याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः यतिधर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः यतिधर्मप्रकरणम् वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि । । ३.५६ । । अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा । । ३.५७ । । सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्रामं आश्रयेत् । । ३.५८ । । अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामात्रं अलोलुपः । । ३.५९ । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः वानप्रस्थधर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः वानप्रस्थधर्मप्रकरणम् सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् । । ३.४५ । । अफालकृष्तेनाग्नींश्च पितॄन्देवातिथीनपि । भृत्यांश्च तर्पयेत्श्मश्रु जटालोमभृदात्मवान् । । ३.४६ । । अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतं आश्वयुजे त्यजेत् । । ३.४७ । । दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः । । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आपद्धर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आपद्धर्मप्रकरणम् क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि । । ३.३५ । । फलोपलक्षौमसोम मनुष्यापूपवीरुधः । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् । । ३.३६ । । शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः । । ३.३७ । । कौशेयनीललवण मांसैकशफसीसकान् । शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च । । ३.३८ । । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आशौचप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आशौचप्रकरणम् ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः । । ३.१ । । यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् । । ३.२ । । सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघं अनेन पितृदिङ्मुखाः । । ३.३ । । एवं मातामहाचार्य प्रेतानां उदकक्रिया । कामोदकं सखिप्रत्ता स्वस्रीयश्वशुरर्त्विजाम् । । ३.४ । । […]
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः प्रकीर्णकप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः प्रकीर्णकप्रकरणम् ऊनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः । । २.२९५ । । अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रं अर्धिकम् । । २.२९६ । । कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् । । २.२९७ । । चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः । काष्ठलोष्टेषुपाषाण […]
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणम् पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा । । २.२८३ । । नीवीस्तनप्रावरण सक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहैकासनं एव च । । २.२८४ । । स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा । । २.२८५ । । सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये […]
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्तेयप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संभूयसमुत्थानप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संभूयसमुत्थानप्रकरणम् समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ । । २.२५९ । । प्रतिषिद्धं अनादिष्टं प्रमादाद्यच्च नाशितम् । स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् । । २.२६० । । अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् । । २.२६१ । । मिथ्या वदन्परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं […]
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः विक्रीयासंप्रदानप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः विक्रीयासंप्रदानप्रकरणम् गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते । । २.२५४ । । विक्रीतं अपि विक्रेयं पूर्वक्रेतर्यगृह्णति । हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् । । २.२५५ । । राजदैवोपघातेन पण्ये दोषं उपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः । । २.२५६ । । अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि । विक्रीणीते दमस्तत्र […]
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साहसप्रकरणम्
याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साहसप्रकरणम् सामान्यद्रव्यप्रसभ हरणात्साहसं स्मृतम् । तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः । । २.२३० । । यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैवं उक्त्वाहं दाता कारयेत्स चतुर्गुणम् । । २.२३१ । । अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् । । २.२३२ । । सामन्तकुलिकादीनां अपकारस्य कारकः । पञ्चाशत्पणिको दण्ड एषां इति विनिश्चयः । […]