101 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोत्तरशततमः सर्गः

भरतेन युधाजितासह गन्धर्वदेशगमनेनतद्धननपूर्वकं तक्षशिलापुष्कलावताख्यनगरयोः क्रमेणतक्षपुष्कलयोरभिषेककरणेनरामसमीपमेत्य गन्धर्ववधनिवेदनम् ॥ १ ॥

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।

युधाजिद्गार्ग्यसहितं परां प्रीतिनुपागमत् ॥ १ ॥

स निर्ययौ जनौघेन महता केकयाधिपः ।

त्वरमाणोभिचक्राम गन्धर्वान्कामरूपिणः ॥ २ ॥

सेनापतिं प्राप्तं युद्धसन्नाहं श्रुत्वा ॥ १-२ ॥

 

भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।

गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ३ ॥

सबलौ चतुरङ्गबलसहितौ । सपदानुगौ शूद्रवैश्याद्यनुचरसहितौ ॥ ३ ॥

 

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।

योद्धुकामा महावीर्या व्यनदन्वै समन्ततः ॥ ४ ॥

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।

सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ५ ॥

व्यनदन् गर्जन्ति स्म ॥ ४-५ ॥

 

खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।

नृकलेबरवाहिन्यः प्रवृत्ताः सर्वतो दिशम् ॥ ६ ॥

खड्गेति । खड्गादिरूपा ग्राहा यासु ताः । संस्रव: प्रवाहः । नृकलेवराणि नद्याः काष्ठानि वहन्तीति तथा ॥ ६ ॥

 

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।

संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७ ॥

ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।

क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ८ ॥

संवर्तंनामेति । प्रलयकालाग्न्याख्यमित्यर्थः ॥ ७-८ ॥

 

तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।

निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ९ ॥

तं घातं दिवौकसः न स्मरन्तीति । त्रिकोटिगन्धर्वघातोऽसंभाव्य इत्येव स्मृत्वा स्थितवन्त इत्यर्थः ॥ ९ ॥

 

हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।

निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ १० ॥

तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।

गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ११ ॥

धनरत्नौघसंपूर्णे काननैरुपशोभिते ।

अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः ॥ १२ ॥

द्वे पुरेति । तक्षशिलापुष्कलावताख्ये ॥ १०-१२ ॥

 

उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।

उद्यानयानसंपूर्णे सुविभक्तान्तरापणे ॥ १३ ॥

अकिल्बिषैः धर्मन्यायोपेतैर्व्यवहारैः क्रयविक्रयादिव्यापारैः ॥ १३ ॥

 

उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।

गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ १४ ॥

शोभिते शोभनीयैश्च देवायतनविस्तरैः ।

तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ॥ १५ ॥

निवेश्य पञ्चभिर्वषैर्भरतो राघवानुजः ।

पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ १६ ॥

सोभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।

राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ १७ ॥

शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।

निवेशनं च देशस्य श्रुत्वा प्रीतोस्य राघवः ॥ १८ ॥

विमानसमवर्णिभिः देवायतनवद्विस्तारैः । गृहमुख्यैरभित उपशोभिते । विमानैर्बहुभिर्वृत इति च पाठः ।। १४-१८ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोत्तरशततमः सर्गः ॥ १०१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.