74 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुःसप्ततितमः सर्गः अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः । आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ।। 1.74.1 ।। अथायोध्याप्रस्थाने मध्येमार्गं जामदग्न्यागमनं चतुःसप्ततितमे–अथ रात्र्यामित्यादि । आपृष्ट्वा आपृच्छ्य उत्तरपर्वतं स्वावासं हिमवन्तम् ।। 1.74.1 ।। विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् । आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ।। 1.74.2 ।। गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः ।। 1.74.3 ।। अथ राजा विदेहानां […]

73 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिसप्ततितमः सर्गः यस्मिंस्तु दवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ।। 1.73.1 ।। अथ सीताविवाहस्त्रिसप्ततितमे–यस्मिन्नित्यादि ।। 1.73.1 ।। पुत्रः केकय राजस्य साक्षाद्भरतमातुलः । दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ।। 1.73.2 ।। साक्षात्पदेन भिन्नोदरमातुलोप्यस्तीति गम्यते ।। 1.73.2 ।। केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् । येषां कुशलकामो ऽसि तेषां सम्प्रत्यनामयम् ।। 1.73.3 ।। केकयाधिपतिः स्वपिता […]

72 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्विसप्ततितमः सर्गः तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः । उवाच वचनं वीरं वसिष्ठसहितो नृपम् ।। 1.72.1 ।। अथ विश्वामित्रेण भरतशत्रुघ्नार्थे कुशध्वजसुतावरणं गोदानकरणं च द्विसप्ततितमे–तमुक्तवन्तमित्यादि । नृपं जनकम् ।। 1.72.1 ।। अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव । इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश्चन ।। 1.72.2 ।। अचिन्त्यानीत्यादि । अचिन्त्यानि आश्चर्यभूतानि । अप्रमेयानि अपरिच्छेद्यमहिमानि । एषाम् इक्ष्वाकुविदेहानाम् । तुल्यः कश्चन […]

71 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकसप्ततितमः सर्गः एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः । श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ।। 1.71.1 ।। प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्निबोध महामुने ।। 1.71.2 ।। एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे– एवं ब्रुवाणमित्यादि ।। 1.71.1,2 ।। राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा । निमिः परमधर्मात्मा […]

70 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्ततितमः सर्गः ततः प्रभाते जनकः कृतकर्मा महर्षिभिः । उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ।। 1.70.1 ।। अथ जनकेन सम्बन्धार्हत्वायेक्ष्वाकुसन्तानकीर्तनं सप्ततितमे–ततः प्रभात इत्यादि । कृतकर्मा समाप्तयज्ञादिक्रियः ।। 1.70.1 ।। भ्राता मम महातेजा यवीयानतिधार्मिकः । कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ।। 1.70.2 ।। वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् । साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ।। 1.70.3 ।। भ्रातेत्यादि । अत्रत्यविशेषणानां […]

69 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनसप्ततितमः सर्गः ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ।। 1.69.1 ।। अथ दशरथस्य मिथिलागमनमेकोनसप्ततितमे–ततो रात्र्यामित्यादि ।। 1.69.1 ।। अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् । व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ।। 1.69.2 ।। धनाध्यक्षाः कोशरक्षाधिकृताः । पुष्कलं श्रेष्ठम् । “श्रेयान् श्रेष्ठः पुष्कलः स्यात्” इत्यमरः । सुविहिताः सुसम्पादितकल्याणोचितकर्माणः ।। 1.69.2 ।। चतुरङ्गं बलं चापि […]

68 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टषष्टितमः सर्गः जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः । त्रिरात्रमुषिता मार्गे ते ऽयोध्यां प्राविशन् पुरीम् ।। 1.68.1 ।। अथ जानकीविवाहाय दशरथाह्वानमष्टषष्टितमे–जनकेनेत्यादि । त्रिरात्रमिति । तिस्रो रात्रयस्त्रिरात्रम्, सङ्ख्यादित्वात् रात्र्यन्तादच्समासान्तः । अत्यन्तसंयोगे द्वितीया ।। 1.68.1 ।। ते राजवचनाद्दूता राजवेश्म प्रवेशिताः । ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ।। 1.68.2 ।। राजवचनात् जनको ऽस्मानिह प्रेषितवानिति स्वराजसङ्कीर्तनात् ।। 1.68.2 ।। बद्धाञ्जलिपुटाः सर्वे […]

67 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तषष्टितमः सर्गः जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः । धनुर्दर्शय रामाय इति होवाच पार्थिवम् ।। 1.67.1 ।। अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे–जनकस्येत्यादि ।। 1.67.1 ।। ततः स राजा जनकः सामन्तान् व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ।। 1.67.2 ।। जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् । तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ।। 1.67.3 ।। सामन्तान् कर्मसचिवान् ।। 1.67.2,3 […]

66 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्षष्टितमः सर्गः ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ।। 1.66.1 ।। एवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा दुर्निरोधौ, जितकामक्रोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यञ्जितमिति प्रबन्धगतवस्तुना वस्तुध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवघायावतीर्णस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मीं तुल्यशीलवयोवृत्ताभिजनैव कन्या वरणीयेत्यमुमर्थविशेषं प्रवर्तयिष्यन् जनककुले ऽवतार्य […]

65 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चषष्टितमः सर्गः अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः । पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ।। 1.65.1 ।। अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे–अथ हैमवतीमित्यादि ।। 1.65.1 ।। मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ।। 1.65.2 ।। वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ।। 1.65.2 ।। पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.