94 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः

प्रभातेनिर्वर्तिताह्निकाभ्यांकुशलवाभ्यां यज्ञवाटमेत्यमधुरतरस्वरेण श्रीरामायणगानोप -क्रमः ॥ १ ॥ तदाकर्णनहृष्टेनरामेण यागावसानेसभायांसकलकलाकुशलनिखिलजनमेलन -पूर्वकं कुशलवगीयमानरामायणश्रवणम् ॥ २ ॥ गानावसानेकुशलवाभ्यां रामचोदनयातंप्रति आत्मनोर्वाल्मीकिशिष्यत्वनिवेदनपूर्वकं रामायणस्यतत्प्रणीतत्वनिवेदनेनसह तस्यमुनेर्यज्ञवाट निकटसंनिधानस्यचनिवेदनम् ॥ ३ ॥

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।

यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ १ ॥

हुतहुताशनौ कृतसमिदाधानौ ॥ १ ॥

 

तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् ।

अपूर्वां पाठ्यजातिं च गेयेन समलंकृताम् ॥ २ ॥

पूर्वेति । गायकाभ्यां पूर्वमाचार्येण निर्मितां अपूर्वां प्रागश्रुतां पाठ्यस्य गेयस्य जाति: षड्जादिः । गेयेन गानधर्मेण ॥ २ ॥

 

प्रमाणैर्बहुभिर्युक्तां तन्त्रीलयसमन्विताम् ।

बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ ॥

प्रमाणैः ध्वनिपरिच्छेदसाधनैः । कौतूहलपर: विस्मयवान् ।। ३ ।।

 

अथ कर्मान्तरे राजा समाहूय महामुनीन् ।

पार्थिवांश्च नरव्याघ्रः पण्डितान्नैग मांस्तथा ॥ ४ ॥

कर्मान्तरे अश्वमेधस्य प्रयोगावसाने ॥ ४ ॥

 

पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः ।

स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ५ ॥

स्वराणां षड्जादिस्वराणां । उत्सुकान् रामायणश्रवणोत्सुकानित्यर्थः ॥ ५ ॥

 

लक्षणज्ञांश्च गन्धर्वान्नैगमांश्च विशेषतः ।

पादाक्षरसमासज्ञांश्छन्दस्सु परिनिष्ठितान् ॥ ६ ॥

गान्धर्वान् गान्धर्वशास्त्रज्ञान् । पादाक्षरसमासज्ञान् पादाक्षराणां गुरुलघुसामान्यज्ञान् । छन्दस्सु वेदेषु ।। ६ ।।

 

कलामात्र विभागज्ञाञ्ज्यौतिषे च परं गतान् ।

क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ ॥

कलामात्रविभागज्ञान कलाः स्वराः तेषां मात्रा: एकद्वित्रिलक्षणाः तेषां विभागज्ञान् । परं पारङ्गतान् । क्रियाकल्पविदः क्रियाकल्पः क्रियाप्रयोगप्रतिपादकं कल्पसूत्रं तद्विदस्तज्ज्ञान् । काव्यविदः काव्यलक्षणलक्ष्यविद इत्यर्थः । काव्यविदो जनानिति च पाठः ॥ ७ ॥

 

भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।

हेतूपचारकुंशलान्वचने चापि हैतुकान् ॥ ८ ॥

भाषाज्ञान् अष्टादशभाषास्वरूपज्ञान् । इङ्गितज्ञान् अभिप्रायविदः । नैगमान्वणिजः । पूर्वत्रपौरानित्यर्थः । वचने चापि केवलव्यवहारेपि हेतूपचारकुशलान् युक्तिप्रयोगसमर्थान् । हैतुकान् तार्किकान् ॥ ८ ॥

 

छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।

चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ९ ॥

वृत्तज्ञान् वृत्तशास्त्रज्ञान् । चित्रज्ञान् चक्रबन्धादिसहितचित्रकाव्यरचनानिपुणान् ॥ ९ ॥

 

शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।

एतान्सर्वान्त्समानीय गातारौ समवेशयत् ॥ १० ॥

दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।

पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तो ॥ ११ ॥

ऊचुः परस्परं चेदं सर्व एव समन्ततः ।

उभौ रामस्य सदृशौ बिम्बाद्बिम्वमिवोत्थितौ ॥ १२ ॥

जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।

विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ १३ ॥

तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ।

गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ १४ ॥

ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।

न च तृप्तिं ययुः सर्वे श्रोतारो गानसंपदा ॥ १५ ॥

शास्त्रज्ञान व्याकरणादिशास्त्रज्ञान् । समवेशयत् । सभामध्ये इति शेषः ॥ १०-१५ ।।

 

प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।

ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ १६ ॥

ततोपराह्णसमये राघवः समभाषत ।

श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ १७ ॥

अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।

प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।

ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ १८ ॥

प्रवृत्तमिति तत्र गेयेन नारददर्शितंपूर्वसर्गमादितः प्रवृत्तम् ॥ १६-१८ ॥

 

दीयमानं सुवर्ण तु नागृह्णीतां कुशीलवौ ।

ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १९ ॥

कुशीलवौ विस्मितौ सकृदेव बहुप्रदानतः विस्मयवन्तौ किमनेनेत्येवोचतुश्च ॥ १९ ॥

 

वन्येन फलमूलेन निरतौ वनवासिनौ ।

सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ २० ॥

तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ।

श्रोतारचैव रामश्च सर्व एव सुविस्मिताः ॥ २१ ॥

तदेव स्पष्टीकरोति – वन्येनेत्यादि ।। निरतौ निरताहारौ ॥ २०-२१ ॥

 

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।

प्रपच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ २२ ॥

आगमं प्राप्तिं ॥ २२ ॥

 

किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।

कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। २३ ।।

पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ २४ ॥

किंप्रमाणमिदमित्यादि ।। का प्रतिष्ठा कियत्पर्यन्तमित्याशयः । काव्यस्य कः कर्तेत्यनुकर्षः । मुनिपुङ्गव इति । आस्त इति शेषः ।। २३-२४ ॥

 

वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम् ।

येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥ २५ ॥

येन कृतमिदमशेषं चरितं काव्यं तुभ्यं संप्रदर्शितं सोस्य काव्यस्य कर्ता भगवान् वाल्मीकिः । यज्ञसंविधं । बिन्दुश्छान्दसः । यज्ञवाटसविधदेशं प्राप्तः ॥ २५ ॥

 

सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् ।

उपाख्यानशतं चैव भार्गवेण तपस्विना ।। २६ ।।

चतुर्विंशतिसाहस्रमित्यादिकमग्रे स्पष्टीकरिष्यामः । चतुर्विंशतिसाहस्रं श्लोकानां सन्निबन्धनमिति च पाठः । उपाख्यानशतं इलोपाख्यानान्तं । भार्गवेण भृगुवंश्येन । वाल्मीकेरेव भार्गवत्वं प्राचेतसत्वं चाविरुद्धमिति दर्शितं तपस्स्वाध्यायनिरतं इति श्लोकव्याख्याने ॥ २६ ॥

 

आदिप्रभृति वै राजन्पञ्च सर्गशतानि च ।

काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।

कृतानि गुरुणाऽस्माकमृषिणा चरितं तव ॥ २७ ॥

पञ्च सर्गशतानीति षट्काण्डाभिप्रायेण । चकारादुत्तरकाण्डसर्गसंख्यासमुच्चयः ॥ २७ ॥

 

प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ २८ ॥

आजीवितमिति पदं । यावत् काव्यनायकस्य जीवितं तावत्तस्य यत् शुभाशुभं तस्य सर्वस्यात्र प्रतिष्ठानिबन्धनमस्ति ॥ २८ ॥

 

यदि बुद्धिः कृता राजश्रवणाय महारथ ।

कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ २९ ॥

बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।

प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ३० ॥

रामोपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।

श्रुत्वा तङ्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ ३१ ।।

शुश्राव तत्ताललयोपपत्रं सर्गान्वितं स स्वरशब्दयुक्तम् ।

तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ३२ ॥

हे राजन्यदि तस्य सर्वस्य श्रवणाय बुद्धिः कृता तदा कर्मान्तरे क्षणीभूतः सुखीभूतः शृणु ॥ २९-३२ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.