प्रक्षिप्तसर्गः उत्तरकाण्डः

॥ अथात्राधिकपाठश्लोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयंमहाबलिभवनं -दृष्टवतारावणेन तत्पतिजिज्ञासयातत्रप्रहस्तप्रेषणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन प्रहस्तदृष्टपुरुषदर्शनमात्रेणचकितकंपितेनरावणेन कथंचिद्धैर्यावलंबनेन पुरुषंप्रति तद्गृहपतिनामादिप्रश्नपूर्वकं तेनसहस्वस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्वनिवेदन -पूर्वकतदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महाबलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेन -रावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलिनातंप्रति विष्णुमहिमानुवर्णन -पूर्वकंस्वगृहद्वारस्थपुरुषस्यैव विष्णुत्वनिवेदनं ॥ ६ ॥ ततो […]

23 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोविंशस्सर्गः रावणेन मारीचप्रभृतिभिः सहरसातलेभोगवतीमेत्य वासुकिप्रमुखनागराजवशीकरण -पूर्वकं निवातकवचानांपुरमेय तैःसहमहासमरप्रवर्तनम् ।। १ ।। तन्त्राभ्यतरपराभवाभावेसत्वरमा -गतेनब्रह्मणा निवातकवचान्प्रत्युभयोःस्व वरमहिम्नाऽजय्यत्वकथनेन तेषांरावणेनसहाग्नि -साक्षिकंसख्यकरणम् ॥ २ ॥ ततोशमनगरंगतेनरावणेन कालकेयैः सहयुद्धे प्रमादाच्छूर्पणखा -भर्तुर्विद्युजिह्वस्य हननम् ॥ ३ ॥ ततोवरुणलोकंगतेनरावणेन रणसमाहूतेषुवरुणसुतेषु वरदृप्तेनतेनरणधरण्यांपातितेषु सारथिभिस्तेषांगृहप्रापणम् ॥ ४ ॥ रावणेन रणायवरुणाह्वाने तन्मन्त्रिणाप्रहसेन वरुणब्रह्मलोकेस्थितिनिवेदने रावणेन जयघोषणपूर्वकं सहमहस्तादिभि -र्लङ्कांप्रतिप्रस्थानम् ॥ ५ ॥ ततो जित्वा दशग्रीवो यमं […]

22 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः रावणकृत निजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारण -प्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभवतोरावणस्यमारणाय स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजचण्डदण्डोद्यमने सत्वरमाविर्भूतेनब्रह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्वस्यानृतवचनत्वोक्त्तया रावणेदण्डपातन -प्रतिषेधनम् ॥ २ ॥ यमे तद्वचनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥ स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥ १ ॥ स हि […]

21 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः यमेन स्वभवनमागतंनारदंप्रत्यभिवादनपूर्वकमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेन तंप्रति रणायरावणागमननिवेदनेनसज्जीभवनचोदना ॥ २ ॥ अत्रान्तरेसंयमनींप्रविष्टेनरावणेन यमभटपीड्यमाननानानारकिजनविमोचनम् ॥ ३ ॥ ततोरुष्टैर्यभटैः सप्रतिरोधमायोधने रावणेन पाशुपतास्त्रप्रयोगेणयमसेना विध्वंसनपूर्वकमुच्चैर्गर्जनम् ॥ ४ ॥ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १ ॥ अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ […]

20 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः पृथिवीस्थपृथ्वीपतिपराजयपूर्वकंनिर्गतेनरावणेन गगनेमेघमण्डलवर्तिनोनारदस्या -वलोकनेन तंप्रति साभिवादनमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेनाद्भुतयुद्धदर्शनस्यस्वागमन -प्रयोजनस्वोक्त्या मर्त्यानांदुर्बलतयातज्जयस्य कीर्त्यप्रयोजकत्वोक्त्त्याच यमस्यसर्वसंहर्तृत्वेन बलिष्ठवरिष्ठत्वोक्त्याच तज्जयचोदना ॥ २ ॥ तथा यमजयाय तल्लोकंप्रस्थितेरावणे अद्भुतरणदिदृक्षया स्वेनापितत्रगमनम् ॥ ३ ॥ ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ १ ॥ आससाद घने तस्मिन्निति । तस्मिन्काले घने घनपृष्ठे स्थितं नारदमित्यर्थः ।। १ ।। […]

