42 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः कदाचनसीतयासहक्रीडावनंगर्तनरामेण तांप्रति गर्भिणीत्वादीप्सितदौर्ह्रदनिवेदनचोदने तयातंप्रति पुनरेकवारंगङ्गातीरवर्तिमुन्याश्रमदिदृक्षानिवेदने रामेण तांप्रति तत्करणप्रतिज्ञानम् ।। १ ॥ स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥ अशोकवनिकां अन्तःपुरगतं लीलोद्यानं ॥ १ ॥   चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥ चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ३ ॥ लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । […]

41 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः रामेण कुबेरंप्रतिप्रेषितेनपुष्पकविमानेन पुनरयोध्यामेत्यान्तरिक्षावस्थानेनाशरीरवाण्या स्वस्यतत्सेवनायकुबेरचोदनानिवेदनपूर्वकं स्वपरिग्रहप्रार्थना ॥ १ ॥ रामेण पुष्पकस्य सबहुमानं -कार्यकालेसंविधानविधानेनेष्टदेशंप्रतिप्रेषणम् ॥ २ ॥ विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ ॥ प्रमुमोद सुखं सुखी । स्वतः सुखी रामः आश्रितदुः स्वनिवृत्त्या सुखं प्रमुमोद । अविच्छिन्नप्रमोदमगमदित्यर्थः । अत्र प्रमुमोदेति दकारो गायत्र्यक्षरं ॥ १ ॥ […]

40 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः रामेण सबहुमानपरिष्वङ्गं सुग्रीवविभीषणादीनां स्वस्वावासंप्रति प्रेषणम् ॥ १ ॥ तथा हनुमत्कण्ठे स्वकण्ठस्थमुक्ताहारार्पणपूर्वकं वरदानेनेष्टदेशं प्रतिप्रेषणम् ॥ २ ॥ तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजा: सुग्रीवमिदमब्रवीत् ॥ १ ॥ तेषामिति भावलक्षणे षष्ठी । तेषु वसत्स्विति यावत् ॥ १ ॥   गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। […]

39 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः रामाभ्यनुज्ञानेनस्वस्वनगरगतैस्तैस्तैराजभिः स्वस्वानुगतभरतलक्ष्मण शत्रुघ्नद्वारा श्रीरामाय नानारत्नादिरूपोपायनप्रत्यर्पणम् ॥ १ ॥ रामेण सुग्रीवविभीषणदिभ्यस्तद्रत्नदानम् ॥ २ ॥ रामेण सादरोपचारलालितैः सुग्रीवविभीषणादिभिरयोध्यायामेकं वत्सरं सुखनिवासः ॥ ३ ॥ ते प्रयाता महात्मानः पार्थिवास्ते ग्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुंधराम् ॥ १ ॥ प्रहृष्टवत् प्रहृष्टाः सन्तः ॥ १ ।।   अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञयाऽनेकाः प्रहृष्टा बलवाहनाः ॥ […]

38 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः रामेण स्वाभिषेकावलोकनकुतुकसमागतनानादेशाधिपानां तत्तन्नगरंप्रतिप्रेषणम् ॥ १ ॥ एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ १ ॥ ततः कतिपयाहस्सु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ २ ॥ अथ सामन्तराजविसर्जनं-एवमित्यादि ॥ एवं पूर्वोक्तप्रकारेण । सर्वोपास्यमान इत्यर्थः । प्रशासदिति शत्रन्तं पदं ॥ १-२ ॥   भवान्हि गतिरव्यग्रा भवता पालिता वयम् […]

प्रक्षिप्तसर्गः उत्तरकाण्डः

॥ अथाधिकपाठलोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रामंप्रत्यगस्त्येन मेरुटङ्गनिवासिनोब्रह्मणोनेत्रांबुजातादृक्षरजोनामकवानरवराद्वालि -सुग्रीवजननप्रकारनिरूपणम् ॥ १ ॥ एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् । य एषर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥ जननी का च भगवन्न त्वया परिकीर्तिता । वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः । एतद्बह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥ स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥ शृणु […]

