मीमांसापादुका वेदस्यार्थप्रत्यायकताधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका वेदस्यार्थप्रत्यायकताधिकरणम् वाक्याद्वाक्यार्थबुद्धौ बहुविधकुहकक्षोभतो बाधितायां तत्प्रत्यापत्तिसिद्ध्यै परमिह मुनिना न्यासि वाक्याधिकारः । दृष्टापह्नुत्ययोगाद्दृढतरविदितात्कार्यतो हेतुसिद्धौ दन्तादन्तिप्रयासः पुनरिह विदुषां दर्पसङ्घर्षतन्त्रः ॥ १५२ ॥ वाक्यादज्ञातयोगादविदितकथनेऽतिप्रसङ्गप्रसङ्गो मैवं व्युत्पन्नशब्दस्तबकमहिमतस्तत्तदर्थोपलब्धेः । संबन्धस्स्याद्गृहीतः कथमपि न तु वा तत्तदर्थैः पदानां वाक्यं वाक्यार्थयुक्तं न तु विदितचरं काव्यकॢप्त्यादिदृष्टेः ॥ १५३ ॥ यद्वाक्यं गोपदादिव्यतिकरितमिदं वक्ति गोत्वादिमद्भिर्युक्तान्वाक्यार्थभेदानिति सकृदखिलव्यापिसंबन्धबोधात् । वाक्यं वाक्यार्थबोधे प्रभवति तदिहातिप्रसङ्गो न शक्यः पुंवाक्येऽप्येवमेव […]
मीमांसापादुका शब्दनित्यत्वाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका शब्दनित्यत्वाधिकरणम् शब्दस्यार्थेन बन्धस्सहज इति वचोमात्रमत्र प्रसक्तं साकाङ्क्षे ह्यत्र शब्दाधिकरणमुदितं नित्यताप्त्यै पदानाम् । वर्णस्थैर्योक्तिपक्षे वितथविफलते स्तः पदस्थैर्यपक्षे सूत्राणां योजनं च स्वरसगति भवत्पक्षवन्नातिखेदः ॥ १३७ ॥ व्युत्यत्तिर्वाच्यवर्गे ह्यतिविषमतमा जातियोगान्निरूढा शिक्षेयं वाचकेऽपि प्रथयितुमुचिता शीलितन्यायवृत्तैः । किं चोदात्तादिभेदा अपि विलयभृतो वाचकेषूपयुक्तास्तादृक्त्वेनैव तेषां यदि नियमवचस्तद्वदत्रेति भाव्यम् ॥ १३८ ॥ वर्णा नित्या यदि स्युस्तदपि भवति किं मानताऽनाप्तवाक्ये ते […]
मीमांसापादुका वेदप्रमाणकत्वाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका वेदप्रमाणकत्वाधिकरणम् प्रत्यक्षप्रत्यपेक्षान्वयतदितरयोरत्र भङ्गात्तदुत्थं मानं नात्रानुमानं तदनुविहितितो वाक्यमत्राप्रमाणम् । इत्याशङ्कां निरोद्धुं परमिह विदधे सूत्रमौत्पत्तिकाद्यं कर्ता शारीरकस्य स्वगुरुरपि वदत्येतदित्याह भक्त्या ॥ १०५ ॥ निर्बाधास्सन्ति बोधाः कतिकति जगति त्यक्तदोषप्रसङ्गा दोषोपेतेऽपि धर्मिप्रभृतिषु नियतः स्थापितस्सत्यभावः । तस्मादौत्सर्गिकत्वं मुनिरमत धियां मानभावस्य युक्त्या वेदोत्पन्नेऽपि नित्येश्वरमतिनयतो दोषहान्येव तत्स्यात् ॥ १०६ ॥ पाणिन्यादिप्रवाहैरसदितरतया स्थापितश्शब्दराशिश्शब्दस्येत्युद्गृहीतो न खलु सहजसंबन्धशाली तदन्यः । गावीगोण्यादिशब्दास्त्वलसजडमुखैरर्भकालापनीत्या कीर्त्यन्ते […]
