110 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः

श्री रामेण सकलजनैः सहस्वलोकगमनाय सरयूगमनम् ॥ १ ॥ तथा तत्रागतचतुर्मुखप्रार्थनया वैष्णवतेजःप्रवेशनम् ॥ २॥ तथा स्वान्वागतानांजनानां चतुर्मुखद्वारा सांतानिकलोकप्रापणम् ॥ ३ ॥ वानरादिभिश्चसह सरय्वामवगाहनेनस्वलोकगमनम् ॥ ४ ॥

अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।

सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥

तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।

आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ २ ॥

अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।

सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ३ ॥

आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।

विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ४ ॥

अर्धाधिकं योजनमध्यर्धयोजनं । पश्चान्मुखाश्रितां पश्चान्मुखेन स्वेनाश्रितां ॥ १-४ ।।

 

दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।

स्वयंप्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ५ ॥

स्वयंप्रभैः स्नेहं विना स्वयमेव प्रकाशमानैः ॥ ५ ॥

 

पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।

पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ६ ॥

महौघवत् महासमृद्धार्था ॥ ६ ॥

 

तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसंकुले ।

सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७ ॥

गन्धर्वाप्सरसंकुले गन्धर्वाप्सरः-संकुले । पद्भ्यां समुपचक्रमे गन्तुमिति शेषः ॥ ७ ॥

 

ततः पितामहो वाणिमन्तरिक्षादभाषत ।

आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोसि राघव ॥ ८ ॥

अन्तरिक्षादभ्याशमागत्याभाषतेत्यर्थः ॥ ८ ॥

 

भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।

यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।

वैष्णवीं तां महातेजस्तद्वाऽऽकाशं सनातनम् ॥ ९ ॥

स्विकां तनुमिति । त्वं विष्णुतनुं लक्ष्मणः शेषतनुं भरतो गरुडतनुं शत्रुघ्नो विष्वक्सेनतनुमित्यर्थः । तद्वाऽऽकाशं सनातनं । ऋचो अक्षरे परमे व्योमन् इति श्रुत्युक्तपरमाकाशं विष्ण्ववतारकुलस्थानं वैकुण्ठं वा प्रविशेत्यर्थः ॥ ९ ॥

 

त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।

ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।।

त्वामचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ॥ १० ॥

यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ११ ॥

पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।

विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ १२ ॥

ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।

साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमा: ॥ १३ ।।

ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।

सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ १४ ॥

सर्वं पुष्टं प्रमुदितं सुसंपूर्णमनोरथम् ।

साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ १५ ॥

अनन्तरोक्तपक्षं विवृणोति – त्वं हीत्यादिना । मायां लक्ष्मीं । पूर्वपरिग्रहां अनादितया परिगृह्यमाणां । नित्यानपायिनीमित्यर्थः । सर्वसंग्रहं सर्वानुग्राहकं । अक्षयं चाजरं तथेति च पाठ: ।। १०-१५ ।।

 

अथ विष्णुर्महातेजाः पितामहमुवाच ह ।

एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ १६ ॥

विष्णुः विष्णुत्वं प्राप्तः रामः । लोकं दातुमर्हसि । आतिवाहिकतया दातुमर्हसीत्यर्थः ॥ १६ ।।

 

इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ।

भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। १७ ।।

कथं ब्रह्मविद्यारहितानामेषां ब्रह्मलोकप्राप्तिरित्यत्राह-इमे हीति ॥ भक्ताः भक्तिमन्तः मत्कृते त्यक्तात्मानश्च ॥ १७ ॥

 

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।

लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। १८ ।।

सान्तानिकान् सान्तानिकाख्यान लोकान् संप्राप्ताः सन्तः यास्यन्ति । त्वल्लोकमिति शेषः ।। १८ ।।

 

यच्च तिर्यग्गतं किंचित्वामेवमनुचिन्तयत् ।

प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने विवत्स्यति ॥ १९ ॥

सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ २० ॥

न केवलमेत एव इतः परमपि ये रामभक्तास्तेपि विष्णुलोकं प्राप्नुवन्तीत्याह—यच्चेति ॥ ब्रह्मलोकादनन्तरे अव्यवहितोपरिदेशस्थे सर्वैर्गुणैर्युक्ते । एषु सर्वतः प्रतिष्ठेष्वनुत्तमेषूत्तमेषु इति श्रुतेः । सर्वगुणैर्नित्ययुक्ते सान्तानिके निवत्स्यतीत्यनुकर्षः ॥ १९-२० ॥

 

वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।

येभ्यो विनिःसृताः सर्वे सुरेभ्य: सुरसंभवाः ॥ २१ ॥

तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।

पश्यतां सर्वदेवानां स्वान्पितृन्प्रतिपेदिरे ।। २२ ॥

वानराणां तु आधिकारिकदेवांशत्वात्तत्तद्देवशरीरप्रवेश एवेत्याह-वानराश्चेत्यादिना ॥ २१-२२ ॥

 

तथोक्तवति देवेशे गोप्रतारमुपागताः ।

भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लबाः ॥ २३ ॥

अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ।

मानुषं देहमृत्सृज्य विमानं सोध्यरोहत ॥ २४ ॥

तिर्यग्योनिगतानां च शतानि सरयूजलम् ।

संप्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।

दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्  २५ ।।

गोप्रतारं गोप्रताराख्यं तीर्थं । हर्षपूर्णाश्रुविक्लबाः आनन्दाश्रुपूर्णतया विक्लबदृष्टयः ॥ २३-२५ ॥

 

गत्वा तु सरयूतोयं स्थावराणि चराणि च ।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ २६ ॥

तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।

तेऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ २७ ॥

तत्तोयविक्लेदं तत्तोयसेचनं ॥ २६-२७ ।।

 

ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।

जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ २८ ॥

दिवं परमाकाशं वैकुण्ठं । त्रिदशैर्नित्यसूरिभिः सदा हृष्टैरिति विशेषणात् । हृष्टैः प्रमुदितो देवैर्जगाम त्रिदिवं महदिति च पाठः ॥ २८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने दशोत्तरशतमः सर्गः ॥ ११० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.