39 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः

रामाभ्यनुज्ञानेनस्वस्वनगरगतैस्तैस्तैराजभिः स्वस्वानुगतभरतलक्ष्मण शत्रुघ्नद्वारा श्रीरामाय नानारत्नादिरूपोपायनप्रत्यर्पणम् ॥ १ ॥ रामेण सुग्रीवविभीषणदिभ्यस्तद्रत्नदानम् ॥ २ ॥ रामेण सादरोपचारलालितैः सुग्रीवविभीषणादिभिरयोध्यायामेकं वत्सरं सुखनिवासः ॥ ३ ॥

ते प्रयाता महात्मानः पार्थिवास्ते ग्रहृष्टवत् ।

गजवाजिसहस्रौघैः कम्पयन्तो वसुंधराम् ॥ १ ॥

प्रहृष्टवत् प्रहृष्टाः सन्तः ॥ १ ।।

 

अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।

भरतस्याज्ञयाऽनेकाः प्रहृष्टा बलवाहनाः ॥ २ ॥

राघवार्थ इति । रामसहायार्थमित्यर्थः ॥ २ ॥

 

ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।

न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥

रामरावणं रामस्य रावणं । वध्यधातुकसंबन्धः षष्ठ्यर्थ: । रामं रावणमिति पाठे युद्धे रामं रावणं च युद्ध्यमानौ रामरावणावित्यर्थः ॥ ३ ॥

 

भरतेन वयं पश्चात्समानीता निरर्थकम् ।

हता हि राक्षसाः क्षिप्रं प्रार्थिवैः स्युर्न संशयः ॥ ४ ॥

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।

सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।

कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥

पश्चात् रावणवधानन्तरं ॥ ४-६ ।।

 

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।

समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७ ॥

मुख्यानीति । प्रसिद्धानीत्यर्थः । धनं जीविकाजीवरूपं । वसुमन्ति महानिधिमन्ति ॥ ७ ॥

 

यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।

रामस्य प्रियकामार्थमुपहारान्नृपा ददुः ॥ ८ ॥

अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।

चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ९ ॥

यथापुराणि यथाप्राप्तस्वस्वपुराणि । उपहारान् प्रत्युपहारान् ।। ८-९ ॥

 

मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।

अजाविकांश्च विविधान्रथांस्तु विविधान्ददुः ॥ १० ॥

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।

आदाय तानि रत्नानि खां पुरीं पुनरागताः ॥ ११ ॥

आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।

तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ १२ ॥

प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।

सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥

विभीषणाय च ददौ तथाऽन्येभ्योपि राघवः ।

राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। १४ ।।

अजाविकान् चर्ममयान् । तल्पविशेषानित्यर्थः । अजाविकं च विविधमिति वा पाठः ।। १०-१४ ॥

 

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।

शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ १५ ॥

हनूमन्तं च नृपतिरिक्ष्वाकृणां महारथः ।

अङ्गदं च महाबाहुमङ्कमारोग्य वीर्यवान् ।

राम: कमलपत्राक्ष: सुग्रीवमिदमब्रवीत् ।। १६ ।।

अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ।

सुग्रीव मन्त्रिते युक्तौ ममापि च हिते रतौ ।

अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १७ ॥

इत्युक्त्वा व्यवमुच्याङ्गाद्भुषणानि महायशाः ।

स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १८ ॥

आभाष्य च महावीर्या राघवो यूथपर्षभान् ।

नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ १९ ॥

सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।

जांबवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २० ॥

वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।

दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २१ ॥

मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।

सुहृदो मे भवन्तश्व शरीरं भ्रातरस्तथा ॥ २२ ॥

युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।

धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २३ ॥

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।

वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २४ ॥

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।

मांसानि च सुमृष्टानि मूलानि च फलानि च ।। २५ ।।

शिरोभिरिति । मुकुटकुण्डलादीनीति भावः। बाहुभिरिति । अङ्गदादीनीत्यर्थः । भुजेषु चेति पाठः ।। १५-२५ ॥

 

एवं तेषां निवसतां मासः साग्रो ययौ तदा ।

मुहूर्तमिव ते सर्वे राजभक्त्या च मेनिरे ॥ २६ ॥

रामोपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।

राक्षसैश्च महावीर्यैऋक्षैश्चैव महाबलैः ॥ २७ ॥

एवं तेषां निवसतामिति । आभरणादिभिः सत्कृतानां निवसतां तेषां साग्रः पञ्च षड्दिनाधिक: मासो गतः ॥ २६-२७ ॥

 

एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ।

वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। २८ ।।

वसन्तेभिषिक्तेन रामेण मासानन्तरमपि अविशेषसत्कारं प्राप्तानां तेषां द्वितीयः शैशिरो मासः फाल्गुनमासः सुखं गतः । अभिषेकानन्तरं संवत्सरं सुखमुषितास्त इत्यर्थः ॥ २८ ॥

 

इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।

रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ २९ ॥

प्रीतिकरणैः संमानैः ॥ २९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.