21 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः

यमेन स्वभवनमागतंनारदंप्रत्यभिवादनपूर्वकमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेन तंप्रति रणायरावणागमननिवेदनेनसज्जीभवनचोदना ॥ २ ॥ अत्रान्तरेसंयमनींप्रविष्टेनरावणेन यमभटपीड्यमाननानानारकिजनविमोचनम् ॥ ३ ॥ ततोरुष्टैर्यभटैः सप्रतिरोधमायोधने रावणेन पाशुपतास्त्रप्रयोगेणयमसेना विध्वंसनपूर्वकमुच्चैर्गर्जनम् ॥ ४ ॥

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ।

आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १ ॥

अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।

विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥

स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।

अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ३ ॥

कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।

किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥

अग्निः पुरस्कृतः साक्षितया येनासौ अग्निपुरस्कृतः तं । प्राणिनो विधानं निग्रहानुग्रहकृत्यं । उपतिष्ठन्तं अनुतिष्ठन्तं ॥ २-४ ॥

 

अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।

श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ५ ॥

एष नाम्ना दशग्रीवः पितृराज निशाचरः ।

उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ६ ॥

विधानं मत्तः श्रुतापदः प्रतिक्रियामित्यर्थः ॥ ५-६ ॥

 

एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।

दण्डप्रहरणस्याद्य तव किंतु भविष्यति ॥ ७ ॥

एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।

ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ८ ॥

तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।

कृत्वा वितिमिरं सर्वं समीपं सोभ्यवर्तत ॥ ९ ॥

सोपश्यत्सुमहाबाहुर्दशग्रीवस्ततस्ततः ।

प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ १० ॥

अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।

यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ११ ॥

दण्डः कालदण्ड : प्रहरणमायुधं यस्य तस्य तव किंनु भविष्यतीति । जयोऽपजयो वेत्यर्थः ॥ ७-११ ॥

 

ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।

क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।

कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ १२ ॥

तीव्रो निष्टनः क्रूरशब्दः ॥ १२ ॥

 

श्रोत्रायासकरा वाचो वदतश्च भयावहाः ।

संतार्यमाणान्वैतरणीं बहुश: शोणितोदकाम् ॥ १३ ।।

बालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः ।

असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ १४ ॥

रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।

पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ १५ ॥

शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।

मलपङ्कधरान्दीनान्रूक्षांथ परिधावतः ।

ददर्श रावणो मार्गे शतशोथ सहस्रशः ॥ १६ ॥

कांश्चिच्च गृहमुख्येषु गीतवादित्रनिस्वनैः ।

प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ १७ ॥

गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।

गृहांश्च गृहदातारः स्वकर्मफलमश्वतः ।

सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृतान् ॥ १८ ॥

धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।

ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ १९ ॥

ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।

रावणो मोचयामास विक्रमेण बलाद्बली ॥ २० ॥

प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।

सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ २१ ॥

प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।

प्रेतगोपाः सुसंक्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ २२ ॥

ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।

धर्मराजस्य योधानां शूराणां संप्रधावताम् ।। २३ ।।

ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।

पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ २४ ॥

तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।

पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ २५ ॥

देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।

भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ २६ ॥

असंख्या सुमहत्यासीत्तस्य सेना महात्मनः ।

शूराणामुग्रयातॄणां सहस्राणि शतानि च ॥ २७ ॥

ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।

ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।

अयुध्यन्त महावीराः स च राजा दशाननः ॥ २८ ॥

ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।

अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ २९ ॥

अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।

यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ३० ॥

अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः ।

तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ३१ ॥

ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।

फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ३२ ॥

स तु शूलगदाप्रासाञ्छक्तितोमरसायकान् ।

मुसलानि शिला वृक्षान्मुमोचास्त्रबलाद्बली ॥ ३३ ॥

तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।

यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ३४ ॥

संतार्यमाणान्वैतरणीमिति संज्ञापदवशात्पादाक्षराधिक्यं ।। १३-३४ ॥

 

तांस्तु सर्वान्विनिर्भिध तदस्रमपहत्य च ।

जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ३५ ॥

परिवार्य च तं सर्वे शैलं मेघोत्करा इव ।

भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ३६ ॥

विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।

ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ३७ ॥

ततः स कार्मुकी बाणी समरे चाभिवर्तत ।

लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथाऽन्तकः ॥ ३८ ॥

ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ।

तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष सः ॥ ३९ ॥

आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।

मुमोच तं शरं क्रुद्धस्त्रिपुरे शंकरो यथा ॥ ४० ॥

तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् ।

वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ४१ ॥

तदस्त्रं रावणप्रयुक्तं प्रागुक्तशस्त्रवर्षसाधकं । अपहत्य निरस्य ॥ ३५-४१ ॥

 

ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।

मुक्तो गुल्मान्द्रुमांश्चापि भस कृत्वा प्रधावति ॥ ४२ ॥

ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।

रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ४३ ॥

ततस्तु सचिवैः सार्धं राक्षसो भीमविक्रमः ।

ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ४४ ॥

क्रव्यादैः स्वसृष्टैरनुगतस्तथा ॥ ४२-४४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.