विषयवाक्यदीपिका अक्षराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अक्षराधिकरणम् अक्षरमंबरांतधृतेः (ब्र.सू. 1.3.9)बृहदारण्यके पंचमाध्यायेऽष्टमे गार्गीब्राह्मणे ।।सा होवाच अहं वै वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वा उग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवंतौ शरौ सपत्नातिव्याधिनौ हस्ते धृत्वोपोत्तिष्ठे देवमेव त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति ।।काशीदेशभवो विदेहदेशभवो हि शूरवंश्यः उत्सृष्टज्यं धनुः पुनरधिज्यं कृत्वा द्वौ […]
विषयवाक्यदीपिका भूमाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। भूमाधिकरणम् भूमा संप्रसादादध्युपदेशात् (ब्र.सू.1.3.7)छांदोग्ये । सप्तमाध्यायोपक्रमे भूमविद्या व्याख्यायते ।।अधीहि भगव इति होपससाद सनत्कुमारं नारदः ।।सनत्कुमारं नारदो विधिवदुपसन्नः तं ।।होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति ।।ज्ञातांशमुक्त्वा मत्समीप उपसीद तच्छ्रुत्वा अज्ञातांशं ते वदिष्यामीत्युक्तवानित्यर्थः ।।स होवाच ऋुग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासं पुराणं पंचमं वेदानां वेदं पित्र्यं […]
विषयवाक्यदीपिका द्युभ्वाद्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। द्युभ्वाद्यधिकरणम् द्युभ्वाद्यायतनं स्वशब्दात् । (ब्र.सू.1.3.1) ॥मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयखण्डे ॥यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ॥ ५ ॥यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनःप्राणादिकं समवेतं, तमेकमेव स्वेतरसमस्तनियन्तृत्वेन व्यापकतयात्मानं जानीत; अनात्मविषया वाचः त्यजत । अमृतस्यैष सेतुः । नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः । […]
विषयवाक्यदीपिका वैश्वानराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वैश्वानराधिकरणम् वैश्वानरः साधारणशब्दविशेषात् (ब्र.सू.1।2।27)छांदोग्ये पंचमप्रपाठके एकादशखण्डे वैश्वानरविद्या प्रस्तूयते ।।प्राचीनशाल आैपमन्यवः सत्ययज्ञः पौलुषिरिंद्रद्युम्नो भाल्लवेयो जनः शार्करार्क्ष्यो वुडिल आश्वतराश्विस्ते है ते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः कोऽनु आत्मा किं ब्रह्मेति ।।उपमन्युसुतः प्राचीनशालनामा पुलषसुतः -सत्ययज्ञनामा भाल्लविसुतः -इंद्रद्युम्नामा शार्कराक्षिसुतो जननामा अश्वतराश्वसुतः-बुडिलनामा एते पंचापि महागृहस्थारत्त्तया विस्तीर्णशालाः संपन्नाः प्रसिद्धा इति […]
विषयवाक्यदीपिका अदृश्यत्वादिगुणकाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अदृश्यत्वादिगुणकाधिकरणम् मुंडकोपनिषदि प्रथमखण्डे ।।शौनको ह वै महाशालोंऽगिरिसं विधिवदुपसन्नः प्रपच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।।सर्वोपादानं किमिति प्रश्नार्थः । विस्तरस्तु मुंडकोपनिषत्प्रकाशिकायां द्रष्टव्यः ।।तस्मै स होवाच ।।स्पष्टोऽर्थः ।।द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदंति ।।अत्र प्राप्तमित्यध्याहारः । यद्वस्तु प्राप्तं द्वे ज्ञाने उपादेये इति ह […]
