16 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः रावणेन विभीषणप्रतिसगर्हणंभ्रातृत्वाभावेवधार्हत्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदा पाणिनासतासचिवचतुष्टयेनसहगगनोत्पतनेनरावणंप्रतिशोचन पूर्वकंरामसमीपगमनम् ॥ २ ॥   सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् । अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥ १ ॥ इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परुषभाषणं षोडशे-सुनिविष्टमिति ।। सुसन्निवेशं अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं । तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन मनस्यलग्नं […]

15 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः इन्द्रजिता विभीषणभाषणाधिक्षेपेणस्वात्मश्लाघनपूर्वकं कैमुत्येनरामपराजयस्य सुशकत्वोक्तिः ॥ १ ॥ विभीषणेन तद्गर्हणपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥   बृहस्पतेस्तुल्यमतेर्वचस्त न्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनम् बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः ॥ १ ॥ अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति- बृहस्पतेरिति ॥ ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु यत्नेन निशम्य । असह्यतयेति भावः ॥ १ ॥   किम् नाम […]

14 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः विभीषणेन रावणंप्रति कुंभकर्णादीनां युधिरामाग्रेऽवस्थानस्यापिदुश्शकत्वोक्तिपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ निशाचरेन्द्रस्य निशम्य वाक्यम् स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्य मुवाच वाक्यम् हितमर्थयुक्तम् ॥ १ ॥ एवं दुर्मन्त्रिभिः प्रभुचित्तानुसारेण कथिते तदसहमानो विभीषणः परमार्थं हितमुपदिशति-निशेति ॥ स कुम्भकर्णस्येत्यत्र स इति च्छेदः । गर्जितानि निरर्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तं ॥ १ ॥   वृतो […]

13 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशः सर्गः महापार्थेन कुंभकर्णवचनाकर्णन कुपितरावणप्रहर्षणाय सदृष्टान्तोपन्यासं बलात्कारेणसीतोपभोगचोदना ॥ १ ॥ रावणेन सश्लाघंतंप्रति स्वकृत पुञ्जकस्थलीहठोपभोग लब्धब्रह्मशापस्यहठोपभोगप्रतिबन्धकस्वनिवेदनपूर्वकं रामजयेकुंभकर्णादिनियोजनसूचकत द्वचनोत्तरतयास्वपराक्रमवर्णन पूर्वक मितरनैरपेक्ष्येण स्वस्यरामादिपराजयसामर्थ्योक्तिः ॥ २ ॥ रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्त मनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥ अथ रावणस्य दुर्मन्त्रिमतानुसारित्वमाह-रावण- मित्यादि ॥ क्रुद्धं कुम्भकर्णोक्तनयापरिज्ञानवचनेनेत्यर्थः । मुहूर्तमनुसंचिन्त्य रावणक्रोधनिवारणोपायं विचार्येत्यर्थः ॥ १ ॥   यः खल्वपि […]

12 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः कुंभकर्णादिषुसभामागतेषु रावणेन प्रहस्तंप्रति विशेषतोनगररक्षाचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनसह रामस्य सेनाभिः सहसागरतीरागमन निवेदनपूर्वकं तद्वधोचितमन्त्रकरणचोदना ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणप्रति सुहृद्भिः सहमन्त्र पूर्वकं सीताहरणस्य कर्तव्यस्वोक्त्या तद्वैपरीत्यस्यानौचित्योक्ति पूर्वकं दर्पाद्रामवधप्रतिज्ञानेनसमाश्वासनम् ॥ ३ ॥ स तां परिषदं कृत्स्नाम् समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः […]

11 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः रावणेन मन्त्रकरणाय सभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूता हूतैराक्षसैर्नानायानैरावण सभाप्रवेशः ॥ २ ॥ रथारोहणेनसभामागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥   स बभुव कृशो राजा मैथिलीकाममोहितः । असंमानाच्च सुहृदां पापः पापेन कर्मणाः ॥ १ ॥ अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य रावणस्य निर्णयहेतुमन्त्रकरणाय सभाप्राप्तिं दर्शयति —स बभूवेत्यादि ॥ पापः पापी । गुणवचनेभ्यो मतुपो लुगिष्ट: […]

10 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः विभीषणेन रावणगृहमेत्यतंप्रति सीतानयनकालप्रभृतिलङ्कायामनर्थसूचकदुर्निमित्त -प्रादुर्भावनिवेदनपूर्वकं तत्प्रायश्चित्त त्वेन रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ रावणेन विभीषणंप्रति रामस्यालक्ष्यत्वोक्त्या तद्वचनानादरणेनगृहंप्रति तद्विसर्जनम् ॥ २ ॥ ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥ शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २ ॥ मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम् ॥ ३ ॥ मत्तमातङ्गनिश्वासैर्व्याकुलीकृतमारुतम् ॥ शङ्खघोषमहाघोषं तूर्यनादानुनादितम् […]

09 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनसायुधग्रहणंसरभससमुत्थित निकुंभा दिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थ -प्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीषणादिसर्वजन विसर्जनपूर्वकं स्वगृहप्रतिगमनम् ॥ २ ॥ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । सुप्तघ्नो यज्ञहारक्षो महापार्श्वो महोदरः ।। १ ।। अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ।। २ ।। प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव […]

08 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः प्रहस्तादिभीरावणंप्रत्यास्मश्लाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।। १ ।। देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ।। २ ।। एवं मन्त्रिभिः सहसंमन्त्र्य भूयोभिहिते सकलसचिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति – तत इति ॥ १-२ ।।   सर्वे प्रमत्ता […]

07 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः राक्षसैरावणंप्रति कुबेरविजयादितदपादानप्रशंसनपूर्वकं रामस्यततोप्यल्पबलत्वोक्त्या कैमुत्येनतत्पराजयस्यसुकरत्वोक्तिः ॥ १ ॥ तथेन्द्रजिदपादानप्रशंसनपूर्वकं रामविजयाय -तन्नियोजनोक्त्त्या समाश्वासनम् ॥ २ ॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् । द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।। १ ।। एवं रावणवचनमाकर्ण्य अविदितरघुनाथप्रभावा । मदोद्धता राक्षसास्तद्बलवर्णनपूर्वकं रावणं प्रशंसन्ति – इत्युक्ता इत्यादिना । सार्धश्लोक एकान्वयः । द्विषत्पक्षं द्विषद्बलं । पक्षो […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.