06 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः रावणेन मन्त्रिणः प्रति हनुमत्कृतलकादहनादिदुष्करकर्मानुवाद पूर्वकं सैन्यैस्सहरा -मागमन -संभावनया तत्प्रतीकाराय मन्त्रिनियोजनम् ॥ १ ॥ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ।। १ ।। एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकालानन्तरकालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं […]

05 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः समुद्रवेलावलोकनाद्युद्दीपकसमुद्दीपित विरहशोकेनरामेण लक्ष्मणप्रति सीतामुद्दिश्य -सपरिशोचनंबहुधाविलापः ॥ १ ॥ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥ सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ।। १ ।। एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा हत्वादयः शरण्यत्वौपयिका रामगुणा दर्शिताः । अथ रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमारभते – सा त्विति ॥ स्वारक्षा आसमन्ताद्रक्षन्तीत्यारक्षा: शोभना: आरक्षाः […]

04 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानर सैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदारूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेण सर्वतः सेनारक्षण- पूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचक -शुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यति -क्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्र -वेलावनमुपगतेनरामेणसुग्रीवं प्रतिसेनासंनिवेशन नियोजनपूर्वकं -सागरतरणोपाय निर्धारणायमन्त्रचोदना ॥ ५ ॥ श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १ ।। एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता […]

03 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः श्रीरामेणहनुमन्तंप्रति स्वस्यसेतुबन्धाद्यन्यतमोपायेनवानराणांसागरतारणसामर्थ्योक्ति -पूर्वकं लङ्कायादुर्गादिभिः परिरक्षणप्रकारप्रश्नः ॥ १॥ हनुमता तंप्रति विस्तरेणतत्प्रकारनिवेदनेन सहस्वकृतसंक्रमादि विध्वंसन निवेदनपूर्वकं स्वस्याङ्गदादिकतिपय वीरसाहित्येन बाहुप्लवनेनैव लङ्कागमनपूर्वकं सर्वराक्षसविध्वंसनशक्तिनिवेदनेन तदर्थमाज्ञाप्रार्थनम् ॥ २ ॥ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १ ॥ एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन शोकापन्नोपि सुहृदुपदेशेन प्रतिष्ठापितधैर्यो रामः नीतिशास्त्रानुसारेण संहार्यशत्रुदुर्गस्वरूपशोधनाय पृच्छति — सुग्रीवस्येत्यादिना ॥ सारग्राहित्वमाह – – […]

02 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः सुग्रीवेणरामंप्रति समाश्वासनपूर्वकंमध्ये समुद्रं सेतुबन्धनिर्धारण पूर्वकंतदुपायचिन्तन -प्रार्थना ॥ १ ॥ तथातंप्रति वानरपराक्रमादिप्रशंसनपूर्वकं शुभशकुन निवेदनेनशत्रुजय -निर्धारणोक्तिः ॥ २ ॥ तं तु शोकपरिद्यूनम् रामम् दशरथात्मजम् । उवाच वचनम् श्रीमान् सुग्रीवः शोकनाशनम् ॥ १ ॥ एवं शोकसंभ्रान्तं राममवलोक्य समदुःखतया सच्छोकमसहमानः सुग्रीव : आपद्युन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोपि हितान्वेषी ब्रूयात्कल्याणभाषितं इति नीतिशास्त्रमनुस्मरन् शोकनिवारकंवचनमुवाचेत्याह- तंत्विति […]

01 Sarga युद्धकाण्डः

।। श्रीः ।। श्रीमद्वाल्मीकियरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् श्रीरामचन्द्राय नमः ॥ युद्धकाण्डः॥ श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः हनुमन्मुखादवगतसीतावृत्तान्तेनश्रीरामेणहनुमन्तंप्रतिप्रशंसनपूर्वकं तस्कृतसीतान्वेषणा -युपकारप्रत्युपकारतयासर्वस्वदानप्रतिनिधिभूत स्वात्मप्रदानरूपपरिष्वङ्ग करणम् ॥ १ ॥ तथा सुग्रीवसंनिधौहनुमन्तंप्रति सागरस्यदुस्तरतयासीताम्वेषणा दिप्रयासस्यनिष्फलत्योत्त्या सागरतरणोपायानधिगमेनपरिचिन्तनम् ॥ २ ॥ श्रुत्वा हनुमतो वाक्यम् यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥ श्रीरामचन्द्राय नमः ॥ आचार्यं शठकोपदेशिकवरं प्राचार्यपारंपरीमप्यानम्य सनारदं कुशलवाचार्यं । मुनीनां वरम् । पूर्वाचार्यकृता […]

68 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः । तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। 5.68.1 ।। एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। 5.68.2 ।। अथेत्यादि । हे नरव्याघ्र तव स्नेहात्, मयीति शेषः । सौहार्दात् सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्यान्य । उत्तरं ततः परम् उत्तरं कार्यं […]

67 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः एवमुक्तस्तु हनुमान् राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ।। 5.67.1 ।। इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। 5.67.2 ।। एवमित्यादि ।। 5.67.1,2 ।। सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। 5.67.3 ।। पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज । पुनश्च किल […]

66 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। 5.66.1 ।। तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। 5.66.2 ।। एवमित्यादि ।। 5.66.1,2 ।। यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला । तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। 5.66.3 ।। यथा वत्सला वत्से स्नेहवती धेनुः […]

65 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। 5.65.1 ।। तत इति ।। 5.65.1 ।। युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। 5.65.2 ।। प्रवृत्तिं वार्ताभ् ।। 5.65.2 ।। रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागं च यश्चायं समयः कृतः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.