विषयवाक्यदीपिका ज्योतिरधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। ज्योतिरधिकरणम् ज्योतिश्चरणाभिधानात् (ब्र.सू.1. 1. 27 )छोंदोग्ये तृतीयाध्याये द्वादशखण्डस्योपक्रमे ।।चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणो गायत्रीसादृश्यानुसंधानरूपा विद्याप्रस्तूयते “इन्द्रःशचीपतिः । बलेन पीडितः । दुःश्चयवनो वृषा । समित्सुसासहिः” । इति हि गायत्री चतुष्पदा । एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्त्वेन षड्विधा च । एवं ब्रह्मणोऽपि भूतशब्दितात्मवर्ग एकःपादः, कर्मार्जितभोगस्थानरूपः पृथिवीलोक एकः पादः, भोगोपकरणं शरीरमेकःपादः, […]
विषयवाक्यदीपिका प्राणाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। प्राणाधिकरणम् अतएवप्राणः (ब्र.सू.1.1.24)छांदोग्ये प्रथमे नवमे-मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ।।चक्रस्य सुतः उषस्तिनामा कश्चन ऋषिः अश्मवृष्टिकृतदुर्भिक्षदूषितेषु कुरुदेशेषु आटिक्या अनुपजातपयोधरादिव्यंजनयाभार्यया सह इभ्यानां गजारोहाणां ग्रामे प्रद्राणकः अनशनेन कुत्सितांगतिमापन्नः ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादं कांक्षन्नुवास ।द्राकुत्सायांगताविति हि धातुः । चक्रस्य गोत्रापत्यमित्यर्थे अश्वादित्वात् “फञि” चाक्रायण इति रूपम् ।।1।।स हेभ्यं […]
विषयवाक्यदीपिका आकाशाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आकाशाधिकरणम् आकाशस्तल्लिंगात् (ब्र.सू.1.1.23)छांदोग्ये प्रथमप्रपाठकेऽष्टमखण्डे ।त्रयो होद्गीथे कुशलाबभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।।शालावत्सुतः शिलकनामा दाल्भ्यः दल्भगोऽत्राश्चिकितायनसुतः प्रवाहणो नामाजिवलसुतश्च त्रय एते उद्गीथविज्ञानेनिपुणाबभूवुरित्यर्थः । शालावच्छब्दादपत्यार्थेऽण्तदंतात्स्वार्थे “अभिजिद्विदभृच्छालावत्”(अष्टा.5.3.108) इत्यादिना यञ्प्रत्ययः ।दल्भशब्दाद्गोत्रापत्येगर्गादित्वाद्यञ् । चिकितायनशब्दादपत्यार्थे ऋषित्वादणिचैकितायनः जिवलशब्दात् “अतइञ्”(2) (अष्टा.4.1.95) जैवलिः ।।ते होचुरूद्गीथे वै कुशलाः स्मःहंतोद्गीथे क थां वदाम इति ।।वयमुद्गीथाविज्ञाने […]
विषयवाक्यदीपिका अन्तरधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तरधिकरणम् अन्तस्तद्धर्मोपदेशात् ।1।1।21।। छांदोग्येप्रथमाध्यायेषष्ठखण्डे ।।अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ।।आदित्यमण्डलस्यमध्ये हिरण्मयः कमनीयविग्रहः यः पुरुषोयोगिभिर्दृश्यत इत्यर्थः ।”दृश्यतेत्वग्रयाया बुद्ध्यासूक्ष्मया सूक्ष्मदर्शिभिः”इतिश्रुत्यैकार्थ्यात् । “हिरण्मय इति रूपसामान्याच्चन्द्रमुखवत्” इति वाक्यकारः । ततश्च हिरण्मयशब्दस्य न मुख्यार्थोग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वमुज्जवलत्वमित्यर्थः । अतो नीलतोयदाभस्यापि हिरण्मयत्वे नानुपपत्तिः । यद्वा “कच्चिन्नतद्धेमसमानवर्णम् । तस्याननम्” […]
विषयवाक्यदीपिका आनन्दमयाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आनन्दमयाधिकरणम् आनन्दमयोऽभ्यासात् (ब्र.सू.1।1।13) परमतत्त्वहितपुरुषार्थप्रतिपादिकानन्दवल्ली प्रस्तूयते ।।ब्रह्मविदाप्नोति परम् ।।निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्य उत्कृष्टं ब्रह्म प्राप्नोतीत्यर्थः । “आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)” इत्यधिकरणोक्तन्यायेन वेदनोपासनादिशब्दानामेकार्थत्वात् । ब्रह्मविदित्यत्र विच्छब्दोप्युपासनपरःतत्क्रतुन्यायेन प्राप्यस्यैवोपास्यत्वात् ।”ब्रह्मविदाप्नोतिपरम्” इति परस्यब्रह्मणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वमिति द्रष्टव्यम् । अत्र ब्रह्म तद्वेदनं प्राप्तिः प्राप्यं चेति चतुष्टयमुक्तम् । किं तद्ब्रह्म कीदृशं तद्वेदनं कीदृशी प्राप्तिः कीदृशं च प्राप्यमित्याकांक्षायां […]
