01 Sarga उत्तरकाण्डः

।। श्रीः ।।

श्रीमद्वाल्मीकिरामायणम् ।।

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

उत्तरकाण्डम् ।। ७ ।।

श्रीरामचन्द्राय नमः ॥

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः

रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिषिक्तेश्रीरामे कदाचनसिंहासनमलङ्कु -र्वाणे अगस्त्येनदिक्चतुष्टयनिवासिमुनिगणैःसह श्रीरामसमीपंप्रत्यागमनम् ॥ १ ॥ रामेण यथार्हम -र्चितेषुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैःसह श्रीरामंप्रति रावणादिविजयप्रशंसन -पूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजित्प्रतापादिप्रश्नः ॥ २ ॥

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।

आजमुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥

कौशिकोऽथ यवक्रीतो गार्ग्यो गालव एव च ।

कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। २ ।।

श्रीरामचन्द्रायनमः श्रीमद्वत्सकुलप्रदीपशठजित्पादारविन्दद्वयीसेवालब्धसमस्तशास्त्र विततिर्गोविन्दराजाह्वयः । श्रीरामायणभूषणेऽत्र मुकुटीभूतां परामुत्तरे । ग्रन्थे व्याकृतिमातनोति विदुषां प्रीतिः पुनर्वर्धताम् ॥ राक्षसानां वधे कृते सति प्राप्तराज्यस्य रामस्य । अनादरे षष्ठी । प्राप्तराज्यं राममनादृत्य राघवं लक्ष्मणं प्रतिनन्दितुं सर्वे ऋषय आजग्मुः । प्राधान्येनेन्द्रजिद्वधं प्रशंसिष्यन्ति रामस्य समीप इति शेष इत्येके । अत्र प्रेति गायत्र्या एकविंशाक्षरम् ।। १-२ ॥

 

स्वस्त्यात्रेयोथ भगवान्नमुचिः प्रमुचिस्तथा ।

अगस्त्योत्रिश्च भगवान्सुमुखो विमुखस्तथा ।

आजग्मुस्ते सहागस्त्या ये स्थिता दक्षिणां दिशम् ॥ ३ ॥

नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ॥

तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। ४ ।।

स्वस्तिकरः आत्रेयः ॥ ३-४ ॥

 

वसिष्ठ: कश्यपोऽथात्रिर्विश्वामित्र: सगौतमः ।

जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ।

उदीच्यां दिशि सप्सैते नित्यमेव निवासिनः ॥ ५ ॥

वसिष्ठ इति । उक्ता वसिष्ठादयः सप्तेत्यर्थः । ननु वसिष्ठः अयोध्यायां पुरोहिततया नित्यं वर्तमानः कथमिदानीमुदीच्या दिश: समागत इत्युच्यते । सत्यं । यथाऽगस्त्यो ज्योतिर्मण्डलस्थोपि भुवि तप:समार्जनाय शरीरान्तरे स्थित आगतस्तथा वसिष्ठोपि ज्योतिर्मण्डलस्थ: सप्तर्षिभिः समागत इति बोध्यम् । तदागमनदशायां नगरस्थो वसिष्ठो नायातः अतएव न परिगणितः । कौशिकः कुशिकवंश्यो विश्वामित्रादन्यः ॥ ५ ॥

 

संप्राप्य ते महात्मानो राघवस्य निवेशनम् ।

विष्ठिताः प्रतिहारार्थ हुताशनसमप्रभाः ।

वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ६ ॥

द्वाःस्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः ।

निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७ ।।

प्रतीहारस्ततस्तूर्णमगस्त्य वचनाद्दृतम्  ।

समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ८ ॥

नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः  ।

स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।

अगस्त्यं कथयामास संप्राप्तमृषिभिः सह ॥ ९ ॥

श्रुत्वा प्राप्तामुनींस्तांस्तु बालसूर्यसमप्रभान्  ।

प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १० ॥

प्रतिहारो द्वाःस्थः । द्वारि द्वा:स्थे प्रतीहार: इत्यमरः ॥ ६-१० ।।

 