37 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः श्रीरामेणागस्त्यादिनिर्गमानन्तरंसुखेनतद्रात्रियापनपूर्वकंप्रभातेभरतादिभिः सहपौरप्रधा -नाधिष्ठितसभाप्रवेशः ॥ १ ॥ अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ १ ।। तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ २ ॥ ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नृपतिं वीरं यथावत्संप्रहर्षिणः ।। ३ ॥ ऋषिगणास्त्वभिषेककाले संप्राप्ताः कथितकथा: विसृष्टाश्च […]

36 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्त्रिंशः सर्गः ब्रह्मणा वायुसान्त्वनपूर्वकंनिजकरपरामर्शनेनहनुमदुज्जीवने तुष्टेनवायुना यथापुरंसर्व प्राणिसंचरणम् ॥ १ ॥ ब्रह्मणा रुद्रेन्द्रादिभिर्हनुमतेवरदापनपूर्वकं स्वयमपितस्मैवरदानेन स्वलोकगमनम् ॥ २ ॥ वरदृप्तेनहनुमतापीडितैर्महर्षिभिस्तंप्रति केनापिनिजबलस्मारणावधि दीर्घकालं स्वबलापरिज्ञानप्रकारकशापडानम् ॥ ३ ॥ एवमगस्त्येन रामंप्रति हनुमतऋषिशापमूलकस्वबलाज्ञानस्य वाल्यमारणकारणस्वोक्तिपूर्वकं श्रीरामाभ्यनुज्ञानेन -मुनिगणैःसह स्वाश्रमगमनम् ॥ ४ ॥ ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दित: । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय […]

35 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चत्रिंशः सर्गः रामेणागस्त्यंप्रति हनुमत्प्रशंसनपूर्वकं तस्यवाल्यपेक्षयाऽधिकवलत्वोत्या तेनसुग्रीव -प्रीत्यैवाल्यमारणे कारणप्रश्नः ॥ १ ॥ अगस्त्येन तदुपोद्धाततयारामंप्रति हनुमदुत्पत्यादिकथनो -पक्रमः ॥ २ ॥ भगवतावायुदेवेन सुमेरुगिरिचारिणः केसरिनाम्नोवानरराजस्यजायाया -मञ्जानायां हनुमतः समुत्पादनम् ।। ३ ।। जातमात्रेणहनुमता निजजनन्यांफलानयनायगतायां क्षुत्पीडासहिष्णुतयाउद्यद्दिवाकरेफलत्वबुद्ध्या तज्जिहीर्पयाजवाद्गगने समुत्पतनम् ॥ ४ ॥ तदन्तरेसूर्यग्रहणायतत्समीपोपसर्पिणाराहुणा स्वजिघृयायास्वाभिमुख्येनाधावतिसतिहनुमति इन्द्रंप्रति स्वरक्षणप्रार्थना ॥ ५ ॥ तदेन्द्रकरोत्सृष्टवज्राभिघातभग्नहनौहनुमति गिरौपततिसति क्रुद्धेनवायुना सकलप्राणिश्वासनिरोधनपूर्वकं हनुमदानयनेनगुहाप्रवेशः ॥ ६ ॥ तदादेवगन्धर्वादिप्रार्थितेनब्रह्मणा […]

34 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुस्त्रिंशः सर्गः वालिजिगीषयाकिष्किन्धामेत्यरावणेन रणायवालिसमाह्वानम् ॥ १ ॥ तारेण वालिनो -दक्षिणसागरंनिवेदितेनतेन पुष्पकारोहणेनवेगाद्दक्षिणसमुद्रगमनम् ॥ २ ॥ वालिना स्वजिघृक्षया -समीपोपसर्पिणोरावणस्य स्वकक्षनिक्षेपेण पश्चिमादिसागरत्रयप्रापणेन तत्रतत्रसंध्योपासन -पूर्वकंकिष्किन्धोपवनमेत्य तत्रकक्षाद्रावणोत्सर्जनम् ॥ ३ ॥ वालिबलविज्ञानविस्मितेनरावणेन तत्प्रशंसनपूर्वकं तेनसहाग्निसाक्षिकंसख्यकरणम् ॥ ४ ॥ अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ १ ॥ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.