75 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः सुग्रीवनियोगेन वानरैरात्रौलङ्कादहनम् ॥ १ ॥ ततोरावणाज्ञयाकुंभकर्णात्मजाभ्यां -कुंभनिकुंभाभ्यां यूपाक्षादिभिः सेनयाचसह वानरान्प्रतिरणायनिर्याणम् ॥ २ ॥ वानरराक्षस सैन्ययोर्महायुद्धम् ॥ ३ ॥   ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १ ॥ एवं हनुमदानीतौषधिपर्वतगन्धमात्रेण समागतप्राणेषु सर्वेषु विशल्येषु समुत्थितेषु सुग्रीवः स्वातिसन्धानजनितकोपातिरेकेण सद्यो निःशेषं लङ्कानिर्दहनं हनुमते नियमयति – तत इत्यादि । अर्थ्यं अर्थादनपेतं […]

74 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः विभीषणेनेन्द्रजिदस्त्रबद्धमुग्धसेनासमाश्वासनपूर्वकं हनुमतासहोल्कापाणिनासता सेनामध्येऽन्वेषणेनजांबवदन्तिकोपसर्पणम् ॥ १  ॥ विभीषणेनकुशलंपृष्टेनजांबवता तंप्रति मन्दस्वरेणहनुमत्कुशलप्रश्ने हनुमताजांबवन्तंप्रति सप्रणाममात्मनोऽभिमतकरणेनियोजन -प्रार्थना ॥ २ ॥ तेन तंप्रति सराघवहरिसेनासमुज्जीवनाय हिमवद्गिरिसंनिकृष्टमहौषधिपर्वता -न्मृतसंजीवन्यादिदिव्यौषधिसमानयनचोदना ॥ ३ ॥ हनुमताहिमवन्तमेत्य तत्रनानापुण्यस्थाना -वलोकनपूर्वकमोषधिगिरिमेत्य तदोषधिगवेषणम् ॥ ४ ॥ हनुमता स्वावलोकनेनौषधि -भिस्तिरोधाने क्रोधादोषधिगिरेरेवसमुत्पाटनेन वेगालङ्कांप्रत्यागमनम् ॥ ५ ॥ पर्वतपाणौहनुमति संनिकृष्टमात्रेणदिव्यौषधिगन्धाघ्राणनमात्रेणराघवाभ्यांसहविगतमोहै र्विशल्यैश्च वानरगणैस्तदोषधिगन्धमारुतसंस्पर्शमात्रेणसमुज्जीवितैर्हतपूर्ववानरैः सह हर्षासमु -द्धोषणम् ॥ ६ ॥ हनुमता […]

73 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकी आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः देवान्तकादिवधश्रवणेनविषीदतिदशानने तंप्रतीन्द्रजिता रामादिवधप्रतिज्ञानेनसमा -श्वासनपूर्वकं रथारोहणेनरणायनिर्याणम् ॥ १ ॥ तथा रणाङ्गणेहुतवहेहवनपूर्वकं रथारोहणेना -न्तरिक्षेऽन्तर्हितेनसता नानाप्रहरणगणैः कपिकुलशकलीकरणपूर्वकं ब्रह्मास्त्रप्रयोगेण सकलवानरवाहिन्यासहरामलक्ष्मणयोर्मोहप्रापणम् ॥ २ ॥   ततो हतान्राक्षसपुङ्गवांस्तान्देवान्त कादित्रिशिरोतिकायान् । रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ १ ॥ अथ ब्रह्मास्त्रबन्धस्त्रिसप्ततितमे – ततो हतानित्यादि ॥ १ ॥   ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं […]

72 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विसप्ततितमः सर्गः अतिकायनिधनश्रवणविषण्णेनरावणेन धूम्राक्षप्रभृतिबन्धुजनस्मरणेनतच्छोचनपूर्वकं राक्षसान्प्रतिविशेषतो नगरादिरक्षणनियोजनपूर्वकं भवनप्रवेशः ॥ १ ॥   अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ १ ॥ धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ २ ॥ एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ३ ॥ निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा […]

