46 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः

लक्ष्मणेन सीतांप्रति वननयनायरामेतत्प्रार्थनास्मारणेन वनगमनायसज्जीभवनचोदना ।। १ ।। सीतया हर्षान्मुनिपत्नीभ्योदित्सया नानावसनाभरणाद्यादानेनसुमन्त्रानीतरथारोहणम् ॥ २ ॥ लक्ष्मणेन सीतासुमन्त्राभ्यांसहगङ्गातीरमेत्य नाविकान्प्रतिनौकानयनचोदना ॥ ३ ॥

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।

सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥

सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ।

स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥

स्वास्तीर्णमिति । सीतायाश्च शुभमासनं राजभवनादानीय स्वास्तीर्णं रथं कुरु ॥ २ ॥

 

सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।

मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥

कुत इत्यत्राह-सीता हीत्यादि ॥ ३ ॥

 

सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।

रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ४ ॥

आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।

रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ५ ॥

एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।

प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥

त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।

नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७ ॥

गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्शुमान् ।

शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।

अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि ॥ ८ ॥

एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।

प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ९ ॥

वासांसि च महार्हाणि रत्नानि विविधानि च ।

गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ १० ॥

इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् ।

वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ११ ॥

सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।

प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ १२ ॥

अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।

अशुभानि बहून्येव पश्यामि रघुनन्दन ।। १३ ।।

सुरुचिरप्रख्यं सुन्दरशोभं ॥ ४-१३ ।।

 

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।

हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १४ ॥

हृदयं मनः ॥ १४ ॥

 

औत्सुक्यं परमं चापि अधृतिश्च परा मम ।

शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ १५ ॥

अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।

श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १६ ॥

औत्सुक्यं पुण्याश्रमदर्शनविषयजं । शून्यां सुखशून्यां ॥ १५ -१६ ॥

 

पुरे जनपदे चैव कुशलं प्राणिनामपि ।

इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १७ ॥

अञ्जलिकृता कृताञ्जलिः ॥ १७ ॥

 

लक्ष्मणोर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् ।

शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १८ ॥

ततो वासमुपागम्य गोमतीतीर आश्रमे ।

प्रभाते पुनरुत्थाय सौमित्रि: सूतमब्रवीत् ॥ १९ ॥

तमर्थमिति । दुर्निमित्तरूपं वस्त्वित्यर्थः । हृष्टः हृष्ट इव ॥ १८-१९ ॥

 

योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।

शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ २० ॥

सो श्वान्रज्ज्वाऽथ चतुरो रथे युङ्क्त्वा मनोजवान् ।

आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। २१ ।।

सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।

सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २२ ॥

शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथेति दृष्टान्ते रुद्रोपि स्नानार्थमेव गङ्गां दधारेति गम्यते ।। २०-२२ ॥

 

आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।

अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ २३ ॥

निरीक्ष्य लक्ष्मणो दीनः प्ररुदोद महास्वनः ॥ २४ ॥

सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।

उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ २५ ॥

जाह्नवीतीरमासाद्य चिराभिलषितं मम ।

हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ २६ ॥

जलाशयं जलप्रवाहं ।। २३-२६ ।।

 

नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।

कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ २७ ॥

ममापि दयितो रामो जीवितादपि लक्ष्मण ।

न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ २८ ॥

तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।

ततो मुनिभ्यो दास्यामि वासांस्याभरणानि च ॥ २९ ।।

ततः कृत्वा महर्षीणां यथावदभिवादनम् ।

तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ३० ॥

ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।

त्वरते हि मनो द्रष्टुं रामं रमयतांवरम् ॥ ३१ ॥

तस्यास्तद्वचनं श्रुत्वा प्रसृज्य नयने शुभे ।

नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ३२ ॥

इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयोऽब्रुवन् ॥ ३३ ॥

तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।

गङ्गां संतारयामास लक्ष्मणस्तां समाहितः ॥ ३४ ॥

पार्श्वेष्विति पूजायां बहुवचनं । शोकमागतः कच्चिदित्यन्वयः ॥ २७-३४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.