श्रीविष्णुपुराणम् Amsa 01 Ady 19
श्रीविष्णुपुराणम् अथ एकोनविंशोऽध्यायः श्रीपराशर: – हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥१॥ हिरण्यकशिपु:- प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहज तव ॥२॥ श्रीपराशरः – एवं पृष्टस्तदा पित्रा प्रहादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ ३ ॥ प्रह्लादः- न मंत्रादिकृतस्तात न च नैसर्गिको मम । प्रभाव एष […]
श्रीविष्णुपुराणम् Amsa 01 Ady 18
श्रीविष्णुपुराणम् अथ अष्टादशोऽध्यायः श्रीपराशरः – तस्यैतां दावनवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥१॥ तस्येति ॥ चेष्टाम्-उपदेशात्मिकाम् ॥ १॥ हिरण्यकशिपु: – हे सूदा मम पुत्रोऽसावन्येषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ २ ॥ हे सूदा इति ॥ देशिक:-उपदेशकृत् ॥ २॥ हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम् । अविज्ञातमसौ पापो हन्यतां […]
श्रीविष्णुपुराणम् Amsa 01 Ady 17
श्रीविष्णुपुराणम् अथ सप्तदशोऽध्यायः श्रीपराशर: – मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥१॥ दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ २॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महामुरः ॥३॥ धनानामधिपस्सोऽभूत्स एवासीत्स्वयं यमः। यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः॥४॥ देवाः स्वर्गं परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरुरवनौ सर्वे विभ्राणा मानुषीं तनुम् […]
श्रीविष्णुपुराणम् Amsa 01 Ady 16
श्रीविष्णुपुराणम् अथ षोडशोऽध्याय मैत्रेय:- कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥१॥ कथित इति ॥ मानवानाम् स्वायंभुवमनुवंश्यानाम् उत्तानपादादीनाम् । कारणमिति शास्त्रतात्पर्यार्थं– प्रश्नोत्तरस्मरणम् ॥ १॥ यत्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ २॥ जगाम बसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशैर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥३॥ शैलैराक्रान्तदेहोऽपि न ममार च […]
श्रीविष्णुपुराणम् Amsa 01 Ady 15
श्रीविष्णुपुराणम् अथ पञ्चदशाध्यायः श्रीपराशरः – तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः । अरक्ष्यमाणामावत्रुर्बभूवाथ प्रजाक्षयः ॥ १ ॥ नाशकन्मरुतो वातुं वृतं खमभवद्रुमैः । दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २ ॥ तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ ३ ॥ उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ ४ ॥ द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु […]
श्रीविष्णुपुराणम् Amsa 01 Ady 14
श्रीविष्णुपुराणम् अथ चतुर्दशोऽध्यायः श्रीपराशरः – पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥१॥ हविर्धानात् षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ २ ॥ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ ३ ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विस्तृता मुने । प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ ४॥ प्राचीनाग्रा इति ॥ प्राचीनाग्राः कुशाः यज्ञविशेषीयाः ॥ […]
श्रीविष्णुपुराणम् Amsa 01 Ady 13
श्रीविष्णुपुराणम् अथ त्रयोदशोऽध्यायः | श्रीपराशरः। ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥१॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृक़तेजसम् । रिपोराधत्त बृहतीं चाक्षुषं सर्वतेजसम् ॥ २ ॥ अजीजतत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ३ ॥ मनोरजायन्त दशनडुवालायां महौजसः । कन्यायां तपतांश्रेष्ठ वैराजस्य प्रजापतेः ॥ ४॥ (ऊरुः पुरु) कुरुः पुरुश्शतद्युम्नस्तपस्वी सत्यवाञ्छुचिः […]
श्रीविष्णुपुराणम् Amsa 01 Ady 12
श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः श्रीपराशरः – निशम्यैतदशेषेण मैत्रेय नृपतेस्सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १ ॥ कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ २ ॥ पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितंयतः । ततो मधुवनंनाम्ना ख्यातमत्र महीतले ॥ ३ ॥ हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरांनाम पुरीं यत्र चकार वै ॥ ४ ॥ यत्र […]
श्रीविष्णुपुराणम् Amsa 01 Ady 11
श्रीविष्णुपुराणम् अथैकादशोऽध्यायः श्रीपराशरः— प्रियव्रतोत्तानपादौ मनोस्वायंभुवस्य तु । द्वौ पुत्रौ सुमहावीर्यों धर्मज्ञौ कथितौ तव॥ १ ॥ तयोरुत्तानपादस्य सुरुच्यामुत्तमस्सुतः । अभीष्टायमभूद्ब्रह्मन्पितुरत्यन्तवल्लभः ॥ २ ॥ सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज । स नातिप्रीतिमांस्तस्यामभूद्यस्या ध्रुवस्सुतः ॥ ३॥ राजासनस्थितस्याङ्कं पितुर्भ्रातरमाश्रितम् । दृष्ट्वोत्तमं ध्रुवश्चक्रे तमारोढुं मनोरथम् ॥ ४ ॥ प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्सङ्गारोहणोत्सुकम् ॥ ५ ॥ सपत्नीतनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् […]
श्रीविष्णुपुराणम् Amsa 01 Ady 10
श्रीविष्णुपुराणम् अथ दशमोsध्यायः मैत्रेयः – कथितंमे त्वया सर्वंयत्पृष्टोऽसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गों मे कथ्यतां पुनः ॥ १ ॥ अर्थ संक्षेपेणश्रुतं भृगुसर्ग विस्तरतः श्रोतुं पृच्छति कथितमिति ॥ १ ॥ श्रीपराशर:– भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः॥ २ ॥ भृगोरिति ॥ परिग्रह:-कलत्रम् ॥ २ ॥ प्रायतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ […]