21 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः रामेण समुद्रप्रसादनायतत्तीरेसमास्तृतदर्भेषु निजभुजोपधानेननियमाच्छयनम् ॥ १॥ रामे दिवसत्रयमनवारतंकुशशयनेशयानेपि समुद्रेस्वशरीरमदर्शयति कोपाद्रामेण लक्ष्मणकराद्धनुरानयनेनकतिपयशरप्रक्षेपेण जलधिजलविक्षोभपूर्वकंजलधिजिघांसया शरान्तरसन्धानायधनुराकर्पणे लक्ष्मणेन सप्रतिषेधनंधनुरालंबनम् ॥ २ ॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः ।अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।बाहुं भुजङ्गभोगाभमुपधायारिसूदनः ।। १ ।।            एवं प्रासङ्गिकं परिसमाप्य एकान्तरितपूर्वसर्गान्तोदितकथाशेषमुपक्षिपति-तत इत्यादि सार्धश्लोक एकान्वयः ॥ ततः शुकमोक्षणानन्तरं । सागरवेलायां शर्कराप्रचुरायां । दर्भान् शिताग्रकुशान् । आस्तीर्य […]

20 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः रावणचोदनयासागरोत्तरतीरमेत्य रामादिवृत्तान्तावगमनपूर्वकं लङ्कांपुनरागते नशार्दूलनाम्नाचारेणशवणे रामवृत्तान्तनिवेदनम् ॥ १ ॥ रावणप्रेषितेनपक्षिरूपधारिणाशुकनाम्नाराक्षसते नान्तरिक्षस्थेनैवसता सुग्रावे रावणसंदेशनिवेदनम् ॥ २ ॥ गगन मुद्गत्तैर्वानरैर्भूप्रापणपूर्वकंपीडितेनशुकेन स्वप्रार्थित रामनियोगात्तैर्विमोक्षणे पुनरन्तरिक्षमेत्यसुग्रीवंप्रति संदेशप्रार्थनम् ॥ ३ ॥ शुकंप्रतिसुग्रीवेणरावणे रामापराधात्पुत्रमित्रादिभिस्सहमारणप्रतिज्ञानरूपप्रतिसंदेश निवेदनचोदना ॥ ४ ॥ अङ्गदेन शुकेदूतत्व निषेधेनचारत्वसमर्थने वानरैः पुनर्ग्रहणेनबन्धनपूर्वकं तत्पीडनम् ॥५॥ शुकप्रार्थितेनरामेण तेभ्यस्तनिवारणम् ॥ ६॥ ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम […]

19 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः विभीषणेन मन्त्रिभिः सहगगनादवतीर्य श्रीरामचरणप्रणामपूर्वकं तंप्रति स्ववृत्तान्तनिषेदनेनस हस्वशरणागतिनिवेदनम् ॥ १ ॥ विभीषणेन रामचोदनयातंप्रतिरावण -कुंभकर्णादिपराक्रम निवेदनपूर्वकं यथाशक्तियुद्ध साहाय्यकरणप्रतिज्ञानम् ॥ २ ॥ रामेण विभीषणपरिष्वङ्ग पूर्वकंतस्य लक्ष्मणकरेणलङ्काराज्येऽभिषेचनम् ॥ ३ ॥ हनुमत्सुग्रीवाभ्यांसागरतरणोपायंपृष्टेनविभीषणेन तौप्रति रामेणसमुद्रंप्रतिशरणागतिकरणोक्तिः ॥ ४ ॥ रामेण लक्ष्मणसुग्रीवाद्यनुमत्यासमुद्रोपासनाय तत्तीरेसमास्तृतकुशोपरिशयनम् ॥ ५ ॥ राघवेणाभये दत्ते सन्नता रावणानुजः । विभीषणो महाप्राज्ञो भूमिं समवलोकयन् । खात्पपातावनीं […]

18 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः रामेणसुग्रीवंप्रति विभीषणस्यमित्र भावेनप्राप्तत्वरूपहेतुना त्यागानर्हत्वोक्तौ सुग्रीवेणतंप्रतिसप्रणामंतस्मिन्दोषोद्भावनेन प्रिहप्रार्थना ॥ १ ॥ रामेणतंप्रति विभीषणस्य निर्दोषत्वसमर्थनपूर्वकं शरणागतरक्षणस्यावश्यंकर्तव्यत्वे कपोतोपाख्यानस्यदृष्टान्तीकरणेनसह कण्डुमुनिवचनस्यप्रमाणीकरणेन शत्रुत्वेपिशरणागतरक्षणस्य स्वव्रतत्वोत्या तस्माअभयप्रदानोक्तिपूर्वकं तदानयनचोदना ॥ २ ॥ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ।। १ ।। एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभिमतमपि रामो वक्तुं प्रारभते – अथेति ॥ वायुसुतस्य वचनमिति […]

17 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशः सर्गः मन्त्रिचतुष्टयेनसहगगनेऽभ्यागच्छन्तंगदापाणिविभीषणंदृष्टवतासुग्रीवेण हनुमदादीन्प्रति तत्प्रदर्शनपूर्वकं तदागमनस्यरामादिहननेच्छामूलकत्वोक्तिः ॥ १ ॥ सागरोत्तरतीरमागतवता -विभीषणेन सुग्रीवादीन्प्रति स्ववृत्तान्तनिवेदनेन सह स्वागमननिदा ननिवेदनपूर्वकं श्रीरामेतन्निवेदनप्रार्थना ॥ २ ॥ सुग्रीवेणरामंप्रति तन्निवेदनपूर्वकंविभीषणेदोष निर्धारणेन तस्यवधार्हत्वोक्तिः ॥ ३ ॥ रामेणविभीषणस्वीकरणे स्वस्वाभिप्राय निवेदनं चोदितैरङ्गदादिभिर्विभीषणेदोषसंभावनया परीक्षामन्तराग्रहणनिषेधे हनुमताऽङ्गदादिपक्ष -प्रतिक्षेपपूर्वकं तस्यनिर्दोषत्व निर्धारणेनग्राह्यत्वोक्तिः ॥ ४ ॥ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ […]

16 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः रावणेन विभीषणप्रतिसगर्हणंभ्रातृत्वाभावेवधार्हत्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदा पाणिनासतासचिवचतुष्टयेनसहगगनोत्पतनेनरावणंप्रतिशोचन पूर्वकंरामसमीपगमनम् ॥ २ ॥   सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् । अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥ १ ॥ इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परुषभाषणं षोडशे-सुनिविष्टमिति ।। सुसन्निवेशं अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं । तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन मनस्यलग्नं […]

15 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः इन्द्रजिता विभीषणभाषणाधिक्षेपेणस्वात्मश्लाघनपूर्वकं कैमुत्येनरामपराजयस्य सुशकत्वोक्तिः ॥ १ ॥ विभीषणेन तद्गर्हणपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥   बृहस्पतेस्तुल्यमतेर्वचस्त न्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनम् बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः ॥ १ ॥ अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति- बृहस्पतेरिति ॥ ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु यत्नेन निशम्य । असह्यतयेति भावः ॥ १ ॥   किम् नाम […]

14 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः विभीषणेन रावणंप्रति कुंभकर्णादीनां युधिरामाग्रेऽवस्थानस्यापिदुश्शकत्वोक्तिपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ निशाचरेन्द्रस्य निशम्य वाक्यम् स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्य मुवाच वाक्यम् हितमर्थयुक्तम् ॥ १ ॥ एवं दुर्मन्त्रिभिः प्रभुचित्तानुसारेण कथिते तदसहमानो विभीषणः परमार्थं हितमुपदिशति-निशेति ॥ स कुम्भकर्णस्येत्यत्र स इति च्छेदः । गर्जितानि निरर्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तं ॥ १ ॥   वृतो […]

13 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशः सर्गः महापार्थेन कुंभकर्णवचनाकर्णन कुपितरावणप्रहर्षणाय सदृष्टान्तोपन्यासं बलात्कारेणसीतोपभोगचोदना ॥ १ ॥ रावणेन सश्लाघंतंप्रति स्वकृत पुञ्जकस्थलीहठोपभोग लब्धब्रह्मशापस्यहठोपभोगप्रतिबन्धकस्वनिवेदनपूर्वकं रामजयेकुंभकर्णादिनियोजनसूचकत द्वचनोत्तरतयास्वपराक्रमवर्णन पूर्वक मितरनैरपेक्ष्येण स्वस्यरामादिपराजयसामर्थ्योक्तिः ॥ २ ॥ रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्त मनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥ अथ रावणस्य दुर्मन्त्रिमतानुसारित्वमाह-रावण- मित्यादि ॥ क्रुद्धं कुम्भकर्णोक्तनयापरिज्ञानवचनेनेत्यर्थः । मुहूर्तमनुसंचिन्त्य रावणक्रोधनिवारणोपायं विचार्येत्यर्थः ॥ १ ॥   यः खल्वपि […]

12 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः कुंभकर्णादिषुसभामागतेषु रावणेन प्रहस्तंप्रति विशेषतोनगररक्षाचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनसह रामस्य सेनाभिः सहसागरतीरागमन निवेदनपूर्वकं तद्वधोचितमन्त्रकरणचोदना ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणप्रति सुहृद्भिः सहमन्त्र पूर्वकं सीताहरणस्य कर्तव्यस्वोक्त्या तद्वैपरीत्यस्यानौचित्योक्ति पूर्वकं दर्पाद्रामवधप्रतिज्ञानेनसमाश्वासनम् ॥ ३ ॥ स तां परिषदं कृत्स्नाम् समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.