बृहदारण्यकोपनिषत् षष्ठोध्यायः
।। श्रीः ।। बृहदारण्यकोपनिषत् षष्ठोऽध्यायः प्रथमं ब्राह्मणम् – अण्वन्तब्राह्मणम् [याज्ञवल्क्यस्य जनकं प्रति आव्रजनम्] जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आववाज । तँ होवाच याज्ञवल्क्य! किमर्थमचारी: पशूनिच्छन्, अण्वन्तानि इति । उभयमेव सम्राडिति होवाच ।। १ ।। प्र.- जनको ह वैदेह आसाञ्चक्रे । दर्शनकामेभ्यो दर्शनं दातुं वैदेहो जनकः सभायाम् आसाञ्चक्रे – स्थित इत्यर्थः । […]
बृहदारण्यकोपनिषत् पञ्चमोऽध्यायः
श्री: बृहदारण्यकोपनिषत् अथ पञ्चमोऽध्यायः । प्रथमं ब्राह्मणम् । [अश्वलब्राह्मणम्] जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदैहस्य विजिज्ञासा बभूव, क:स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाँ सहस्रमवरुरोध । दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ।। १ ।। प्र. – अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्वं मुखान्तरेण अस्मिन्नध्याये दृढी- क्रियते । तत्र […]
बृहदारण्यकोपनिषत् चतुर्थोऽध्यायः
बृहदारण्यकोपनिषत् चतुर्थोऽध्यायः प्रथमब्राह्मणम् – बालाकिविद्या [गार्ग्यजातशत्रुसंवादः] दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम्, ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः, सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ।। १ ।। प्र. – तृतीयाऽध्याये तद्धेदं तर्ह्यव्याकृतमासीत् इत्युपक्षिप्तस्य ब्रह्मणो जगत्कारणत्वस्य प्रपञ्चनाय अयमध्याय आरभ्यते – दृप्तबालाकिर्हानुचानो गार्ग्य आस इति । दृप्त:-गविष्ठः, बलाकस्य अपत्यं बालाकिः । दृप्तश्चासौ बालाकश्चेति स […]
बृहदारण्यकोपनिषत् तृतीयोऽध्यायः
।। श्रीः ।। बृहदारण्यकोपनिषत् (शुक्लयजुर्वेदकाण्वशाखान्तर्गता) [उपक्रमशान्तिपाठः] हरिः ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। शुक्लयजुर्वेदीयानां एषः शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्वरूपस्वभावप्रतिपादकः इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – पूरी आप्यायने (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः (पा.सू.७-२-२७) इति पाणिनि सूत्रेण पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य […]
छान्दोग्योपनिषत् अष्टमः प्रपाठकः
छान्दोग्योपनिषत् (सामवेदीयोपनिषत् ) अष्टमः प्रपाठकः [दहरविद्या] अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ।। १ ।। प्र. -दहरविद्या प्रस्तूयते अथ यदिदमस्मिन् इति । ‘विद्यान्तरारम्भ प्रदर्शनार्थोऽयम् अथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वादिना च पुरशब्दिते अस्मिन् शरीरे पुण्डरीकाकारम् अल्पं हृदयाख्यं परस्य ब्रह्मण: वेश्म इत्यर्थः । दहरोऽस्मिन् अन्तराकाश इत्यादि । अस्मिन् वेश्मनि अन्तः दहरः – सूक्ष्मः […]
छान्दोग्योपनिषत् सप्तमः प्रपाठकः
छान्दोग्योपनिषत् सप्तमः प्रपाठक: प्रथमः खण्डः [भूमविद्या] अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तँ होवाच यद्वेत्थ, तेन मोपसीद । ततस्त ऊर्ध्वं वक्ष्यामीति ।। १ ।। प्र. – भूमविद्या प्रस्तूयते – अधीहि भगव इति इति । सनत्कुमारं योगीन्द्रं नारदऋषिः अधीहि भगव इति मन्त्रोच्चारणपूर्वकं विधिवदुपसन्नः इत्यर्थः । अधीहि अधीष्व इत्यर्थः । तँ होवाच – तम् – उपसन्नं नारदं […]
छान्दोग्योपनिषत् षष्ठः प्रपाठकः
छान्दोग्योपनिषत् षष्ठः प्रपाठकः प्रथमः खण्डः [सद्विद्योपदेशार्थम् आख्यायिका] श्वेतकेतुर्हारुणेय आस । तँ ह पितोवाच, ‘श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति‘ इति ।। १।। प्र. – सद्विद्याम् उपदेष्टुम् आख्यायिकाम् आह – श्वेतकेतुर्हारुणेय आस । हः प्रसिद्ध्यर्थः । अरुणपुत्रस्य उद्दालकस्य पुत्र: श्वेतकेतुनामा बभूव इत्यर्थः । तँ ह पितोवाच इत्यादि । उद्दालकः पिता तम् – […]
छान्दोग्योपनिषत् पञ्चमः प्रपाठकः
छान्दोग्योपनिषत् पञ्चमः प्रपाठकः प्रथमः खण्डः [ज्यैष्ठ्यश्रेष्ठ्यगुणकमुख्यप्राणोपासनम् ] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ।। १ ।। प्र. – प्राणविद्या प्रस्तूयते – यो ह……भवति । ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद, स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति इत्यर्थः । ज्येष्ठत्वं – ‘वृद्धत्वम् । ‘वृद्धस्य च’ (पा.सू.५-३-६२) इति वृद्धशब्दस्य […]
छान्दोग्योपनिषत् चतुर्थः प्रपाठकः
छान्दोग्योपनिषत् चतुर्थः प्रपाठकः प्रथमः खण्डः [विद्यास्तुत्यर्था रैक्वाख्यब्रह्मर्षेः आख्यायिका] ओं । जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे, सर्वत एव मेऽन्नमत्स्यन्तीति ।।१।। प्र. – संवर्गविद्या प्रस्तूयते – विद्यास्तुत्यर्था आख्यायिका जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । जनश्रुतस्य अपत्यं जानश्रुतिः । हशब्दः प्रसिद्धौ । पुत्रसंज्ञस्य पुत्र: पौत्र: तस्य अपत्यं पौत्रायण: श्रद्धापुरस्सरं […]
छान्दोग्योपनिषत् तृतीयः प्रपाठकः
छान्दोग्योपनिषत् तृतीयः प्रपाठकः प्रथमः खण्डः [आदित्ये मधुदृष्टिः] असौ वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्चीनक्शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ।। १ ।। प्र.-मधुविद्या प्रस्तूयते – असौ वा आदित्यो देवमधु । असौ आदित्यो वस्वादीनां देवानां ‘मोदहेतुत्वात्’ मधु । अत्र मधुत्वदृष्टिः कर्तव्या इत्यर्थः । मधुत्वोपयोगीनि सम्पादयति। तस्य द्यौरेव तिरश्चीनवंशः । तस्य – आदित्याख्यमधुनः धुलोकः एव आधारभूतः तिर्यक्प्रसारितो वंशः […]