स्त्रीपर्वम् अध्यायः 01-27
श्रीः श्रीमहाभारतम् ||११ स्त्रीपर्वम् || 001-अध्यायः-विशोकपर्व जनमेजय उवाच|| हते दुर्योधने चैव हते सैन्ये च सर्वशः | धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ||१|| तथैव कौरवो राजा धर्मपुत्रो महामनाः | कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ||२|| अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः | वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ||३|| वैशम्पायन उवाच|| हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् | पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ||४|| ध्यानमूकत्वमापन्नं […]
सौप्तिकपर्वम् अध्यायः 01-18
श्रीः श्रीमहाभारतम् ||१० सौप्तिकपर्वम् || 001-अध्यायः कौशिकदर्शनम् सञ्जय उवाच|| ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः | उपास्तमयवेलायां शिबिराभ्याशमागताः ||१|| विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा | गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||२|| सेनानिवेशमभितो नातिदूरमवस्थिताः | निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||३|| दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् | श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ||४|| अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः | ते मुहूर्तं […]
शाल्यपर्वम् अध्यायः 51-64
श्रीमहाभारतम् ||९ शाल्यपर्वम् || 051-अध्यायः वृद्धकन्योपाख्यानम् जनमेजय उवाच|| कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा | किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ||१|| सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् | आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||२|| वैशम्पायन उवाच|| ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः | स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ||३|| मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ||३|| तां च दृष्ट्वा भृशं […]
शाल्यपर्वम् अध्यायः 38-50
श्रीमहाभारतम् ||९ शाल्यपर्वम् || 038-अध्यायः वैशम्पायन उवाच|| उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः | तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ||१|| दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च | पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ||२|| अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत | प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ||३|| तत औशनसं तीर्थमाजगाम हलायुधः | कपालमोचनं नाम यत्र मुक्तो महामुनिः ||४|| महता शिरसा राजन्ग्रस्तजङ्घो […]
शाल्यपर्वम् अध्यायः 21-37
श्रीमहाभारतम् ||९ शाल्यपर्वम् || 021-अध्यायः सञ्जय उवाच|| पुत्रस्तु ते महाराज रथस्थो रथिनां वरः | दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ||१|| तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही | परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ||२|| न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे | हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ||३|| यं यं हि समरे योधं प्रपश्यामि विशां पते | स स […]
शाल्यपर्वम् अध्यायः 01-20
श्रीः श्रीमहाभारतम् ||९ शाल्यपर्वम् || 001-अध्यायः जनमेजय उवाच|| एवं निपातिते कर्णे समरे सव्यसाचिना | अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ||१|| उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः | पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ||२|| एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम | न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३|| वैशम्पायन उवाच|| ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः | भृशं […]
कर्णपर्वम् अध्यायः 50-69
श्रीमहाभारतम् ||८ कर्णपर्वम् || 050-अध्यायः सञ्जय उवाच|| इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् | बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ||१|| ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् | कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ||२|| असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ||२|| त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः | हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ||३|| एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ||३|| स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः | […]
कर्णपर्वम् अध्यायः 33-49
श्रीमहाभारतम् ||८ कर्णपर्वम् || 033-अध्यायः सञ्जय उवाच|| विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् | रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ||१|| नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः | छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ||२|| निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः | ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ||३|| द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः | अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ||४|| ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः | पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ||५|| एवं योधशतान्याजौ […]
कर्णपर्वम् अध्यायः 19-32
श्रीमहाभारतम् ||८ कर्णपर्वम् || 019-अध्यायः सञ्जय उवाच|| श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् | यथा वायुः समासाद्य तूलराशिं समन्ततः ||१|| प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह | शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ||२|| सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः | सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ||३|| त्रिगर्तराजः समरे भ्रातृभिः परिवारितः | पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ||४|| ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे | अभ्यद्रवन्त समरे वार्योघा इव […]
कर्णपर्वम् अध्यायः 01-18
श्रीः श्रीमहाभारतम् ||८ कर्णपर्वम् || 001-अध्यायः धृतराष्ट्रसंजयसंवादः वैशम्पायन उवाच|| ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः | भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ||१|| ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः | पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ||२|| मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः | रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ||३|| विशेषतः सूतपुत्रो राजा चैव सुयोधनः | दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ||४|| ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् | […]