33 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः

दैवतमुखादर्जुनकृतरावणबन्धनश्राविणापुलस्त्येन माहिष्मतीमेत्यार्जुनाद्रावणमोचनम् ॥ १ ॥

रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।

ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥

ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महाधृतिः ।

माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥

कम्प्यमानः अनुकम्पायुक्ततया संपद्यमानः । यद्वा पौत्रस्नेहात्कम्पित इत्यर्थ: । महाघृतेरपि कम्पितं हृदयमित्यर्थः ॥ २ ॥

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।

पुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥

मनःसंपातविक्रमः मनोगतिः । वायुतुल्यगतिः वायुसमानवेगः ।। ३ ।।

 

सोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् ।

प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥

अमरावतिसंकाशामित्यत्र ङयापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः ॥ ४ ॥

 

पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।

ततस्ते प्रत्यभिज्ञाय चार्जुनाय निवेदयन् ॥ ५ ॥

पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।

शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ६ ॥

पुरोहितोस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।

पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥

ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।

अर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥

स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।

पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥

अद्यैवममरावत्या तुल्या माहिष्मती कृता ।

अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ १० ॥

अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।

यस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ ११ ॥

सुदुर्दशं दुर्दर्शमिति यावत् । प्रत्युद्गच्छत् प्रत्युद्गच्छत । ईश्वरं ब्रह्माणं ॥ ५-११ ॥

 

इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।

ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। १२ ।।

किं कुर्मि किं करवाणि किं वा कार्यं मया ॥ १२ ॥

 

तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।

पुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥

नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।

अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥

भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।

सोयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥

शिवं कुशलं । पुलस्त्योवाचेति सन्धिराषः ॥ १३-१५ ॥

 

पुत्रकस्य यश: पीतं नाम विश्रावितं त्वया ।

मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ।। १६ ।।

पुत्रकस्य मदीयबालकस्य । नाम विश्रावितं रावणजिदिति नाम त्वया त्रैलोक्ये विश्रावितं । वत्सं बालं ॥ १६ ॥

 

पुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुनः ।

मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥

किंचिद्वचोपि नोवाच किंचन अविद्यमानं किंचिद्वचनं न किंचिद्वप्यवददित्यर्थः । अपि तु क्रिया केवलमुत्तरमिति मुमोचेत्यर्थ: । प्रहृष्टवत् ब्रह्मणा प्रार्थनीयोस्मीति संतोषयुक्तः सन् ॥ १७ ॥

 

स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्त्रगम्बरैः ।

अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥

परस्परहिंसाप्रवृत्तिनिवारणसाधनभूतं साग्निकं अग्निसाक्षिपूर्वकं ॥ १८ ॥

 

पुलस्त्येनापि संत्यक्तो राक्षसेन्द्रः प्रतापवान् ।

परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ १९ ॥

पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।

मोचयित्वा दशग्रीवं ब्रह्मलोकं जगामह ॥ २० ॥

एवं स रावणः प्राप्तः कार्तवीर्यात्मधर्षणम् ।

पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ २१ ॥

एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।

नावज्ञा हि परे कार्या य इच्छेत्प्रियमात्मनः ।। २२ ।।

ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।

पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥

अपिना अर्जुनेनापीति समुच्चीयते । कृतातिथ्य इति । अर्जुनेनेति शेषः ।। १९-२३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.