79 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः

अगस्त्येनरामचोदनयातंप्रतिश्वेतराजतपोवन स्वनिर्जनत्वकारणकथनारंभः ॥ १ ॥ मनुपुत्रेणेक्ष्वाकुणापित्राज्ञयायागाद्युपायैः पुत्रशतकोत्पादनं ॥ २ ॥ तत्रान्तिमपुत्रस्यभाविदण्ड विज्ञानेनदण्डइतिनामकरणपूर्वकंतंप्रतिविन्ध्यशैवलमध्येराज्यकरणनियोजनम् ॥ ३ ॥ दण्डेनराज्ञाशुक्राचार्यस्य पौरोहित्येवरणपूर्वकंराज्यकरणम् ॥ ४ ॥

तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः ।

गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥

तदित्यादि ।। गौरवात् सर्वज्ञः सर्ववक्तेति संभावनया ॥ १ ॥

 

भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।

श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ २ ॥

स यत्र तप्यति तद्वनं कथममृगद्विजम् ।। २ ।।

 

तद्वनं स कथं राजा शून्यं मनुजवर्जितम् ।

तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्वतः ॥ ३ ॥

रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।

वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥

कथं तादृशं तद्वनं तपश्चर्तुं चरितुं प्रविष्टः ॥ ३-४ ॥

 

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।

तस्य पुत्रो महानासीदिक्ष्वाकु: कुलनन्दनः ॥ ५ ॥

तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ।

पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६ ॥

तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ।

ततः परमसंतुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥

दण्डधरो राजा प्रभुः वर्णाश्रमविभागतद्धर्मप्रवर्तनाधिकृतः ॥ ५-७ ॥

 

प्रीतोस्मि परमोदार त्वं कर्तासि न संशयः ।

दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥

दण्डेन चेति । क्षत्रियसहजधर्मभूतेन । अकारणे दण्डं मा पातयेतिशेषः ॥ ८ ॥

 

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।

स दण्डो विधिवन्मुक्त: स्वर्गं नयति पार्थिवम् ॥ ९ ॥

तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।

धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥

ननु कथं परपीडावहो दण्डो युक्तः कर्तुमिति तत्राह – अपराधिष्वित्यादि । विधिवद्यथाशास्त्रं यथापराधं । मुक्तः प्रवर्तित इत्यर्थः ।। ९-१० ॥

 

इति तं बहु संदिश्य मनुः पुत्रं समाधिना ।

जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ।।

प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।

जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥

समाधिना योगेन ॥ ११-१२ ॥

 

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ।

जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥

बहुरूपैरिति । यज्ञदानतपोलक्षणेरित्यर्थः ॥ १३ ॥

 

तेषामवरजस्तात सर्वेषां रघुनन्दन ।

मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥

पूर्वजाः ज्येष्ठाः ॥ १४ ॥

 

नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।

अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ।। १५ ।।

अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।

विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥

दण्ड इत्याख्याकरणं पितुः सर्वज्ञत्वात् अन्वर्थतावसायपूर्वकमित्याह-अवश्यमित्यादि ॥ १५-१६ ॥

 

स दण्डस्तत्र राजाऽभूद्रम्ये पर्वतरोधसि ।

पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।

पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ १८ ॥

एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।

प्रहृष्टमनुजाकीर्णं देवराज्यं यथा वृषा ।। १९ ।।

ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।

चकार राज्यं सुमहन्महात्मा शक्रो दिवीवोशनसा समेतः ॥ २० ॥

पर्वतरोधसि पर्वततटप्रान्ते ॥ १७-२० ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनाशीतितमः सर्गः ॥ ७९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.