श्रीविष्णुपुराणम् Amsa 02 Ady 07
श्रीविष्णुपुराणम् अथ सप्तमोऽध्यायः । मैत्रेय: – कथितं भूतलं ब्रह्मन्ममैतदखिलं त्वया । भुवर्लोकादिकॉल्लोकाञ्छोतुमिच्छाम्यहं मुने ॥ १ ॥ तथैव ग्रहसंस्थान प्रमाणानि यथा तथा। समाचक्ष्व महाभाग तन्मह्य परिपृच्छते ॥ २ ॥ कथितमिति ॥ कथितमित्यादि भुवनशेषस्य ज्योतिश्चक्रस्य च प्रश्नः ॥ १, २ ॥ श्रीपराशरः— रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिचोला तावती पृथिवी स्मृता ॥३॥ रवीति ॥ तावती भूलोकाख्या ॥ ३ ॥ यावत्प्रमाणा पृथिवी […]
श्रीविष्णुपुराणम् Amsa 02 Ady 06
श्रीविष्णुपुराणम् अथ षष्ठोऽध्यायः ततश्च नरका विप्र भुवोऽधस्मलिलस्य च । पापिनो येषु(पच्यन्ते)पात्यन्ते ताञ्छृणुध महामुने॥१॥ उक्ता पुण्योगभूमिः । अथ पापभोगभूमिरुच्यने-ततश्चेति ॥ सलिलस्य-तमोगोंदकस्य, अवः ॥ १॥ रौरवस्सूकरो रोधस्तालो विशमनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विलोहितः ॥२॥ रौरव इति ।। रोरवसूकरौ रुरुवराहकृतपीडात्मको। निखातवद्यत्र रुद्धयते स रोधः । तालद्रुमात्पातनं तत्पर्णकाण्डेन च छेदनं यत्र स नालः । करपत्रादिना तीक्ष्णशस्त्रेण यत्र च्छेदनं स विशसनः […]
श्रीविष्णुपुराणम् Amsa 02 Ady 05
श्रीविष्णुपुराणम् अथ पञ्चमोऽध्यायः विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस्तु सहस्राणि द्विजोच्छायोऽपि कथ्यते ॥१॥ विस्तार इति ॥ सप्ततिसहस्रोंच्छ्रायत्वं सप्तभूमिकप्रासादन्यायेन ॥ १ ॥ दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ २ ॥ शुक्लकृष्णारुणाः पीताः शर्कराश्शैलकाञ्चनाः । भूमयो यत्र मैत्रेय वरप्रासादमण्डिताः ॥३॥ तेषु दानवदैतेयजातयश्शतशस्तथा […]
श्रीविष्णुपुराणम् Amsa 02 Ady 04
श्रीविष्णुपुराणम् अथ चतुर्थोऽध्यायः | श्रीपराशरः– क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥१॥ सम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एव द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥२॥ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तहयो नाम शिशिरस्तदनन्तरः ॥३॥ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥४॥ पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा […]
श्रीविष्णुपुराणम् Amsa 02 Ady 03
श्रीविष्णुपुराणम् अथ तृतीयोऽध्यायः श्रीपराशरः- उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥१॥ उत्तरमिति ॥ समुद्रस्य–पुरातनस्य, न तु सगरसुताखातस्य । भारती-भरतस्य राज्ञः संबन्धिनी ॥१॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्ग च गच्छताम् ॥ २॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः॥ ३ ॥ नवयोजनेति ॥ विस्तारः–दक्षिणोत्तरतः ; आयामस्तु […]
श्रीविष्णुपुराणम् Amsa 02 Ady 02
