33 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः दैवतमुखादर्जुनकृतरावणबन्धनश्राविणापुलस्त्येन माहिष्मतीमेत्यार्जुनाद्रावणमोचनम् ॥ १ ॥ रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥ ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥ कम्प्यमानः अनुकम्पायुक्ततया संपद्यमानः । यद्वा पौत्रस्नेहात्कम्पित इत्यर्थ: । महाघृतेरपि कम्पितं हृदयमित्यर्थः ॥ २ ॥ स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मती प्राप्तो […]

32 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः नर्मदायांरावणोपवेशदेशतोऽर्वाग्देशेस्त्रीभिःसहजलक्रीडांकुर्वताऽर्जुनेन निजभुजसहस्त्रे -णनर्मदाप्रवाहेनिरुद्धे प्रतिस्त्रोतसातत्प्रवाहेण रावणार्जितपूजासाधनपुष्पाद्यपहरणम् ।। १ ।। प्रवाहप्रातिलोम्यपरिज्ञानायस्वप्रेषिताभ्यांशुकसारणाभ्यां तत्कारणंनिवेदितेनरावणेनार्जुनमेत्य रणायसमाह्वानम् ॥ २ ॥ अर्जुनेन रणेनिजगदाप्रहारेणविह्वलस्यरावणस्य बलाद्बन्धनेन निजनगरप्रापणम् ॥ ३ ॥ नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥ तासां मध्यगतो राजा रराज […]

31 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः अगस्त्यमुखाद्बहुशोरावणविजयश्राविणारामेण तंप्रति रावणजेतृसत्वसंदेहेनप्रश्ने तंप्रत्य -गस्त्येन रावणपराजयकथनोपक्रमः ॥ १ ॥ कार्तवीर्यार्जुनजिगीषयामाहिष्मतींगतेनरावणेन तदमात्याम्प्रति राज्ञिरणायनिजाह्वाननिवेदनचोदना ॥ २ ॥ तैर्नगरेऽर्जुनासांनिध्यंबोधितेनरावणेन नर्मदामेत्य तत्रस्त्रानाह्निककरणपूर्वकं तत्पुलिनेसचिवानीतकुसुमादिसाधनैः शिवलिङ्गार्चनो -पक्रमः ॥ ३ ॥   ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥ भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोका: शून्या आसन्द्विजोत्तम ॥ २ […]

30 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिंशः सर्गः इन्द्रजिद्बद्धेन्द्रमोचनायदेवगणप्रार्थितेनब्रह्मणा तैस्सहलङ्कामेत्य रावणंप्रतीन्द्रमोचन -चोदना ॥ १ ॥ तथेन्द्रजिते तदीप्सितावध्यस्ववरदानपूर्वकं तस्मादिन्द्रमोचनम् ॥ २ ॥ तथा बन्धनलज्जितमिन्द्रंप्रति तत्कृताहल्याधर्षणादिस्स्मारणपूर्वकं तस्यबन्धनहेतुत्वनिवेदनम् ॥ ३ ॥ इन्द्रेण ब्रह्मचोदनयायजनेन पुनरिन्द्रासनारोहणम् ॥ ४ ॥ एवमगस्त्येन रामंप्रतीन्द्रजित्पराक्रमा -दिकथनम् ॥ ५ ॥ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै । [ प्रजापतिं सुराः सर्वे गताः परमदुःखिताः ॥ १ ॥ भगवन्पुरुहूतोऽयं निगृहीतोऽभवद्वरात् […]

29 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशःसर्गः ससैन्येनेन्द्रेण रावणेसमाक्रान्ते इन्द्रजिताकोपादिन्द्रेणसहयोधनम् ॥ १ ॥ तथा माययेन्द्रस्यबन्धनेन स्वसेनामध्यप्रापणम् ॥ २ ॥ रावणेनेन्द्रजितंप्रति इन्द्रस्यरथारोपणेनलङ्का -प्रापणचोदनपूर्वकं पश्चाल्लकांप्रतिगमनम् ॥ ३ ॥ ततस्तमसि संजाते सर्वे ते देवराक्षसाः । अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥ ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥ तस्मिंस्तु तामसे युद्धे सर्वे […]

