श्रीविष्णुपुराणम् Amsa 03 Ady 03

श्रीविष्णुपुराणम् अथ तृतीयोऽध्यायः मैत्रेय:- ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः ॥१॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ २ ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ॥३॥       श्रीपराशर:- वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्या विस्तराद्वक्तुं संक्षेपेण शृणुष्व त्वम् ॥४॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 02

श्रीविष्णुपुराणम् अथ द्वितीयोऽध्यायः मैत्रेयः- प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥१॥       श्रीपराशरैः- सूर्यस्य पत्नी संज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥               सूर्यस्येति ॥ अष्टममनोः प्रसङ्गाद् यमादीनां जन्मेतिहासः ॥ १,२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तुःशुश्रूषणेsरण्यं स्वयं च तपसे ययौ ॥३॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । […]

श्रीविष्णुपुराणम् Amsa 03 Ady 01

श्रीविष्णुपुराणम् तृतीयेऽशे प्रथमोऽध्यायः        मैत्रेयः- कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥ देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥२॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥ मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ४ ॥           उक्त:  प्रथमांशे  प्रजासर्गः । द्वितीये तच्छेषः  प्रियव्रतवंशः, प्रसक्तः  सृष्टानामावासभूतो लोकसन्निवेशः।अथ तृतीयचतुर्थयोर्वैदिकः मनुब्यासादिप्रवर्तितो धर्मः, […]

श्रीविष्णुपुराणम् Amsa 02 Ady 14

श्रीविष्णुपुराणम् अथ चतुर्दशोऽध्यायः        श्रीपराशरः- निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥१॥             पूर्वाध्याये देहादिव्यतिरिक्त आत्मेत्युक्तम् । अनन्तरेणाध्यायेन स एवं [नित्यत्वा–     -नन्यार्थत्वानौपाधिकत्वादिभिः] परमपुरुषार्थ इत्युच्यते-निशम्येति ॥ परमार्थसमन्वितं परमार्थतया वक्ष्यमाणेनारमना समन्वितं– विषयम् ॥ १॥      राजोवाच – भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥२॥            भगवन्निति ।। परमार्थमयम्-आत्मयाथात्म्यप्रतिपादकत्वेन परमप्रयोजनरूपम् । […]

श्रीविष्णुपुराणम् Amsa 02 Ady 13

श्रीविष्णुपुराणम् अथ त्रयोदशोऽध्यायः     मैत्रेयः – भगवन्सम्यगाख्यातं यत्पृष्टोऽसि मयाऽखिलम् । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥१॥ विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थस्तु मे प्रोक्तो यथा ज्ञानं प्रधानतः ॥२॥         विश्वाधारमिति ॥ चिदचिदात्मकं जगद्यथा विष्ण्वात्मकं तथोक्तम् । यथा चिदंशो निजसिद्ध ज्ञानैकाकारत्वेनाविनाशित्वात्परमार्थः तथा प्राधान्येनोक्तः ॥१,२॥ यत्वेतद्भगवानाह. भरतस्य महीपतेः । श्रोतुमिच्छामि चरितं तन्ममाख्यातुमर्हसि ॥३॥ भरतः स महीपालः सालग्रामेऽवसत्किल । योगयुक्तः समाधाय […]

श्रीविष्णुपुराणम् Amsa 02 Ady 12

श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः1  श्रीपराशरः – रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥१॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । हासवृद्धिक्रमस्तस्य रश्मीना सवितुर्यथा ॥२॥ अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारिगर्भसमुद्भवाः ॥३॥            अर्कस्यैवेति । वारिगर्भसमुद्भवाः-जलमयाः, * वारिगर्भसमुद्भूतो रथस्साश्वस्ससारथि–   –रित्यादित्यपुराणे ॥१-३॥ क्षीणं पीतं सुरैस्सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥४॥ […]

श्रीविष्णुपुराणम् Amsa 02 Ady 11

श्रीविष्णुपुराणम् अथैकादशोऽध्यायः        मैत्रेयः – यदेतद्भगवानाह गणस्सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥१॥ व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥२॥ यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥३॥ यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ४ ॥ विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः […]

श्रीविष्णुपुराणम् Amsa 02 Ady 10

श्रीविष्णुपुराणम् अथ दशमोऽध्यायः श्रीपराशरै:- त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आगेहणावरोहाभ्यां भानोरब्देन या गतिः॥१॥ अथ भानुरथस्य दिनभ्रमणवृत्तसंख्यामाह-त्र्यशीतीति ॥ काष्ठयोरन्तरम्-उदग्दक्षिणसीमयोर्मध्यस्थ. वियत्प्रदेशः त्र्यशीतिशतधा भिन्नः, आरोहणावरोहणाभ्यां भानोरब्देन या गतिः स्यात् । गम्यत इति गतिः ॥.. महाक्षे हि तत्तद्वृत्तरेखान्तरालमुदगयनेऽनुदिनं मेर्वभिमुखो रथो यावत्काष्ठान्तमारोहति, याम्यायने तु तान्येव मण्डलान्तरालानि प्रत्यहं मानसोत्तराभिमुखोऽवरोहति यावत्काष्ठम् । एवं च भानोरेकाब्दसाध्या द्वादशराशिभोगा रिमका षट्पष्टयुत्तरत्रिशतवारभ्रमेण गति: स्यात् । सर्वोत्तरमेरुपतितगंगाप्रवाहणां तत्तद्दक्षिणाब्धिप्रवेशोत्या […]

श्रीविष्णुपुराणम् Amsa 02 Ady 09

श्रीविष्णुपुराणम् अथ नवमोऽध्यायः श्रीपराशरः – तारामयं भगवतः शिंशुमाराकृति प्रभोः। दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥१॥ सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २॥ अथ ध्रुवप्रसंगात्तद्वारा सर्वाधारं तारापुञ्जकल्पितावयवं शिंशुमाराकृति भगवतो रूपमाह-तारा मयमिति ॥ १, २ ॥ सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयधैर्धवे बद्धानि तानि वै ॥३॥ सूर्याचन्द्रमसाविति […]

श्रीविष्णुपुराणम् Amsa 02 Ady 08

श्रीविष्णुपुराणम् अथ अष्टमोऽध्यायः श्रीपराशर: – व्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुत्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे ॥१॥ अथ ज्योतिश्चकम् । व्याख्यातमिति ॥ एतत्-ब्रह्माण्डसंस्थान मथा तव व्याख्यातम् ॥ १॥ योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥२॥ योजनानामिति ॥ भास्करस्य देहव्याप्तो रथभागों नवसाहस्रः, वक्ष्यमाणगंधर्वादिपरिवारावकाशार्थों रथांशश्च सहनमात्रः, इत्थं दशसहस्रो रथः, * मण्डलं भास्करस्याथ योजना(प्रा)नान्निबोधत । नवयोजन साहस्रो […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.