विषयवाक्यदीपिका अन्तर्याम्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तर्याम्यधिकरणम् अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.1.2.19)बृहदारण्यके पंचमाध्याये सप्तमब्राह्मणे ।।अथ हैनमुद्दालकः आरुणिः पप्रच्छ ।।नाम्नोद्दालकः । अरुणस्यापत्यमारुणिः ।।याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतंजलस्य काप्यस्य गृहेषु यज्ञमधी यानाः ।।मद्रेषु देशेषु गोत्रतः काप्यस्य नाम्ना पंतजलस्य गृहेषु “गृहाः पुंसिचभूम्न्येव” इत्येकस्मिन्बहुवचनम् ।कल्पसूत्रमधीयाना उषितवंतः ।।तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति ।।नाम्ना कबन्धः अथर्वपुत्रश्च इतरत्स्पष्टम् […]
विषयवाक्यदीपिका अन्तराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तराधिकरणम् अंतर उपपत्तेः (ब्र.सू.1।2।13)छांदोग्ये चतुर्थाध्याये दशमखण्डोपक्रमे ।।उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास ।।कमलसुत उपकोसलनामा पूर्वोक्तजाबाले सत्यकामे विद्यार्थं ब्रह्मचर्यमवात्सीत् ।।तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार ।।तदग्निशुश्रूषां द्वादशवर्षाणि कृतवान् ।।स ह स्माऽन्यानंतेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ।।स्वाध्यायार्थिन इतरान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् । तं ब्रह्मविद्यार्थिनं ज्ञात्वा चिरसेवामंतरेण ब्रह्मविद्यानोपदेष्टव्येति […]
विषयवाक्यदीपिका अत्त्रधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अत्त्रधिकरणम् अत्ता चराचरग्रहणात् ।। (ब्र.सू.1.2.9)प्रकरणाच्च ।। (ब्र.सू.1.2.10.)गुहां प्रविष्टावात्मानौ हि तर्द्दर्शनात् ।। (ब्र.सू.1.2.11)विशेषणाच्च ।। (ब्र.सू.1.2.12)शब्दादेव प्रमितः ।। (ब्र.सू.1.3.33)कंपनात् ।। (ब्र.सू. 1.3.40)ज्योतिर्दर्शनात् ।। (ब्र.सू.1.3.41)आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।।(ब्र.सू.1.4.1)वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।। (ब्र.सू.1.4.5)त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।(ब्र.सू.1.4.6)इत्येवमादिसूत्रविषयवाक्यार्थप्रदर्शनाय कठवल्ली प्रायेण व्याख्यायते ।।उशन् हवै वाजश्रवसः सर्ववेदसं ददौ ।।उशन् […]
विषयवाक्यदीपिका सर्वत्रप्रसिद्ध्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। सर्वत्रप्रसिद्ध्यधिकरणम् सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.1.2.1)छांदोग्ये तृतीयाध्याये चतुर्दशखण्डोपक्रमे शांडिल्यविद्या प्रस्तूयते ।सर्वंखल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।।जायते इति जम् ।लीयते इति लम् ।। जलशब्दौ डप्रत्ययान्तौ । अनितीति अन् ।अनिति जीवतीत्यर्थः । क्विबन्तो विजन्तोवा यंशब्दः । तस्यजलान् तज्जलान् इतिशब्दोहेत्वर्थः ।सर्वशब्दः सर्वशरीरकपरः । इदमित्येतत् ब्रह्मणः सर्वस्य वा विशेषणम् । […]
विषयवाक्यदीपिका इन्द्रप्राणाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। इन्द्रप्राणाधिकरणम् प्राणस्तथानुगमात् ।। (ब्र.सू.1.1.29)कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम् ।।प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ।।दिवोदासस्यापत्यं दैवोदासिः नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युतः इंद्रस्य प्रियं स्थानं स्वर्गमुपगत इत्यर्थः ।तँ हेन्द्र उवाच । प्रतर्दन वरं वृणीष्वेति ।।स्पष्टोऽर्थः ।।स होवाच प्रतर्दनः त्वमेव मे वरं वृणीष्व । यं […]