मीमांसापादुका अन्यप्रमाणकत्वनिरासाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका अन्यप्रमाणकत्वनिरासाधिकरणम् धर्मस्तत्तत्क्रियादि श्रुतमिदमिह खल्वस्मदाद्यक्षवेद्यं तस्माच्छास्त्रैकमानस्स कथमिति यदि स्थूलमेतच्छलत्वात् । धर्माख्यानं क्रियादौ धृतिजनकतया सा च नाध्यक्षवेद्या दुर्दर्शार्थोपदेशान्निगमसफलता तेन सत्सूत्रसाध्या ॥ ९३ ॥ धर्मे प्रत्यक्षतोक्तिर्भवति च सुगमा सिद्धसाध्यानुवृत्ता सत्सूत्रं साध्यमात्रप्रवणमिति च ते कल्पना निष्प्रमाणा । ज्ञानं तस्योपदेशस्त्विति च सममिदं द्विप्रकारेऽपि धर्मे सर्वं तात्पर्यवृत्त्या सुघटितमिह नः पश्यतां वृत्तिकारम् ॥ ९४ ॥ धर्मं जिज्ञासमाने भवभृति करणायत्तबोधे […]
मीमांसापादुका धर्मप्रमाणपरीक्षाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका धर्मप्रमाणपरीक्षाधिकरणम् धर्मे वेदः प्रमाणं तदितरदपि वा नोभयं वोभयं वेत्येवं सन्देहडोलाविहरणविहितानेकदिक्क(सृप्त)प्रसक्तान् । जिज्ञासून्वेद एवेत्यवधृतिनियतावस्थितीन्कल्पयिष्यंश्चक्रे सूत्रं तृतीयं चटुलमतिदशावारणारम्भणार्थम् ॥ ८८ ॥ अत्रायोगान्ययोगौ प्रशमयितुमियं चोदनामानतोक्तिस्सत्सूत्रादौ स्फुटं तत्समसनविषयक्षेपणीयक्रमेण । अध्यायस्थाप्यसिद्ध्यै प्रथममभिदधे तन्निमित्ते परीष्टिः कर्तव्या नेति वा स्यादिह विनिगमना सूत्रकृत्काकुभेदात् ॥८९॥ मानं धर्मे न चिन्त्यं दुरपलपतयेत्युत्थितस्याऽऽस्तिकस्य प्रज्ञाचोरप्रसूतभ्रमपरिहृतये चिन्त्यमित्युत्तरं स्यात् । चिन्त्ये याऽस्मिन्प्रयुक्ते प्रथनकथनतस्तत्परीष्टिर्निषेद्ध्या छेकोक्तिस्साऽपि यस्मादकरणमिषतस्तत्परीष्टिं करोति ॥ […]
मीमांसापादुका धर्मलक्षणाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका धर्मलक्षणाधिकरणम् धर्मश्चोद्दिश्यतेऽर्थात्स्वयमिह मुनिना तद्विचारार्थसूत्रे लक्ष्मादृष्टेरचिन्त्यभ्रममिह नुदता चोदनासूत्रमूचे । तत्र त्वार्थं प्रमाणं तत इह न भवेद्वाक्यभेदप्रवृत्तिर्मानप्राधान्यपक्षान्तरमपि कतिचिद्वैभवादाश्रयन्ति ॥ ७८ ॥ कञ्चित्पित्रादिकल्पं प्रथयति पुरुषं चोदनाद्युक्तिरर्थाद्वाक्यादेश्चोदकत्वग्रहणमनुचितं शास्त्रसिद्धोज्झनं च । त्याज्योपादेयवर्गत्यजनभजनविध्युन्मुखाज्ञाभ्यनुज्ञाकिम्मीरो वेदराशिः किमिति न विदतः शासनं विश्वगोप्तुः ॥ ७९ ॥ नित्यत्वादीश्वराज्ञा न भवति निगमः पौरुषेयोऽन्यथा स्यादित्येतत्क्षुद्रहृद्यं नियतनिजगिरा नित्यमाज्ञाप्रवृत्तेः । तन्त्रन्यायादमन्त्रेष्वपि विविध(हि निज)भिदां विश्वकर्ता विधित्सेदाचार्यत्वं च वेदेष्वगणि […]
मीमांसापादुका धर्मजिज्ञासाधिकरणम्
