सुबालोपनिषत्-षोडशः खण्डः

सुबालोपनिषत्  अथ षोडशः खण्डः [विद्यारक्षणोपायः]   सौबालबीजब्रह्मोपनिषत् नाप्रशान्ताय दातव्या; नापुत्राय; नाशिष्याय; नासंवत्सररात्रोषिताय । नापरिज्ञातकुलशीलाय दातव्या; नैव च प्रवक्तव्या । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मनः । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। ।। इति षोडशः खण्डः ।।  ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओम् शान्तिः […]

सुबालोपनिषत्-पञ्चदशः खण्डः

सुबालोपनिषत्  अथ पञ्चदशः खण्डः [सर्वदाहेन मुक्तिप्राप्तिः]   अथ हैनं रैक्व: पप्रच्छ भगवन् योऽयं विज्ञानघन उत्क्रामन्, स केन कतरद्वाव स्थानं दहतीति । तस्मै स होवाच – योऽयं विज्ञानघन उत्क्रामन्, प्राणं दहत्यपानं व्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येन श्वेतं कृष्णं नागं दहति । पृथिव्यापस्तेजोवाय्वाकाशं दहति । जागरितं स्वप्नं सुषुप्तम् तुरीयं च महतां च लोकं परं च लोकं दहति । लोकालोकं […]

सुबालोपनिषत्-चतुर्दशः खण्डः

सुबालोपनिषत्  अथ चतुर्दशः खण्डः   ओं पृथिवी वान्नमापोऽन्नादा: आपो वा अन्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानि । इन्द्रियाणि वान्नं मनोऽन्नादं मनो वान्नं बुद्धिन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्नमक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादः । मृत्युर्वै परे देव एकीभवतीति । परस्तान्नसन्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। ।। इति चतुर्दशः खण्डः ।।

सुबालोपनिषत्-त्रयोदशः खण्डः

सुबालोपनिषत्  अथ त्रयोदशः खण्डः [मुनेः बाल्याधुपदेशवर्णनम्]   बाल्येन तिष्ठासेत् । बालस्वभावोऽसङ्गो निरवद्यो मौनेन‘ पाण्डित्येन निरधिकारतयोपलभ्येत । कैवल्यमुक्तं निगमनं प्रजापतिरुवाच । महत् पदं ज्ञात्वा वृक्षमूले वसेत कुचेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामो निष्कामो जीर्णकामः । हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्षसगन्धर्वे मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति । वृक्षमिव तिष्ठासेत्; छिद्यमानोऽपि न कुप्येत, न कम्पेत । उत्पलमिव तिष्ठासेत्; छिद्यमानोऽपि न कुप्येत, न […]

सुबालोपनिषत्-द्वादशः खण्डः

सुबालोपनिषत्  अथ द्वादशः खण्डः ओं नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्वमादित्ये पुन: पक्वं क्रव्यादि पुन: पक्वं जालकिलक्लिन्नं पर्युषितं पूतमन्नमयाचितमसंक्लुप्त– मश्नीयात्। न कञ्चन याचेत ।। ।। इति द्वादशः खण्डः ।।

सुबालोपनिषत्-एकादशः खण्डः

सुबालोपनिषत्  अथ एकादश खण्डः [गतिप्रकारकथनम्]  अथ हैनं रैक्वः पप्रच्छ – भगवन्! योऽयं विज्ञानघन उत्क्रामन्, स केन कतरद्वाव स्थानमुत्सृज्यापक्रामतीति । तस्मै स होवाच – हृदयस्य मध्ये लोहितं मांसपिण्डम्, यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितम् । तस्य मध्ये समुद्रः । समुद्रस्य मध्ये कोशः । तस्मिन् नाड्यश्चतस्रो भवन्ति रमाऽरमेच्छाऽपुनर्भवति । तत्र रमा पुण्येन पुण्यं लोकं नयति । अरमा पापेन पापम् । इच्छया यत् स्मरति, तदभिसम्पद्यते […]

सुबालोपनिषत्-दशमः खण्डः

सुबालोपनिषत् अथ दशमः खण्डः [कस्मिन् सर्वे प्रतिष्ठिता‘ इति प्रश्नस्य ‘परमात्मनि प्रतिष्ठिता‘ इति उत्तरम् |   अथ हैन रैक्व: पप्रच्छ – भगवन्! कस्मिन् सर्वे सम्प्रतिष्ठिता भवन्तीति । रसातललोकेष्विति होवाच । कस्मिन् रसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्विति होवाच – कस्मिन् भूर्लोका ओताश्च प्रोताश्चेति । भुवर्लोर्केष्विति होवाच । कस्मिन् भुवर्लोक ओताश्च पोताश्चेति । सुवर्लोकेष्विति होवाच । कस्मिन् सुवर्लोका ओताश्च प्रोताश्चेति । महर्लोकेष्विति होवाच […]

सुबालोपनिषत्-नवमः खण्डः

सुबालोपनिषत्  अथ नवमः खण्डः [उपासकस्य लयस्थानप्रदर्शनम्] अथ हैनं रैक्वः पप्रच्छ – भगवन्! कस्मिन् सर्वेऽस्तं गच्छन्तीति । तस्मै स होवाच – चक्षुरेवाप्येति । यश्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येति । यो द्रष्टव्यमेवास्तमेति,  आदित्यमेवाप्येति । य आदित्यमेवास्तमेति, विराजमेवाप्येति । यो विराजमेवास्तमेति, प्राणमेवाप्येति । य: प्राणमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।  श्रोत्रमेवाप्येति । यः श्रोत्रमेवास्तमेति, श्रोतव्यमेवाप्येति । […]

सुबालोपनिषत्-अष्टमः खण्डः

सुबालोपनिषत् अथ अष्टमः खण्डः [भगवतः अखिलहेयप्रत्यनीकत्वम्] अन्तश्शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा । सर्वस्य मेदोमांसक्लेदावकीर्ण शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवनिस्सारे जलबुद्बुदवच्चञ्चले निस्सृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्ग शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं बिभ्राजमानमानन्दं तं पश्यन्ति विद्वांसः । तेन लये न पश्यन्ति ।। ।। इति अष्मः खण्डः ।।  

सुबालोपनिषत्-सप्तमः खण्डः

सुबालोपनिषत् अथ सप्तमः खण्डः [भगवतः सर्वशरीरान्तर्यामित्वम् | अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम्, य: पृथिवीमन्तरे सञ्चरन्, यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापो न विदुः। यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं यो वायुमन्तरे सञ्चरन् यं वायुर्न वेदः यस्याकाश: शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद; यस्य मनः शरीरं यो […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.