तान्संप्राप्तान्मुनीन्दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।

पाद्यार्घ्यादिभिरानर्च्य गां निवेद्य च सादरम्  ।

रामोभिवाद्य प्रयत आसनान्यादिदेश ह ॥ ११ ॥

तेषु काञ्चनचित्रेषु महत्सु च वरेषु च  ।

कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च  ।

यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवः ॥ १२ ॥

रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।

महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १३ ॥

अभिवाद्येति । समुदायं प्रतीति शेषः ॥ ११-१३ ॥

 

कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।

त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥

सर्वत्र पुरकोशादिषु । दिष्टया दैवात् । हतशात्रवं हतशत्रुं ॥ १४ ॥

 

दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ॥

न हि भारः स ते राम रावणः पुत्रपौत्रवान् ।। १५ ।।

रावणस्ते न हि भारः । तद्वधस्ते ईषत्कर्मेत्यर्थः ॥ १५ ॥

 

सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ॥

दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ १६ ॥

दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह सीतया ।

लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वंद्धितकारिणा ॥ १७ ॥

मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ॥ १८ ॥

दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ॥

अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १९ ॥

तदेव दर्शयति – सधनुरित्यादि । विजयेथा इति विपराभ्यां इत्यामनेपदं ।। १६-१९ ॥

 

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।

दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ २० ॥

त्रिशिराचातिकायश्च देवान्तकनरान्तकौ ।

दिया ते निहता राम महावीर्या निशाचराः ॥ २१ ॥

कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।

दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ २२ ॥

युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।

यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ २३ ॥

कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।

अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ २४ ॥

प्रमाणात् शरीरपरिमाणात् ॥ २०-२४ ॥

 

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।

देवतानामवध्येन विजयं प्राप्तवानसि ॥ २५ ॥

[ सह्यमेतन्महाबाहो रावणस्य निबर्हणम्  ।

असह्यमेतत्संप्राप्तं रावणेर्यन्निबर्हणम् ॥ २६ ॥

दृश्यस्तस्य महाबाहो कालो येन हि धिक्कृतः ॥ ]

संख्ये तस्य न किंचित्तु रावणस्य पराभवः  ।

द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ २७ ॥

द्वन्द्वयुद्धमुपागतः सन् विजयं प्राप्तवानसीत्यन्वयः ॥ २५-२७ ॥

 

दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।

मुक्त: सुररिपोर्वीर प्राप्तश्व विजयस्त्वया ॥ २८ ॥

अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।

सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ २९ ॥

विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ३० ॥

एते चान्ये च बहवो राक्षसाः कामरूपिणः ।

दिष्ट्या त्वया हता वीरा रघूणां कुलवर्धन ॥ ३१ ॥

मुक्तः तस्य रावणे: शरबन्धादिति शेषः ॥ २८-३१ ।।

 

दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।

दिव्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। ३२ ।।

अभयदक्षिणां अभयदानं । देवर्षिभ्य इत्यर्थः । वर्धसि वर्धसे ।। ३२ ।।

 

श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।

विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ३३ ॥

भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।

अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ३४ ॥

महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।

मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ।

अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ३५ ॥

अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।

अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ३६ ॥

कीदृशो वै प्रभावोस्य किं बलं कः पराक्रमः ।

केन वा कारणेनैष रावणादतिरिच्यते ॥ ३७ ॥

विस्मयं गत्वा । रावणिवध विषयवाक्येनेति शेषः ॥ ३३-३७ ।।

 

शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।

यदि गुह्यं नचेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ३८ ॥

यदि गुह्यं न भवति । यदि युष्माभिः वक्तुं शक्यं । यदि मया च श्रोतुं । तदा कथ्यतां । अहं तु श्रोतुमिच्छामि केवलं नतु वक्तुमित्याज्ञापयामि ॥ ३८ ॥

 

शक्रोपि विजितस्तेन कथं लब्धवरश्च सः ।

कथं च बलवान्पुत्रो न पिता तस्य रावणः ॥ ३९ ॥

कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।

वराश्च लब्धाः कथयस्व मेऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ४० ॥

पिता रावणो न बलवान् पुत्रापेक्षयेति कथं ॥ ३९-४० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने प्रथमः सर्गः ॥ १ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.