19 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः नानादेशगराजपराजयपूर्वकं क्रमेणायोध्यांगतेनरावणेनानरण्यनाम्न्नोराज्ञोयुद्धाय समाह्वानम् ॥ १ ॥ प्रहस्तप्रसुखराक्षसेन्द्रविद्रावणपूर्वकमात्मनासहयुध्यन्तमनरण्यं निजकरतला -भिघातेनमुमूर्षुतां नीयतारावणेन तंप्रतीक्ष्वाक्कवमाननपूर्वकमुपहसनम् ॥ २ ॥ तदसहिष्णुना -ऽनरण्येन तंप्रति स्ववंश्येनरामेण वधसंभवविषयकशापदानेन त्रिविष्टपगमनम् ॥ ३ ॥ अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥ समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥ निर्जिताः […]

18 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः कदाचिदिन्द्रादिदेवगणमण्डितंमरुत्तराजयज्ञवाटंप्रविष्टेरावणे तद्भयादिन्द्रादिदेवैर्मयूर -वायसादिरूपपरिग्रहः ॥ १ ॥ रावणेनयुद्धायसमाहूतेमरुत्ते युद्धसंनद्धे संवर्तनाम्नापुरोधसा दीक्षितस्ययुद्धानौचित्योक्त्त्या तत्प्रतिनिवर्तनम् ॥ २ ॥ निवृत्तेतस्मिन्रावणेन जयघोषणपूर्वकं निर्गमनम् ॥ ३ ॥ ततोनिजनिजरूपधारिभिरिन्द्रादिभिः परितोषान्मयूरादीनां नानावरप्रदानम् ॥ ४ ॥ प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य […]

17 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः कदाचनहिमवत्सानौ तपस्यन्तींवेदवतींनामकांचनकाञ्चनप्रभांकन्यामवलोकितवता -रावणेन तांप्रति तस्यास्तपःप्रयोजनादिप्रश्नः ॥ १ ॥ तथा स्वस्य श्रीनारायणभार्याभावस्य स्वतपःप्रयोजनस्वाभिधानम् ॥ २ ॥ रावणेन स्वभार्यात्वस्वीकरणं याचितया तया तदनङ्गीकरणे रावणेन बलात्तत्केशपाशपरामर्शनम् ॥ ३ ॥ तथा स्वतपोमहिनाऽसीभूतेनस्वहस्तेन रावणकरपरामृष्टस्वकेशपाशच्छेदनपूर्वकं तंप्रति जन्मान्तरेस्वस्यतद्वधहेतूभवनप्रतिज्ञानपूर्वकमग्नौप्रवेशनम् ॥ ४ ॥ अगस्त्येनरामंप्रति तस्याएव पुनः सीतात्वेनप्रादुर्भावाभिधानम् ॥ ५ ॥ अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ […]

16 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः कैलासादवतीर्यमध्येस्कन्दवनंगतेरावणे रुद्राज्ञयारुद्धसंचारेसतिपुष्पके तत्कारणंबहुधा तर्कयतिसति तंप्रतिनन्दिकेश्वरेण तस्यशंकर क्रीडास्थानत्वोक्त्या गमनप्रतिरोधनम् ॥ १ ॥ तत्ररावणे नन्दिकेश्वरंप्रति वानरमुखइतिसावज्ञमपहसतिसति तंप्रतिनन्दिना वानरैः पराभवसंभवकारकशापदानम् ॥ २ ॥ रावणेन विमानस्तंभनजरोषान्निजभुजानामधःप्रसारणेन कैलासचालनम् ॥ ३ ॥ हरेणपादाङ्गुष्ठेनशैलावष्टंभे अधस्सक्तबाहुनादशाननेन वर्षसहस्रं -महारावमाक्रोशनम् ॥ ४ ॥ मन्त्रिबोधनाद्रावणेन स्तुत्याप्रसादितेनरुद्रेण तस्मैरावणनामदान -पूर्वकं तदीप्सितवरप्रदानम् ॥ ५ ॥ स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं […]

15 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः रावणेन कुबेरप्रेषितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हण -पूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकाप -हरणेन कैलासादवतरणम् ॥ ३ ॥ ततस्ता लक्ष्य वित्रस्तान्यक्षेन्द्रांच सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥ रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥ एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.