श्रीविष्णुपुराणम् द्वितीयांशे द्वितीयोऽध्यायः मैत्रेयः – कथितो भवता ब्रह्मन्सर्गः स्वायंभुवश्च मे । श्रोतुमिछाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ १॥ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः पुर्यो देवादीनां तथा मुने ॥२॥ यत्प्रमाणमिदं सर्व यदाधारं यदात्मकम् । संस्थानमस्य च मुने यथावद्वक्तुमर्हसि ॥३॥ श्रीपराशरः— मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो सम । नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ […]
श्रीविष्णुपुराणम् Amsa 02 Ady 01
श्रीविष्णुपुराणम् द्वितीयांशे प्रथमोऽध्यायः मैत्रेयः – भगवन्सम्यगाख्यातं ममैतदखिलं त्वया । जगतः सर्गसम्बन्धि यत्पृष्टोऽसि गुरो मया ॥ १ ॥ अथ द्वितीये अंशे सृष्टिविशेषः तत्प्रसंगात्सृष्टानां निवासश्चोच्यते । तत्र प्रथमांशेऽवशेषितं प्रियव्रतान्वयं पृच्छति-भगवन्निति ॥ सर्गसंबन्धि-सृष्टयनुबन्धं वस्तु, यथा जगद्बभूव यन्मयमित्यादिकम् ॥ १॥ योऽयमंशो जगत्सृष्टिसंबन्धो गदितस्त्वया । तत्राहं श्रोतुमिछामि भूयोऽपि मुनिसत्तम ॥ २॥ प्रियव्रतोत्तानपादौ सुतौ स्वायंभुवस्य यौ। तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥३॥ […]
श्रीविष्णुपुराणम् Amsa 01 Ady 22
श्रीविष्णुपुराणम् अथ द्वाविंशोऽध्यायः श्रीपराशर:- यदाऽभिषिक्तस्स पृथुःपूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥१॥ अथ पितामहः पृथोरभिषेकोत्तरं पूर्वसृष्टानामाधिपत्यविभागं तत्तन्मर्यादास्थापनार्थमकरोदित्याह यदेति ॥ ततः कालादारभ्य ॥ १ ॥ नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये न्यघाद्ब्रह्मा यज्ञानां तपसामपि ॥२॥ नक्षत्रेति ॥ राज्ये-आधिपत्ये ॥ २ ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां […]
श्रीविष्णुपुराणम् Amsa 01 Ady 21
श्रीविष्णुपुराणम् अथ एकविंशोऽध्यायः श्रीपराशर:- प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च । विरोचनस्तु प्राहलादिर्बलिर्जज्ञे विरोचनात् ॥१॥ बलेः पुत्रशतं त्वासीद्बाणज्येष्ठ महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥२॥ झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभो महाबाहुः कालनाभस्तथाऽपरः ॥ ३ ॥ अभवन्दनुपुत्राश्च द्विमूर्द्धा शंबरस्तथा । अयोमुखः शंकुशिराः कपिलः शंकरस्तथा ॥४॥ एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृषपर्वा च पुलोमा च महाबलः ॥ ५ ॥ […]
श्रीविष्णुपुराणम् Amsa 01 Ady 20
श्रीविष्णुपुराणम् अथ विंशोऽध्यायः श्रीपराशर: – एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवापाग्र्यं मेने चात्मानमच्युतम् ॥ १ ॥ विशदविशदतरविशदतमक्रमेण योगकाष्ठां प्राप्त इत्याह एवमिति ॥ आत्मनोऽमेदेन-स्वशरीरकत्वेन । विष्णुशब्दः कारणवाची, आत्मशब्दः कार्यभूतस्वप्रकारकविष्णुवाची, तेनाप्यभेदः। तन्मयत्वं-तत्प्राचुर्यम् । अग्र्यम् -उत्कृष्टं, स्वस्य तदात्मकत्ववैशद्यमवाप । अत एवात्मानमच्युतं मेने | तन्मयत्वमवाप्याग्रे इति च पाठः॥१॥ विसस्मार तदाssत्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोsनन्तः परमात्मेत्यचिन्तयत् ॥ २ ॥ […]