28 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः इन्द्रजिद्बाणाभिघातनिर्विण्णेजयन्ते तन्मातामहेनपुलोम्ना तस्यरणाङ्गणादपवाहन -पूर्वकं तेनसहसागरप्रवेशः ॥ १ पुत्रादर्शनरुष्टेनेन्द्रेण रणायेन्द्रजितंप्रत्यभियाने रावणेनेन्द्रजित्प्रति -निवर्तनेन स्वयमेवेन्द्रप्रत्यभियानम् ॥ २ ॥ सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ १ ॥ ततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥ सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव […]

27 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः रावणेन कैलासात्सुमालिप्रभृतिभिः सह स्वर्गलोकमेत्येन्द्रादिभिः सहमहासमरप्रवर्तनम् ॥ १ ॥ सुमालिनासुरसेनावमर्दने सावित्रनाम्नावसुना तेनसहयुद्ध्वा गदयातस्यहननम् ॥ २ ॥ कैलासं लङ्घयित्वाऽथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ २ ॥ श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान्देवान्त्सर्वानेव समागतान् ॥ […]

26 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडिशः सर्गः कैलासेवसता समुदितेचन्द्रे तत्रयदृच्छासमागतरंभावलोकनक्षुभितहृदाचरावणेन तत्करग्रहणेन तांप्रतिजिगमिपितदेशप्रश्नपूर्वकंभोगप्रार्थना ॥ १ ॥ तयातंप्रति स्वस्यनलकूबरा -भिलापनिवेदनेन स्नुषात्वोक्त्त्या स्वमोचनयाचने तेनबलात्तदुपभोगः ॥ २ ॥ तेनभुक्तमुक्तयारंभया नलकूबरमेत्य तस्मिन्रावणदुश्चेष्टितनिवेदनम् ॥ ३ ॥ तेनकोपात्तंप्रति अकामकामिनीभोगे सप्तधामूर्धस्फुटनविषयकशापदानम् ॥ ४ ॥ तच्छ्रवणेनरावणेनाकाम -कामिनीभोगानभिरोचनं तदपहृतपतिव्रताभिर्हर्षाधिगमश्च ॥ ५ ॥ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ […]

25 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः दिग्विजयानन्तंरलङ्कामाविशतारावणेन प्रथमंनिकुंभिलाप्रवेशः ॥ १ ॥ तत्रयज्ञदीक्षित -मिन्द्रजितंप्रति यज्ञफलप्रश्नः ॥ २ ॥ याजकेनशुक्रेण तंप्रतितस्यमौनित्वोक्त्त्या यज्ञफलनिवेदनम् ॥ ३ ॥ रावणेनेन्द्रजितंप्रति शत्रुभूतेन्द्राद्याराधनस्यानौचित्योक्त्या तन्निवर्तनपूर्वकं तेनसहस्त्व -भवनमेत्य पुष्पकात्स्त्वापहृतपरतरुणीगणावतारणम् ॥ ४ ॥ तदसहिष्णुनाविभीषणेनतंप्रति निजभगिन्या: कुंभीनस्याः मधुनामकदैत्यकृतापहरणनिवेदनपूर्वकं तस्यपराङ्गनाहरणरूप -दुष्कर्मफलस्वकथनम् ॥ ५ ॥ रावणेनमधुवधपूर्वकसुरलोकजयप्रतिज्ञानेन कुंभकर्णादिभिः सहमधुपुरंप्रतिगमनं ॥ ६ ॥ तथाकुंभीनसीप्रार्थनया मधुवधान्निवृत्य तेनापिसहकैलासगमनम् ॥ ७ ॥ स तु […]

24 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः दिग्जयार्थंगतेनरावणेन तन्त्रतत्ररमणीयतरतरुणीगणस्यबलादपहरणेन पुष्पकारोपणे साध्वीभिस्ताभिस्तंप्रति नारीहेतुकवधप्राप्तिकारकशापदानम् ॥ १ ॥ ततस्ताभिः सहैवलङ्कां -प्रविष्टेरावणे शूर्पणखया तंप्रति स्वरमणमारणरूपदोषाविष्करणेन सगर्हणंरोदनम् ॥ २ ॥ रावणेनतांप्रति तन्मारणस्यप्रामादिकत्वोक्त्यापरिसान्त्वनपूर्वकं दानमानादिभिस्तत्परितोषण -प्रतिज्ञानेन तदर्थं चतुर्दशसदस्रसंख्याकराक्षसैर्दूषणेन शूर्पणखयाचसह दण्डकारण्यंप्रति खरस्यप्रेषणम् ॥ ३ ॥ निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ १ ॥ दर्शनीयां हि रक्षः स कन्यां स्त्रीं वाऽथ पश्यति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.