83 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः

रामेण भरतलक्ष्मणौप्रति राजसूयचिकीर्षानिवेदनम् ॥ १ ॥ भरतेन तंत्रति तस्यसर्वराज -पराजयपूर्वकत्वोक्त्त्यापृथ्वीविनाशहेतुत्वकथनेन तत्करणस्यानौचित्यकथनम् ॥ २ ॥ रामेण तंप्रति तद्वचनप्रशंसनपूर्वकं राजसूयनिवर्तनोक्तिः ॥ ३ ॥

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ।

द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।

परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥

कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।

धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥

कृतमिति ।। द्विजकार्यं यथा प्रतिज्ञातं तत्तथा तथ्यं कृतं । बालो जीवित इत्यर्थः । धर्मसेतुं राजधर्ममर्यादाभूतं राजसूयमित्यर्थः ॥ ३ ॥

 

अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।

धर्मप्रसाधकं ह्येतत्सर्वपापप्रणाशनम् ॥ ४ ॥

धर्मप्रसाधकं धर्मवर्धकमित्यर्थः । धर्मप्रवचनमिति च पाठः ॥ ४ ॥

 

युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।

सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ५ ॥

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।

सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६ ॥

सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।

प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७ ॥

तत्र धर्मो हि शाश्वत इति । तत्र राजसूये । क्षत्रियस्यासाधारणः अक्षयकीर्तिहेतुर्धर्म इत्यर्थः ॥ ५-७ ॥

 

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।

हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ८ ॥

श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।

भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥

हितं । इह लोके सुखं आयतियुक्तं । उत्तरः काल आयतिः । उत्तरकाले च हितमित्यर्थः ॥ ८-९ ॥

 

त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा ।

प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ १० ॥

महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।

निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥

सर्वा वसुंधरा प्रतिष्ठितेति । सार्वभौमत्वादिति भावः ॥ १०-११ ॥

 

प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।

पृथिव्या गतिभूतोसि प्राणिनामपि राघव ॥ १२ ॥

स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।

पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥

पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।

सर्वेषां भविता तत्र संक्षयः सर्वकोपजः ॥ १४ ॥

पितृवत्पितरमिव ।। १२-१४ ॥

 

स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।

पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥

भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा ।

प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। १६ ॥

उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।

प्रीतोस्मि परितुष्टोस्मि तवाद्य वचनेऽनघ ॥ १७ ॥

इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।

व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥

तव वशे वर्तते तव स्वाधीने वर्तत इत्यर्थः ॥ १५-१८ ॥

 

एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।

निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥

लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।

बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज ।

तस्माच्छृणोमि ते वाक्यं साधुयुक्तं महामते ॥ २० ॥

एष्यदस्मदभिप्रायात् अस्मदभिप्रायमेष्यतः मामकचिकीर्षामागमिष्यत इत्यर्थः ।। १९-२० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः॥ ८३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.