प्राणानां प्राशस्त्यम् , काम्यानामुपासनप्रकारश्च] प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ॥ १॥ दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य ‘प्रियं स्वर्गं उपगतः इत्यर्थः ।। तं हेन्द्र उवाच, प्रतर्दन । वरं ददानीति ॥ २ ॥ तं – ददानीति । स्पष्टोऽर्थः ।। स होवाच प्रतर्दनः, […]
कौषीतकिब्राह्मणोपनिषत्-द्वितीयोऽध्यायः
श्री: कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] [द्वितीयोऽध्यायः] [प्राणस्य प्राशस्त्यम् ] प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्त्रृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद, दूतवान् भवति । यश्चक्षुर्गोप्त्रृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयितृ, संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीम् परिवेष्ट्रीमान् भवति […]
कौषीतकिब्राह्मणोपनिषत्-प्रथमोऽध्यायः
श्री: कौषीतकिब्राह्मणोपनिषत् (ऋग्वेदीयोपनिषत् ) शान्तिपाठः ओम् वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविरावि(वी)र्म एधि । वेदस्य म आणी स्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋर्तं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् ।। । ओं शान्तिः शान्तिः शान्तिः […]
बृहदारण्यकोपनिषत् अष्टमोऽध्यायः
बृहदारण्यकोपनिषत् अष्टमोऽध्यायः प्रथमं ब्राह्मणम् [प्राणविद्या – ज्येष्ठ श्रेष्ठप्राणविद्या] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्टश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बृभूषति, य एवं वेद ।। १ ।। प्र. – प्राणविषयकविद्या प्रस्तूयते – यो ह वै………य एवं वेद । प्राणो हि इन्द्रियाणां मध्ये ज्येष्ठः । प्राणव्यापारानन्तरभावित्वात् इन्द्रियान्तरप्रवृत्तेः […]
बृहदारण्यकोपनिषत् सप्तमोऽध्यायः
बृहदारण्यकोपनिषत् अथ सप्तमोऽध्यायः प्रथमं ब्राह्मणम् [प्रणवप्रशंसा] ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥ प्र. –प्रणवोपासनां विधित्सन् प्रणवं परोक्षरूपेण स्तौति । पूर्णमदः….. पूर्णमेवावशिष्यते । अदः – परोक्षरूपः परलोकः इदम् – अयं च लोकः पूर्णं – वेदेन पूर्णमित्यर्थः । शब्दप्रभवत्वात् सर्वस्य लोकस्य स भूरिति व्याहरत् स भूमिमसृजत (तै.बा.२-२-४) इति लोकानां व्याहृतिप्रभवत्वाम्नानात् । कारणेन […]