श्रीमद्वेदान्ताचार्यविरचिता मीमांसापादुका मीमांसापादुका धर्मजिज्ञासाधिकरणम् श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ यस्य श्रीर्नित्यहृद्या निरुपधिगृहिणी नन्दति च्छन्दवृत्त्या यस्यापत्यं प्रजेशप्रभृति विहरणं यस्य विष्ववक्परार्थम् । लीलाभोगापदेशव्यतिभिदुरमिदं यस्य विश्वं विभूतिः सत्तासिद्धानुकम्पानिधिरवतु स नस्सप्तलोकीगृहस्थः ॥ १ ॥ यस्मादस्माभिरेतद्यतिपतिकथितप्राक्तनप्रक्रियोद्यत्कर्मब्रह्मावमर्शप्रभवबहुफलं सार्थमग्राहि शास्त्रम् । तं विष्वग्भेदविद्यास्थितिपदविषयस्थेयभूतं प्रभूतं वन्देयात्रेयरामानुजगुरुमनघं वादिहंसाम्बुवाहम् ॥ २ ॥ वेद्यं वेदैरशेषैर्विधितदितरयोर्विश्वमाज्ञापयन्तं धर्मैराराधनीयं पितृसुरमुखतश्शाश्वतं धर्ममेकम् । साङ्गाधीताक्षरौघस्वरससमुदितापातधीजातरागान्मीमांसेमह्यनन्तं व्यवहितवपुषं कञ्चुकैरुज्झितं […]
सुभाषितनीवी परीक्षकपद्धतिः
श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी परीक्षकपद्धतिः काकानां कोकिलानां च सीमाभेदः कथं भवेत् । यदि विश्वसृजा साक्षान्न कृता कर्णशष्कुली ।। 12.1 ।। छन्दः प्रत्ययशुद्धात्मा पश्यन् यतिगणस्थितिम् । वर्णादि नियतं वृत्तं नियुङ्क्ते गौरवादिवित् ।। 12.2 ।। सुवर्णमपि दुर्वर्णं युक्त्या दर्शयति क्वचित् । व्यनक्ति शुद्धिं सहसा शुचिरेक स्व तैक्ष्ण्यतः ।। 12.3 ।। स्वच्छ स्वादु विशुद्धानां स्रोतसां कलशोदधेः । दोषं केऽपि […]
सुभाषितनीवी सत्कविपद्धतिः
श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी सत्कविपद्धतिः अपङ्किलधियः शुद्धा साधुमानसवृत्तयः । वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ।। 11.1 । महापुरुषलब्धात्मा सर्गादि प्रथितोदयः । वश्यावदातया वाचा सेव्यते चतुराननः ।। 11.2 ।। विशुद्ध ललिताकारा गुणालङ्कारशालिनी । सरसा भारती यस्यः सत्येकः प्रतिष्ठितः ।। 11.3 ।। कुतश्चिदचलस्थानात् प्रयान्ती सागरान्तिकम् । दृश्यादृश्य तनुर्भाति श्रुत्यभीष्टा सरस्वती ।। 11.4 ।। प्रभूतोदितमुक्ताभिः भूयते सूक्तिशुक्तिभिः । सदृशां कर्णपूराय […]
सुभाषितनीवी वदान्यपद्धतिः
श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी वदान्यपद्धतिः आभिमुख्यदशामात्रात् आदर्श इव सज्जनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ।। 10.1 ।। अप्यनावर्जिता स्वेन फलभारेण सन्नताः । अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ।। 10.2 ।। निर्मुक्त भवनक्षेत्रा स्युः सदागतिनिर्वृताः । प्राप्ते भयविपर्यासे भोगिनः खलु योगिनः ।। 10.3 ।। सर्वेषाम् उत्तराम् आशां धनदो यः परीक्षते । सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ।। 10.4 […]