सुबालोपनिषत्-षष्ठः खण्डः

सुबालोपनिषत् अथ षष्ठः खण्डः [भगवत: नारायणस्य उपास्यता प्राप्यता च] नैवेह किञ्चनाग्र आसीदमूलमनाधारम् । इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः ।। चक्षुश्च द्रष्टव्यञ्च नारायणः । श्रोत्रञ्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यञ्च नारायणः । त्वक् च स्पर्शयितव्यञ्च नारायणो मनश्च मन्तव्यञ्च नारायणो बुद्धिश्च बोद्धव्यञ्च नारायणोऽहङ्कारश्चाहकर्तव्यञ्च नारायणश्चित्तञ्च चेतयितव्यञ्च नारायणो वाक् च वक्तव्यञ्च नारायणो हस्तौ चादातव्यञ्च नारायणः […]

सुबालोपनिषत्-पञ्चमः खण्डः

सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ पञ्चमः खण्डः [परमात्योपासनाप्रकारः] स्थानानि स्थानिभ्यो गच्छति । नाडी तेषां निबन्धनम् । एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विण्णस्य चेतनस्यापवर्गार्थम् , समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निदोषस्य कल्याणगुणाकरस्य परमात्मनः उपासनप्रकारान् उपदिशति – स्थानानि स्थानिध्यो गच्छति इति । वक्ष्यमाणानि चक्षुरादीनि स्थानानि स्थानिभ्य:  आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां चक्षुराद्यभिमानित्वं भगवकिल्याधीनमित्यर्थः । ‘ज्योतिराद्याधिष्ठानं तु तदामननात् प्राणवता शब्दात्’ (ब्र.सू.२-४-१३) इति हि सूत्रकारः । नाडी […]

सुबालोपनिषत्-चतुर्थः खण्डः

सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ चतुर्थः खण्डः [जीवस्य जागराद्यवस्थावर्णनम्] हृदयस्य मध्ये लोहितं मांसपिण्डम्, यस्मिंस्तद्दहरं पैण्डरीकं कुमुदमिवानेकधा विकसितम् । हृदयस्य दश छिद्राणि भवन्ति; येषु प्राणाः प्रतिष्ठिताः । एवं खण्डत्रयेण परस्य ब्रह्मणो जगत्कारणत्वम्, तत्प्रयुक्तदोषशङ्कानिवारणार्थं विश्वविलक्षणत्वञ्चोक्तम् । अपवर्गोपायश्च सत्याद्यनुगृहीतं तदुपासनमिति च संक्षेपत उक्तम् । अथ उपासनविशेषान् पञ्च प्रपञ्चयितुं उपासनस्थानेषु प्रधानं हृदयकमलं प्रस्तुत्य तत्रावस्थितस्य जीवस्य परमात्मोपासिसिषोपजननाय प्रकृतिसम्बन्धसंकुचितज्ञानस्यास्य ज्ञानसंकोचविकासतारतम्यकृतो जागराद्यवस्थायोगः चतुर्थेन खण्डेन प्रतिपाद्यते । हृदयस्य […]

सुबालोपनिषत्-तृतीयः खण्डः

सुबालोपनिषत् सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् अथ तृतीयः खण्डः [कारणस्य परब्रह्मणः स्वरूपनिरूपणम्] असद्वा इदमग्र आसीत् जगत्कारणतया उक्तस्य परब्रह्मणः कारणत्वशङ्कितविकारादिदोषव्युदासार्थं तत्स्वरूपं विशोध्यते तृतीयखण्डेन । तदर्थं कारणमनुवदति – असद्वा इदमग्र आसीत् इति । इदं शब्दो न जगन्मात्रपरः । तस्य वक्ष्यमाणजगद्वैलक्षण्यव्याघातात् । न हि जगत् जगतो विलक्षणाकारं भवति । जगतः परमात्मशरीरत्वञ्च अत्रैव वक्ष्यते । अत इदंशब्देन जगच्छरीरकं ब्रह्मोच्यते । जगद्रूपं परं ब्रह्म तु अग्रे सृष्टेः […]

सुबालोपनिषत्-द्वितीयः खण्डः

सुबालोपनिषत् अथ द्वितीयः खण्डः सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् [अथ भूतादिसृष्टिः] अपानानिषादा यक्षराक्षसगन्धर्वाश्च, अस्थिभ्यः पर्वता लोमभ्या ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत (जायते) । तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि?) तं ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि । अथ अनुक्तसर्गप्रपञ्चपूर्वकं प्रळय उच्यते – अपानात् इति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदा: यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्य […]

सुबालोपनिषत्-प्रथमः खण्डः

।। श्रीः ।। शुक्लयजुर्वेदीया सुबालोपनिषत् शान्तिमन्त्रः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओम् शान्तिः शान्तिः शान्तिः ।। शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्य स्वरूपस्य भावप्रतिपादक इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – ‘पूरी -आप्यायने’ (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति ‘वा दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-छन्न-ज्ञप्ताः’ इति पाणिनिसूत्रेण (पा.सू.७-२-२७)पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.