85 Sarga युद्धकाण्डः

श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः सीताशोकाकुलतयाविभीषणभाषितमनवधारितवतोरामस्यचोदनया पुनर्विभीषणेन तंप्रति इन्द्रजितं प्रतिनिकुंभिलायां होमसमाप्तौ सर्वदुर्जयत्वरूपब्रह्मवरदानप्रकारस्य ब्रह्मणैवोक्तस्य -होमापरिसमाप्तेस्तद्वधहेतुत्वस्य च निवेदनेन तद्वधायानुजनि योजनप्रार्थना ॥ १ ॥ रामचो -दनया लक्ष्मणेनेन्द्रजिद्वधायविभीषणादिभिःसह निकुंभिलांप्रतिप्रस्थानम् ॥ २ ॥   तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥ ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २ ॥ अथेन्द्रजिद्वधाय […]

84 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः रामसमीपमुपागतवता लक्ष्मणमुखाद्रामशोककारणमवगतवताचविभीषणेन रामंप्रति इन्द्रजिन्निहतसीतायामायामयत्वोक्त्या समाश्वासनम् ॥ १ ॥ तथेन्द्रजिता निकुंभिलायांहोमारं -भस्य होमसमाप्तौतस्यदुर्जयत्वस्यच निवेदनेन तद्वधाय लक्ष्मणप्रेषणप्रार्थना ॥ २ ॥   राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले । निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥ नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः । नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥ २ ॥ अथेन्द्रजिद्वधोपायदर्शनं – राममाश्वासयान इत्यादि ।। आश्वासयाने आश्वासयमाने । आगमशासनस्यानित्यत्वान्मुगभावः । अनेन […]

83 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः हनुमन्मुखादिन्द्रजित्कृतमायासीतामारणश्रवणजशोकेनपतितमूर्च्छितं-सुरभिसलिलसे -कसमुद्बोधितंरामंप्रति लक्ष्मणेन नास्तिक्यवादाश्रयणेन धर्मादिनिरसनेनपौरुषप्रशंसनपूर्वकं पुनः क्षमापणेनरिपुवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥   राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्घामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥ अथ मायासीतावधमूर्च्छितरामसान्त्वनं त्र्यशीतितमे — राघवश्चापीत्यादि । जाम्बवन्तं यदृच्छया सन्निहितं ॥ १ ।।   सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः […]

82 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः ॥ ८२ ॥ इन्द्रजिता मायासीताच्छेदनानन्तरं हनुमतावानरान्प्रति सीतानिधनाद्युद्धस्यवैफल्यो -क्त्त्या प्रतिनिवर्तनपूर्वकं तैस्सह रामसमीपगमनम् ॥ १ ॥ अत्रान्तरेलब्धावकाशेनेन्द्रजिता निकुंभिलामेत्ययागारंभः ॥ २ ॥   श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमवनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥ तानुवाच ततः सर्वान्हनुमान्मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥ अथेन्द्रजितो निकुम्भिलायां होमारम्भः – श्रुत्वेत्यादि । शक्राशनिसमस्वनं शक्राशनिस्वनसममित्यर्थः ॥ […]

81 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः इन्द्रजिताऽन्तर्हितस्यापिस्वस्यवधनिर्धारणरूपरामभावविज्ञानेन भयालङ्काप्रवेशः ॥ १ ॥ तथा शत्रुवधाययजननिर्धारणेन तदन्तरायपरिहृतये रामव्यामोहनायस्वनिर्मितमायासीता- यारथारोपणपूर्वकं पश्चिमद्वारान्निर्गतेन हनुमदग्रे खङ्गेनमायासीताच्छेदनम् ॥ २ ॥   विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सनिवृत्याहवात्तस्मात्संविवेश पुरं ततः ॥ १ ॥ अथ मायासीतावध एकाशीतितमे – विज्ञाय त्वित्यादि । अत्र तृतीयाक्षरभूतो यकारो गायत्र्या एकोनविंशतितमाक्षरं । अष्टादशसहस्रश्लोकागताः ॥ १ ॥   सोनुस्मृत्य वधं […]

80 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः मकराक्षक्षयश्रवणविषण्णरावणचोदितेनेन्द्रजिता हुतभुजिहवनपूर्वकं सायुधरथा -रोहणेनान्तरिक्षेऽन्तर्हितेनसता रामादिषुशरवर्षणम् ॥ १ ।। लक्ष्मणेन रामंप्रति ब्रह्मास्त्रप्रयोगेणसकलरक्षः कुलक्षपणप्रतिज्ञानपूर्वकमभ्यनुज्ञानयाचने रामेण सान्त्वनेनतंप्रतिषेधनपूर्वकं यत्रकुत्रगतस्यापितस्यवधप्रतिज्ञानपूर्वकमुपायपर्यालोचनम् ॥ २ ॥   मकराक्षं हतं श्रुत्वा रावणः समितिंजयः । क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥ कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ।। २ ।। जहि वीर महावीर्यौ भ्रातरौ […]

79 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः राममकराक्षयोर्वीरवादपुरस्सरंसमरारंभः ॥ १ ॥ रामेणमकराक्षक्षपणम् ॥ २ ॥   निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १ ॥ ततः प्रवृत्तं सुमहत्तद्युद्धं रोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २ ॥ वृक्षशूलनिपातैश्च शिलापरिघपातनैः । अन्योन्यं मर्दयन्ति स्स तदा कपिनिशाचराः ॥ ३ ॥ अथ मकराक्षवध एकोनाशीतौ […]

78 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः रावणप्रेरणया समरायनिस्सरतिमकराक्षे राक्षसैस्तत्समयसमुद्भूतदुर्निमित्तनिरीक्षणेपि तदलक्षीकरणेनरणाय तदनुसरणम् ॥ १ ॥   निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥ अथ मकराक्षनिर्गमोष्टसप्ततितमे, प्रथमपक्षे अयं दशम्यां प्रातः, द्वितीयपक्षे तु दशम्यां प्रातरारभ्य कम्पनवधप्रहस्तवधरावणमुकुटभङ्गकुम्भकर्णप्रबोधतद्वधाः, अथापराह्ने ब्रह्मास्त्र -बन्धः रात्रौ तन्मोक्षलङ्कादहनकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजङ्घ कम्पनमकराक्षवधा:- निकुम्भं चेत्यादि ॥ १ ॥   नैऋतः क्रोधशोकाभ्यां […]

77 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः हनुमता निकुंभहननम् ॥ १ ॥   निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १॥ अथ निकुम्भवधः सप्तसप्ततितमे- निकुम्भ इत्यादि ॥ १ ॥   ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥ हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥ तमाविध्य […]

76 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्सप्ततितमः सर्गः अङ्गदेन कंपनप्रजङ्घयोर्वधः ॥ १ ॥ मैन्दद्विविदाभ्यां यूपाक्षशोणिताक्षयोर्वधः ॥ २ ॥ सुग्रीवेणकुंभवधः ॥ ३ ॥   प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १ ॥ अथ कुम्भवधः षट्सप्ततितमे – प्रवृत्त इत्यादि ॥ संकुले निरन्तरे ॥ १ ॥   आहूय सोङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.