जगद्व्यापारवर्जाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः जगद्व्यापारवर्जाधिकरणम् ॥ ६ ॥ मुक्तस्य ऐश्वर्यम् किम् जगद्व्यापारसहितम्, उत तद्रहितम् अनुभव-मात्रविषयमिति सम्शये जगद्व्यापारसहितमेवेति पूर्वपक्षः । *निरञ्जनः परमम् साम्यमुपैती*(मुण्ड.३-१-३)ति परमसाम्यप्रतिपादिकया श्रुत्या सत्यसङ्कल्पत्वश्रुत्या च मुक्तस्य जगन्नियमनस्यापि सिद्धेः । न हि जगन्नियमनमन्तरा परमसाम्यसत्यसङ्कल्पत्वे सिध्यतः । अतस्त-दन्यथानुपपत्त्या जगन्नियमनरूपैश्वर्यस्याप्यावश्यकत्वादिति । सिद्धा-न्तस्तु – जगद्व्यापारवर्जम् प्रकरणादसन्निहितत्वाच्च ॥४-४-१७॥ निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनरूपजगदैश्वर्यस्य परब्रह्मासाधारणत्वेन तल्लक्षणत्वात् मुक्तसाधारणत्वे ब्रह्मलक्षणत्वा-सम्भवात् […]
अभावाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः अभावाधिकरणम् ॥ ४ ॥ अभावम् बादरिराह ह्येवम् ॥ ४-४-१० ॥ शरीरेन्द्रियाणामभावम् बादरिराचार्यो मन्यते । *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती*(छान्.८-१२-१)त्येव श्रुतिराहेत्यर्थः । भावम् जैमिनिर्विकल्पामननात् ॥ ४-४-११ ॥ मुक्तस्य देहेन्द्रियादिसद्भावम् जैमिनिराचार्यो मन्यते । कुतः । विकल्पामननात् । विविधःकल्पः विकल्पः वैविध्यमित्यर्थः । *स एकधा भवति त्रिधा भवति पञ्चधा […]
सङ्कल्पाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः सङ्कल्पाधिकरणम् ॥ ४ ॥ सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि राजादीनामभिलषितसृष्टेः प्रयत्नान्तरसापेक्षत्व दर्शनात् मुक्तस्यापि सिसृक्षितपितृलोकादिसृष्टिः सङ्कल्पव्यतिरिक्तप्रयत्नान्तरसापेक्षवैति प्राप्त उच्यते – सङ्कल्पादेव तच्छ्रुतेः ॥ ४-४-८॥ सङ्कल्पमात्रादेव सृष्टिः । न प्रयत्नान्तरसापेक्षा कुतः । *सङ्कल्पादेव पितरस्समुत्तिष्ठन्ती*(छान्.८-२-१)ति एवकारश्रुतेः । न च एवकारस्य अयोगव्यवच्छेदकत्वमत्यन्तायोगव्यवच्छेदकत्वम् वाऽर्थः । विशेषण-क्रियासङ्गतयोरेव एवकारयोरयोगात्यन्तायोगव्यवच्छेदार्थकत्वेन एतस्य चातथात्वेन अन्ययोगव्यवच्छेदपरत्वस्यैव न्याय्यत्वात् । अत […]
ब्राह्माधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः ब्राह्माधिकरणम् ॥३॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४-४-५ ॥ *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्युच्यमानम् स्वरूपम् किमित्याकाङ्क्षायाम् अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेवो-पन्यासात् सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च ब्रह्मसम्बन्धिना अपहत-पाप्मत्वादिगुणलक्षणेन रूपेणाविर्भवतीति जैमिनिराचार्यो मन्यत इति । चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥४-४-६॥ *प्रज्ञानघन एव*(बृह.६-५-१३), *विज्ञानघन एवे*(बृह.४-४-१२)ति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात् ज्ञानमात्रस्वरूपोणावि-र्भवतीति । एवमप्युपन्यासात्पूर्वभावादाविरोधम् बादरायणः॥४-४-७॥ तस्य चायमर्थः एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन “ब्राह्मेण जैमिनिरुपन्यासादिभ्य*(ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूप-स्यापि सम्भवात् सैन्धवघनस्य कृत्स्नस्य […]
अविभागेनदृष्टत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥ किमयम् मुक्तः परञ्ज्योतिरुपसम्पन्नः स्वात्मानम् परमात्मनः पृथग्भूतमनुभवति उत परमात्मप्रकारतया परमात्मनः अविभागेन अनुभवतीति विशये *सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता*(तै. आन.१-२), *परमम् साम्यमुपैति*(मुण्ड.३-१-३) *मम साधर्म्यमागता* (गी.१४-२) इत्यादिश्रुतिस्मृतिभ्याम् मुक्तस्य परेण साम्यसाहित्यसाधर्म्य प्रतिपादनात् तेषाम् भेदगर्भत्वात् पृथग्भावेनैवानुभवतीति पूर्वपक्षे प्राप्त उच्यते – अविभागेन दृष्टत्वात् ॥४-४-५॥ परब्रह्मणः स्वात्मानम् अविभागेन अनुभवति […]