श्वेताश्वतरोपनिषत् षष्ठोऽध्यायः

श्वेताश्वतरोपनिषत् अथ षष्ठोऽध्यायः [भगवत: कालस्वभावादेः कारणत्वम् ] स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ।।१।। पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः स्वभावमिति । केचन लोकायतिकाः’ जगच्चक्रपिरवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीयता हेतुभूतगुणविशेषविरहिणां जल्पितम् । परमात्ममहिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीति इत्यर्थः । अथवा – ब्रह्म – प्रकृतिः । प्रकृतिप्राकृतचक्रं बम्भ्रमीति इत्यर्थः ।। १ […]

श्वेताश्वतरोपनिषत् पञ्चमोऽध्यायः

श्वेताश्वतरोपनिषत् अथ पञ्चमोऽध्यायः [विद्याविद्ययो: लक्षणम्] द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ।।१।।   पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति – द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते – असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया (क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे – आत्मनि दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ।। […]

श्वेताश्वतरोपनिषत् चतुर्थोऽध्यायः

श्वेताश्वतरोपनिषत् अथ चतुर्थोऽध्यायः य एको वर्णो बहुधा शक्तियोगात् वर्णाननेकान् निहितार्थो दधाति । विचैति चान्ते विश्वमादौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ।। १ ।। ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह – य एक इति । ‘अकारो वै सर्वा वाक् । सैषा स्पर्शीष्मभिरभिव्यज्यमाना बह्वी नानाविधा भवति’ (ऐ.उ.३-६-७) इति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः – परं ब्रह्म स्ववाच्यत्वेन निहित: यस्मिन् तथोक्तः […]

श्वेताश्वतरोपनिषत् तृतीयोऽध्यायः

श्वेताश्वतरोपनिषत् अथ तृतीयोऽध्यायः [भगवानेव मोक्षप्रद:]   य एको जालसानीशत ईशनीभिा सर्वान् लोकानीशत ईशनीभिः । प एवैक उद्भवे सम्भवे य एतद्विदुरमृतास्ते भवन्ति ।। १।। उत्तशानस्य फलमाह • य एक इति । ‘अपहतपाप्मा दिव्यो देव’ (अध्यात्म उ- १) इति देवत्वेन श्रुतिप्रसिद्ध: परमात्मा प्रकृतिशब्दितमायारूपवागुरा युक्तस्सन् ईशानसमर्थाभि: ज्ञानबक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च(न्)लोकानीष्टे सदगोचरान् अप्राकृतांश्च लोकान् ईष्टे । यश्च जगतः उद्भवे उत्पत्ती, सम्भवे समीत्येकीकारे लयापरपर्याये एकीभावे […]

श्वेताश्वतरोपनिषत् द्वितीयोऽध्यायः

श्वेताश्वतरोपनिषत् अथ द्वितीयोऽध्यायः युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ।। १ ।। आत्मासंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्ध्ययनुगुणं भगवत्प्रार्थनामन्त्रमाह – युञ्जानः इति । धियः सविता – प्रेरकः परमात्मा पृथिव्याः अधि ऊर्ध्व अग्निं ज्योतिः – अग्निरूपं ज्योतिः – निचाय्य – संपूज्य अग्निहोत्रादिकर्म (दिकं) कृत्वा मनः तत्त्वाय – साक्षात्काराय पृथिवीनिष्ठाग्निज्योतिस्सदृश- स्वात्मनिष्ठपरमात्मतत्त्वसाक्षात्काराय युञ्जानः – नियुञ्जानः आभवत् – भवति इत्यर्थः । (तत्त्वसाक्षात्काराय परमात्मनि मनो […]

ईशावास्योपनिषत्-श्रीमद्वेदान्ताचार्य

श्रीः श्रीमते रामानुजाय नमः ईशावास्योपनिषत् शान्तिपाठः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ओम्  शान्तिः शान्तिः शान्तिः || शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः | परब्रह्मणः समग्रस्वरूपस्यभावप्रतिपादक इति यथासिद्धान्त विपुलविशदं विवरणं अर्हति। तथा हि-पूरी-आप्यायने इत्यस्मात् चौरादिकत्वेनस्वार्थणिजन्तात् धातोः क्तप्रत्यये सति “या दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः” इति (7-2-27) पाणिनिसूत्रेण पूर्णशब्दोऽयं निपात्यते | इडागमाभाव:  निपातस्य फलम् | णिलोप:, रात् परत्वात् प्रत्ययतकारस्य नत्वं, […]

माण्डूक्योपनिषत्कारिकाः

गौडपादीयाः माण्डूक्योपनिषत्कारिकाः ओमित्यारभ्य य एवं वेद, य एवं वेद इति पर्यन्तं द्वादशमन्त्रात्मिका इयं उपनिषत् सर्वत्र दरीदृश्यते । अनया साकं केचन एकोनत्रिंशत् श्लोकाः पठ्यन्ते । शांकरसिद्धान्ते एते श्लोकाः गौडपादीयकारिकाः इति प्रसिद्धाः । रङ्गरामानुजेस्तु एते गौडपादीयाः इति मत्त्वा न व्याख्याताः, परन्तु कूरनारायणमुनिभिः एते उपनिषद्विवरणरूपाः श्रुत्यन्तर्गताः इत्येव अङ्गीकृत्य व्याख्याताः, तथा भारद्वाजरामानुजाचार्यैरपि । मध्वाचार्यास्तु एता: कारिका: ब्रह्मदृष्टाः मन्त्राः इत्येव स्पष्ट अभिदधुः व्याचख्युश्च । […]

माण्डूक्योपनिषत्-कूरनारायणमुनि

माण्डूक्योपनिषत् कूरनारायणमुनिभाषितम् ।। श्रीः ।। माण्डूक्योपनिषत् (अथर्ववेदीयोपनिषच्छान्तिपाठः) ओम् भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। देवा: – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः – श्रोत्रैः शृणुयाम […]

सुबालोपनिषत्-षष्ठः खण्डः

सुबालोपनिषत् अथ षष्ठः खण्डः [भगवत: नारायणस्य उपास्यता प्राप्यता च] नैवेह किञ्चनाग्र आसीदमूलमनाधारम् । इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः ।। चक्षुश्च द्रष्टव्यञ्च नारायणः । श्रोत्रञ्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यञ्च नारायणः । त्वक् च स्पर्शयितव्यञ्च नारायणो मनश्च मन्तव्यञ्च नारायणो बुद्धिश्च बोद्धव्यञ्च नारायणोऽहङ्कारश्चाहकर्तव्यञ्च नारायणश्चित्तञ्च चेतयितव्यञ्च नारायणो वाक् च वक्तव्यञ्च नारायणो हस्तौ चादातव्यञ्च नारायणः […]

सुबालोपनिषत्-पञ्चमः खण्डः

सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ पञ्चमः खण्डः [परमात्योपासनाप्रकारः] स्थानानि स्थानिभ्यो गच्छति । नाडी तेषां निबन्धनम् । एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विण्णस्य चेतनस्यापवर्गार्थम् , समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निदोषस्य कल्याणगुणाकरस्य परमात्मनः उपासनप्रकारान् उपदिशति – स्थानानि स्थानिध्यो गच्छति इति । वक्ष्यमाणानि चक्षुरादीनि स्थानानि स्थानिभ्य:  आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां चक्षुराद्यभिमानित्वं भगवकिल्याधीनमित्यर्थः । ‘ज्योतिराद्याधिष्ठानं तु तदामननात् प्राणवता शब्दात्’ (ब्र.सू.२-४-१३) इति हि सूत्रकारः । नाडी […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.