43 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः

कदाचनरामेण सभायां कथाप्रसङ्गेनचारंप्रति पौरेषुस्वविषयकशुभाशुभवार्तानिवेदन चोदने भीतभीतेनतेन रावणापहृतसीतापुनरानयनप्रकारकपौरजनकुत्सननिवेदनम् ॥ १ ॥

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।

कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥

विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुटः ।

सुराजः कालियो भद्रो दन्तवक्त्रः सुमागधः ॥ २ ॥

एते कथा बहुविधाः परिहाससमन्विताः ।

कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ३ ॥

ततः कथायां कस्यांचिद्राघवः समभाषत ।

काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ४ ।।

मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।

किंच सीतां समाश्रित्य भरतं किंच लक्ष्मणम् ॥ ५ ॥

विषयेषु देशेषु ॥ ४-५ ॥

 

किंनु शत्रुघ्नमुद्दिश्य कैकेयीं किंनु मातरम् ।

वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ६ ॥

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।

स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥

अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।

भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।

कथयस्व यथातत्वं सर्वं निरवशेषतः ॥ ९ ॥

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।

श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥

कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।

कथयन्ति यथा पौरा: पापा जनपदेषु च ॥ ११ ॥

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।

प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।

चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।

अश्रुतं पूर्वकैः कश्चिद्देवैरपि सदानवैः ॥ १४ ।।

रावणश्च दुराधर्षो हतः सबलवाहनः ।

वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥

वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हीति च पाठः । नवे राज्ये सति राजानो वक्तव्यतां सम्यगसम्यग्वा कीर्तनीयतां व्रजन्ति हि ।। ६-१५ ।।

 

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।

अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥

सीतामाहृत्य तदनन्तर जातममर्षं रावणस्पर्शजं पृष्ठतः कृत्वा विसृज्येत्यर्थः । ॥ १६ ॥

 

कीदृशं हृदये तस्य सीतासंभोगजं सुखम् ।

अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ ॥

लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।

रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥

कीदृशं कुत्सितमेवेत्यर्थः । तत्र हेतुः अङ्कमित्यादि ।। १७-१८ ॥

 

अस्माकमपि दारेषु सहनीय भविष्यति ।

यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥

एवं बहुविधा वाचो वदन्ति पुरवासिनः ।

नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥

सहनीयमिति । एवं कश्मलमित्यर्थः ।। १९-२० ॥

 

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।

उवाच सुहृदः सर्वान्कथमेतद्ब्रीवीथ माम् ॥ २१ ॥

परमार्तवत् परमदुःखी भूत्वा । सर्वान् सुहृद इति । भद्रव्यतिरिक्तानित्यर्थः । कथमेतदिति । भद्रोक्तमेतत् अपयशोवचनं कथं तत्त्वमतत्त्वंवेति भवद्भिश्च निवेद्यतामित्यर्थः ॥ २१ ॥

 

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।

प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥

श्रुत्त्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।

विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ २३ ॥

एवमेतत् यथा भद्रेणोक्तं एतत्तत्त्वमेव ॥ २२-२३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः ॥४३॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.