53 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः सीताशोकेनदिनचतुष्टयंराज्यकार्याकरणेनदूयतारामेण लक्ष्मणंप्रति राज्यकार्याविमन -स्यानर्थहेतुत्वेदृष्टान्ततया नृगोपाख्याननिवेदनपूर्वकं कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥ लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ १ ॥ दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥ यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥ चत्वारो दिवसाः […]
52 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः सुमन्त्रेणसहकेशिन्यांरात्रियापनेन प्रभातेअयोध्यामागतेनलक्ष्मणेन श्रीरामे सप्रणामं -वाल्मीक्याश्रमेसीता विसर्जन निवेदनपूर्वकं रामसमाश्वासनम् ॥ १ ॥ तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥ ततोर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ॥ २ ॥ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ […]
51 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशःसर्गः चातुर्मास्यनियमनिर्वर्तनायवसिष्ठाश्रमवासिनिसतिदुर्वाससि दशरथेनतंप्रति रामादि -संबन्धिभविष्यद्वृत्तान्तनिवेदनप्रार्थने तेनसंप्रति रामस्यभृगुशापेनसीता वियोगस्यावश्यंभावि -त्वकथननिवेदनेन सुमन्त्रेणसौमित्रिसमाश्वासनम् ॥ १ ॥ तथा संचोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः । वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥ तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमत्स्वयम् ।। […]
50 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः सीताविसर्जनविषादेनरामंप्रतिशोचन्तंसौमित्रिंप्रति सुमन्त्रेण रामस्य सीताया भ्रातॄणांचविप्रयोगस्यावश्यंभावित्वस्य दशरथंप्रतिदुर्वाससा पूर्वमेवोक्तत्वनिवेदनेन परिसांत्वने लक्ष्मणेनतंप्रति विस्तरेणदुर्वासोवचनानुवदनचोदना ॥ १ ॥ दृष्ट्वा तु मैथिलीं सीतामाश्रमे संप्रवेशिताम् । संतापमगद्धोरं लक्ष्मणो दीनचेतनः ॥ १ ॥ अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ २ ॥ ततो दुःखतरं किंतु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ […]
49 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः मुनिकुमारकै: सीतारोदनादिकंनिवेदितेनवाल्मीकिना सत्वरंसीतासमीपमेत्य ससान्त्वनमर्थ्यादिनासंपूजन पूर्वकं तस्याः स्वाश्रमप्रापणेन तापसी:प्रति तत्परिरक्षणचोदना ॥ सीतां रुदन्तीं दृष्ट्वा तां तत्र वै मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ १ ॥ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥ अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव संमोहाद्विरौति विकृतानना ॥ ३ ॥ भगवन्साधु पश्यं […]
48 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टचत्वारिंशः सर्गः लक्ष्मणमुखाद्राम नियोगश्रवणमात्रेणपतितमूर्च्छितयासीतया क्रमेणसंज्ञाधिगमेन लक्ष्मणंप्रति रामायसप्रणामं स्वसंदेशनिवेदनचोदना ॥ १ ॥ लक्ष्मणे सप्रणामसान्त्वनं सीतात्यागपूर्वकंनौकारोहणेन गङ्गोत्तरतीरमेत्य रथारोहणेनदृष्टिपथमतिकान्ते सीतयाशोका -दुच्चैरोदनम् ॥ २ ॥ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात है ॥ १ ॥ सा मुहूर्तमिवासंज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ २ ॥ बाष्पव्याकुलितेक्षणेत्यनेन पुनः संज्ञाप्राप्तिः सूचिता […]
47 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तचत्वारिंशः सर्गः लक्ष्मणेन सीतायानौकारोपणेन गङ्गोत्तरतीरस्थवाल्मीक्याश्रमसमीपप्रापणेन तस्यांसशोकंरामनियोगनिवेदनम् ॥ १ ॥ अथ नावं सुविस्तीर्णां नैपादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥ निषादस्य गुहस्येयं नैषादी तां । समायुक्तां सज्जीकृतां ॥ १ ॥ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥ स्थीयतामिति । गङ्गातीर एवेति शेषः […]
46 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः लक्ष्मणेन सीतांप्रति वननयनायरामेतत्प्रार्थनास्मारणेन वनगमनायसज्जीभवनचोदना ।। १ ।। सीतया हर्षान्मुनिपत्नीभ्योदित्सया नानावसनाभरणाद्यादानेनसुमन्त्रानीतरथारोहणम् ॥ २ ॥ लक्ष्मणेन सीतासुमन्त्राभ्यांसहगङ्गातीरमेत्य नाविकान्प्रतिनौकानयनचोदना ॥ ३ ॥ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥ सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥ स्वास्तीर्णमिति । सीतायाश्च शुभमासनं राजभवनादानीय स्वास्तीर्णं रथं […]
45 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः रामेण भ्रातृषुसीताविषयकलोकापवादनिवेदनेनलक्ष्मणप्रति स्वंप्रतिसीतायाः स्वस्यमुन्याश्रमनयनप्रार्थनानिवेदनपूर्वकं परेद्युः प्रभातेगङ्गातीरस्थवाल्मीक्याश्रमसमीपे सीताविसर्जनचोदना ॥ १ ॥ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्यो मुखेन परिशुष्यता ॥ १ ॥ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥ मा कुरुध्वं मनोन्यथा । मदभिप्रायाननुकूलं मा कुरुध्वमित्यर्थः । तमेवाभिप्रायमा […]
44 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः रामेण सभायां सर्वजनविसर्जनपूर्वकं भ्रातृषुपौरापवादनिवेदनेच्छया दूतंप्रति तदानयनचोदना ॥ १ ॥ दूताहूतैर्लक्ष्मणादिभिः सत्वरंरामसमीपमेत्य तन्मुखवैवर्ण्यनिर्वर्णनेन -विषण्णतया समणाममुपवेशनम् ॥ २ ॥ विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वास्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ २ ॥ रामस्य वचनं श्रुत्वा द्वास्थो मूर्ध्नि कृताञ्जलिः । […]