16 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः

कैलासादवतीर्यमध्येस्कन्दवनंगतेरावणे रुद्राज्ञयारुद्धसंचारेसतिपुष्पके तत्कारणंबहुधा तर्कयतिसति तंप्रतिनन्दिकेश्वरेण तस्यशंकर क्रीडास्थानत्वोक्त्या गमनप्रतिरोधनम् ॥ १ ॥ तत्ररावणे नन्दिकेश्वरंप्रति वानरमुखइतिसावज्ञमपहसतिसति तंप्रतिनन्दिना वानरैः पराभवसंभवकारकशापदानम् ॥ २ ॥ रावणेन विमानस्तंभनजरोषान्निजभुजानामधःप्रसारणेन कैलासचालनम् ॥ ३ ॥ हरेणपादाङ्गुष्ठेनशैलावष्टंभे अधस्सक्तबाहुनादशाननेन वर्षसहस्रं -महारावमाक्रोशनम् ॥ ४ ॥ मन्त्रिबोधनाद्रावणेन स्तुत्याप्रसादितेनरुद्रेण तस्मैरावणनामदान -पूर्वकं तदीप्सितवरप्रदानम् ॥ ५ ॥

स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।

महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥

अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् ।

गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥

महासेनप्रसूतिं स्कन्दप्रसूतिस्थानं । अपश्यदित्यादि पूर्वसर्गान्तोक्तसंक्षेपप्रपञ्चनं ।। १-२ ॥

 

स पर्वतं समारुह्य कंचिद्रम्यवनान्तरम् ।

अपश्यत्पुष्पकं तत्र राम विष्टम्भितं तदा ॥ ३ ॥

विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामगं कृतम् ।

अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥

विष्टम्भितं रुद्राज्ञयारुद्धसंचारं । कामगं पुष्पकं अगममिति राक्षसश्चिन्तयामासेत्यन्वयः ॥ ३-४ ॥

 

किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।

पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥

ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।

नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥

[ शिखरस्थं गिरिस्थस्य कर्म कस्येदमद्भुतम् ।

निश्चितं राजराजेन पुष्पकं विनिवारितम् ] ॥ ७ ॥

अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।

अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥

इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।

वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ९ ॥

ततः पार्श्वमुपागम्य भवस्थानुचरोऽब्रवीत् ।

नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥

निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ॥ ११ ॥

सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।

सर्वेषामेव भूवानामगम्यः पर्वतः कृतः ।

तन्निवर्तस्व दुर्बुद्धे मा विनाशमवाप्स्यसि ।। १२ ।।

इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।

रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।

कोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ ॥

सोपश्यन्नन्दिनं तत्र देवस्थादूरतः स्थितम् ।

दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥ १४ ॥

तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।

प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ १५ ॥

तं क्रुद्ध भगवान्नन्दी शंकरस्यापरा तनुः ।

अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ १६ ॥

[ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षस दुर्मते ।

मौर्ख्याचमवजानीषे परिहासं च मुञ्चसि ॥ १७ ॥ ]

यस्माद्वानररूपं मामवज्ञाय दशानन ।

अशनीपातसंकाशमुपहासं प्रमुक्तवान् ॥ १८ ॥

तस्मान्मद्रूपसंपन्ना मदीर्यसमतेजसः ।

उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ १९ ॥

नखदंष्ट्रायुधाः क्रूरा मनःसंपातरंहसः ।

युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। २० ।।

ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।

व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च ॥ २१ ॥

किंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर ।

न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ २२ ॥

इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।

देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥

अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।

पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। २४ ।।

कस्य कस्य पुरुषस्य । इदं कर्म भवेत् ॥ ५-२४ ॥

 

पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।

तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥

केन प्रभावन भवो नित्यं क्रीडति राजवत् ।

विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ २६ ॥

एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।

तोलयामास तं शैलं स शैलः समकम्पत ॥ २७ ॥

चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।

चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥

ततो राम महादेवो देवानां प्रवरो हरः ।

पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २९ ॥

गोपते  हे वृषभपते रुद्र ।। २५-२९ ।।

 

पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।

विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३० ॥

रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।

मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ३१ ।।

[मानुषा: शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।

देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु वर्त्मसु ॥ ३२ ॥

विस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ।

निश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥ ३३ ॥

समुद्राश्चुक्षुभुस्तत्र प्रचकंपे वसुंधरा ।

राम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ॥ ३४ ॥ ]

मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।

तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ३५ ।।

समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ।

यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ३६ ।।

अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।

तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥

तमृते शरणं नान्यं पश्यामोत्र दशानन ।

स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।

कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ॥ ३८ ॥

एवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ।

सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ॥ ३९ ॥

[ कालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः । ]

संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ४० ॥

ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।

मुक्त्वा चास्य भुजान्राम ग्राह वाक्यं दशाननम् ।। ४१ ।।

प्रीतोस्मि तव वीर्यस्य शौण्डीर्याच्च दशानन ।

शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ४२ ।।

यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।

तस्मात्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ४३ ॥

देवता मानुषा यक्षा ये चान्ये जगतीतले ।

एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥

अधोगताः पर्वतस्याधोभागगताः । भुजाः पीडिता आसन् ॥ ३०-४४ ॥

 

गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।

मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ४५ ।।

एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् ।

प्रीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥

अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।

राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥

मया त्वमभ्यनुज्ञातः । पुष्पकेण गमनायेति शेषः ।। ४५-४७ ॥

 

मानुषान्न गणे देव स्वल्पास्ते मम संमताः ।

दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।

वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ॥ ४८ ॥

न गणे न गणयामि । ब्रह्मदत्तदीर्घायुष्याद्यो भागोगतस्तस्माच्छेषमवशिष्टं वाञ्छितं इदानीमेव दुष्कर्मणा केनाप्यविनष्टं संप्रयच्छ ॥ ४८ ।।

 

एवमुक्तस्ततस्तेन रावणेन स शंकरः ।

ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।

आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ४९ ॥

आयुषश्चेति । ब्रह्मा दीर्घायुष्यंतावद्दत्तवान् तत्रास्यापमृत्यवो देवतादिभ्यः प्राप्ताः परिहृता भवन्तु । रामेण वध इति स्थित्वा मत्वेत्यर्थः ॥ ४९ ॥

 

दत्वोवाच ततः शंभुर्नावज्ञेयमिदं त्वया ।

अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ५० ॥

एवं महेश्वरेणैव कृतनामा स रावणः ।

अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ५१ ॥

ततो महीतले राम परिचक्राम रावणः ।

क्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ५२ ॥

केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ।

तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ५३ ॥

अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः ।

जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ५४ ॥

[ एवं दर्पबलोत्सिक्तो रावणो लोकरावणः ।

प्रतापावनती कुर्वन्राष्ट्राणि विचचारह ॥ ५५ ॥ ]

इदं खड्गरूपास्त्रं नावज्ञेयं । एकस्मिन्नपि दिने पूजौदासीन्यं न कर्तव्यमित्यर्थः । अवज्ञातं यदि ॥ ५०-५५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.