71 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः भ्रातृनिधनरुष्टे अतिकायेसेनामध्यप्रविष्टे तस्मिन्कुंभकर्णत्वभ्रमेण वानरेषुभयाद्विद्रव -माणेषु रामेण तद्रथायुधादिवर्णनपूर्वकं विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेनरामंप्रति विस्तरेणतत्पराक्रमादिनिवेदनम् ॥ २ ॥ अतिकायेनरामंप्रति गर्वोक्त्यायुद्धप्रार्थने लक्ष्मणेन तत्प्रतिरोधनम् ॥ ३ ॥ ततस्तयोर्वीरवादपुरस्सरंसमारंभः ॥ ४ ॥ लक्ष्मणेनास्त्रप्रत्यस्त्रप्रयोग -पूर्वकं निशिततरशरगणप्रयोगेपि ब्रह्मवरादभेद्यकवचएवसत्यतिकाये अन्तरिक्षेऽन्तर्हितवायु -वचनाद्ब्रह्मास्त्रेण तच्छिरश्छेदनम् ॥ ५ ॥   स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् । भ्रातृश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ […]

70 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः हनुमन्नीलाभ्यांक्रमेणदेवान्तकयुद्धोन्मत्तयोर्वधः ॥ १ ॥ त्रिशिरसामुष्ट्यभिहतेनहनुमता -तदीय खङ्गाक्षेपेणतच्छित्स्त्र्ययकर्तनम् ॥ २ ॥ ऋषभनाम्नावानरवरेणमत्तनाम्नोराक्षसस्य -वधः ॥ ३ ॥   नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥ पौलस्त्य इति त्रिमूर्धविशेषणं । न तु महोदरस्य । देवान्तकादयस्त्रयश्चुक्रुशुरिति संबन्धः […]

69 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः कुंभकर्णनिधनाकर्णनेनविषीदन्तंरावणंप्रति त्रिशिरोनाम्नातस्सुतेन रामादिवधप्रतिज्ञानेन -समाश्वासनपूर्वकमतिकायादिभिर्भ्रातृभिः सह रणायनिर्याणम् ॥ १ ॥ वानरकृतराक्षस -क्षपणरुष्टेन तुरगाधिष्ठितेननरान्तकेन वानरवाहिनीविध्वंसने सुग्रीवनियोगादङ्गदेन सतुरगनरान्तकहननम् ॥ २ ॥   एवं बिलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥ अथातिकायनिर्गमः – एवमित्यादि ॥ १ ॥ एवमेव महावीर्यो हतो नस्तातमध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ […]

68 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः कुंभकर्णश्रवणमात्रेण पतितमूच्छितेन रावणेन संज्ञाधिगमानन्तरं तंप्रतिशोचनपूर्वकं  बहुधा -विलापः ॥ १ ॥   कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥ कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः- कुम्भकर्णमित्यादि ॥ अत्र रावणायेत्यत्र यकारो गायत्र्या अष्टादशाक्षरं । सप्तदशसहस्रश्लोका गताः ॥ १ ॥   राजन्स कालसंकाशः संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां […]

67 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः कुंभकर्णे वानरसेनामध्येकेषांचिद्भक्षणेनकेषांचित्पाणितलाभिघातेन विक्षोभपूर्वकंसंच -रमाणे हनुमता शैलशृङ्गेणतत्ताडनम् ॥ १ ॥ तत्प्रहारक्षुभितेनकुंभकर्णेन हनुमतोवक्षसि शूलाभिघातेनविह्वलताप्रापणपूर्वकं नीलादिभिरायोधनम् ॥ २ ॥ तेषु कुंभकर्णपीडामसहमानेष्वङ्गदेन गिरिशिखरेणकुंभकर्णशिरस्ताडनम् ॥ ३ ॥ तेन मुष्टिघातेनाङ्गदस्यमोहप्रापणपूर्वकंसुग्रीवंप्रत्यभियानम् ॥ ४ ॥ सुग्रीवेण शैलशृङ्गताडितेन कुंभकर्णेन तद्वधायशूलेसमुत्सृष्टे हनुमता तच्छूलस्यनिजजानुस मारोपणेनभञ्जनम् ॥ ५ ॥ कुंभकर्णेन स्वपातितशैलशृङ्गप्रहारेणपतितमूर्च्छितस्यसुग्रीवस्यग्रहणेन लङ्काप्रवेशः ॥ ६ ॥ लङ्काजनैः कुंभकर्णोपरिहर्षेणपुष्पगन्धोदादिवर्षणे तत्सेकेनप्रबुद्धाप्यायितेनसुग्रीवेण खरनखरकराग्रैर्दन्तैश्च कुंभकर्णकर्णनासच्छेदनपूर्वक वियतिसमुत्पतनेन […]

66 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥   स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥ अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥   स ननाद महानादं समुद्रमभिनादयन् । जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.