श्रीन्यासविंशतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासविंशतिः सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयाळुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ 1 ॥ अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात् जन्मप्रध्वंसिजन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् । निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ 2 ॥ सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः […]

श्रीन्यासदशकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासदशकम् अहं मद्रक्षणभरो मद्रक्षणफलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥   न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः । विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥   स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥   श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः । एतद्देहावसाने […]

श्रीगोदास्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगोदास्तुतिः श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं श्रीरङ्गराजहरिचन्दनयोगदृश्याम् । साक्षात् क्षमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥ वैदेशिकः श्रुतिगिरामपि भूयसीनां वर्णेषु माति महिमा नहि मादृशां ते । इत्थं विदन्तमपि मां सहसैव गोदे मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥ त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् । गोदे त्वमेव […]

श्री-भूस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री-भूस्तुतिः सङ्कल्प कल्प लतिकामवधिं क्षमायाः स्वेच्छा वराह महिषीं सुलभानुकम्पाम् । विश्वस्य मातरमकिं चन कामधेनुं विश्वं भरामशरणः शरणं प्रपद्ये ॥ 1 ॥ त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते सं वेदयत्यखिल मन्त्र गणस्तमेव । इत्थं प्रतीत विभवामितरेष्विदानीं स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2 […]

श्रीस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीस्तुतिः मानातीतप्रथितविभवां मङ्गळं मङ्गळानां वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ आविर्भावः कलशजलधावध्वरे वापि यस्याः स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा । भूमा यस्या भूवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥ स्तोतव्यत्वं दिशति भवती […]

श्रीदेहळीशस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदेहळीशस्तुतिः विक्रम्य येन विजितानि जगन्ति भूम्ना विश्वस्य यं परम कारणमामनन्ति । विश्राणयन् प्रणयिनां विविधान् पुमर्थान् गोप्ता स मे भवतु गोपपुराधिराजः ॥ 1 ॥ देहळ्यधीश्वर तवेदृशमीश्वरत्वं तुष्टूषतां दिशति गद्गदिकानुबन्धम् । वाचालयत्यथ च मां क्वचन क्षपायां क्षान्तेन दान्त कवि मुख्य विमर्दनेन ॥ 2 ॥ […]

श्रीगोपालविंशतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगोपालविंशतिः वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ वाचं निजाङ्करसिकां प्रसमीक्षमाणः वक्त्रारविन्दविनिवेशितपाञ्चजन्यः । वर्णत्रिकोणरुचिरे वरपुण्डरीके बद्धासनो जयति वल्लवचक्रवर्ती ॥ आम्नायगन्धिरुदितस्फुरिताधरोष्ठम् आस्राविलेक्षणमनुक्षणमन्दहासम् । गोपालडिम्भवपुषं कुहनाजनन्याः प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम् । दध्ना निमन्थमुखरेण निबद्धताळं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ हर्तुं […]

श्रीमहावीरवैभवम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीमहावीरवैभवम् जयत्याश्रितसंत्रासध्वान्तविध्वंसनोदयः । प्रभावान् सीतया देव्या परमव्योमभास्करः ॥ 1 ॥ जय जय महावीर ॥ 2 ॥ महाधीर धौरेय ॥ 3 ॥ देवासुर समर समय समुदित निखिल निर्जर निर्धारित निरवधिक माहात्म्य ॥ 4 ॥ दशवदन दमित दैवत परिषदभ्यर्थित दाशरथिभाव ॥ 5 ॥ दिनकर […]

श्री अच्युतशतकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री अच्युतशतकम् णमह ति।असाण णाहं सच्चं दासाण अच्चु।अं ठिरजो।इम् । गलुल ण।इ तड तमालं अहिन्द ण।अरो सहा।अलेक्क ग।इन्दम् ॥ नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः । गरुड नदी तट तमालं अहीन्द्रनगरौषधाचलैक गजेन्द्रम् ॥ 1 ॥ किं करसच्च थु।ई तुह स।अं भु गेहिणि […]

श्रीदेवनायकपञ्चाशत्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदेवनायकपञ्चाशत् प्रणतसुरकिरीटप्रान्तमन्दारमाला- विगळितमकरन्दस्निग्धपादारविन्दः । पशुपतिविधिपूज्यः पद्मपत्रायताक्षः फणिपतिपुरनाथः पातु मां देवनाथः ।। देवाधिनाथकमलापृतनेशपूर्वां दीप्तान्तरां वकुळभूषणनाथमुख्यैः । रामानुजप्रभृतिभिः परिभूषिताग्रां गोप्त्रीं जगन्ति गुरुपक्तिमहं प्रपद्ये ।। दिव्ये दयाजलनिधौ दिविषन्नियन्तुः तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् । प्राचः कवीन् निगमसंमितसूनृतोक्तीन् प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ।। मातस्त्वमम्बुरुहवासिनि किंचिदेतत् विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.