116 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशोत्तरशततमः सर्गः हनुमताऽशोकवनमेत्यसीतांप्रति रामसंदेशनिवेदनपूर्वकं कृतागसांराक्षसीनां हिंसनाभ्यनुज्ञानप्रार्थना ॥ १ ॥ सीतया तदागसां परप्रयोज्यत्वाभिधानेन ऋक्षप्रोक्तश्लोका -नुवादेनचक्षमाप्रशंसनपूर्वकं तन्निषेधनम् ॥ २ ॥ सीतया स्वस्यरामावलोकनाभिलाषं निवेदितेनहनुमता तत्समाश्वासनपूर्वकं पुनारामसमीपगमनम् ॥ ३ ॥   इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥ [प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् । ततस्तेनाभ्यनुज्ञातो हनुमान्वृक्षवाटिकाम् ॥ संप्रविश्य यथान्यायं सीताया […]

115 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः लक्ष्मणेन रामाज्ञया विभीषणस्यलङ्काराज्येऽभिषेचनम् ॥ १ ॥ रामेण मैथिलींप्रति निजविजयकुशलनिवेदनाय हनुमत्प्रेषणम् ॥ २ ॥   ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः । जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥ अथ विभीषणाभिषेकः – ते रावणवधमित्यादि ॥ अत्र क्रियाभेदात्तच्छब्दद्वयं ॥ १ ॥   रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां च सुग्रीवस्य […]

114 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः मण्डोदर्या रणाङ्गणेरावणानुशोचनपूर्वकं शोकेनबहुधाविलापः ॥ १ ॥ विभीषणेन रामाज्ञया यथाविधिरावणसंस्करणम् ॥ २ ॥   तासां विलपमानानां तथा राक्षसयोषिताम् । ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥ अथ मण्डोदरीप्रलापादि- तासामित्यादि ॥ विलपमानानां विलपन्तीनां । तथा विलपमानानामित्यन्वयः । दीना सती समुदैक्षत ॥ १ ॥   दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । […]

113 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः रावणान्तः पुराङ्गनाभीरणाङ्गणमेत्य तदङ्गपरिष्वङ्गेणबहुधाविलापः ॥ १ ॥   रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥ वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥ २ ॥ अथ रावणान्तः पुरस्त्रीविलापःरावणमित्यादिश्लोकद्वयमेकान्वयं ॥ वत्सहताः हृतवत्साः ॥ १-२ ॥   उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः । प्रविश्यायोधनं […]

112 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः दुःखाद्रावणंप्रतिशोचनपूर्वकं विलपन्तंविभीषणंप्रति रामेणसमाश्वासनपूर्वकं रावणस्यौर्ध्वदैहिककरणाभ्यनुज्ञानम् ॥ १ ॥   भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ ॥ अथ भ्रातृवधदर्शनेन हठात्प्रवृत्तं प्रकृतिसंबन्धकृतं शोकं सोढुमशक्नुवन्विभीषणो विलपति – भ्रातरमित्यादि  शयानं शयानमिव स्थितं । शोकवेगपरीतात्मा शोकवेगेन परीतमनस्क: । वेगशब्देन हठकृतः शोक इति द्योत्यते ।। १ ।।   वीर विक्रान्तविख्यात विनीत […]

111 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः रावणस्य पूर्वपूर्वस्मिन्शिरसिछिन्नेछिन्नेपि पुनः पुनः शिरोन्तरप्ररोहेसति मातलिसमु -द्बोधितेन रामेण ब्रह्मास्त्रेण रावणहृदयविभेदनम् ॥ १ ॥ रावणेहते हर्षादिन्द्रादिभी रामरथोपरिपुष्पवर्षणम् ॥ २ ॥ सुग्रीव विभीषणादिभिर्हर्षाच्छ्रीरामाभिपूजनम् ॥ ३ ॥   अथ संस्मारयामास राघवं मातलिस्तदा । अजानन्निव किं वीर त्वमेनमनुवर्तते ॥ १ ॥ विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो । विनाशकालः कथितो यः सुरैः सोद्य वर्तते […]

110 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः रामेण रावणस्यैकैकशिरश्छेदे पुनः पुनः शिरोन्तरप्ररोहे एकोत्तरशतवारं तावच्छिरसांछेदनम् ॥ १ ॥   तौ तदा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥ अथ रावणशिरश्छेदः – तौ तदेत्यादि ॥ समरे युद्धभूमौ । तदा उत्पातकाले । अन्तरात्मना अन्तःकरणेन उपलक्षितानि ॥ १ ॥   अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । […]

109 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः रामरावणयोः समसमरः ॥ १ ॥   ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥ द्वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति योजना ॥ १ ॥   ततो राक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतमहरणं निश्रेष्टं समतिष्ठत ॥ २ ॥ निश्चेष्टं समतिष्ठत । युद्धाद्भुतदर्शनकुतूहलादिति भावः ॥ २ ॥ […]

108 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः स्वाभिमुख समागच्छद्दशमुखरथावलोकिनादाशरथिना चोदितेनमातलिना दशमुख -मुखाभिमुखतया निजरथचोदना ॥ १ ॥ ततोनिजसमरसमालोकनकुतूहलेन गगनाङ्गणमलं -कुर्वाणेसुरमुख सुजनगणे निजविजयपरपराजयसूचकनिमित्तोदयदर्शिना दाशरथिना हर्षेणसमरोद्यमनम् ॥ २ ॥   स रथं सारथिर्हृष्टः परसैन्यप्रधर्पणम् । गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ १ ॥ युक्तं परमसंपन्नैर्वाजिभिर्हेममालिभिः । युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ २ ॥ ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ॥ […]

107 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः अगस्त्यर्षिणा श्रीरामायरावणवध सौकर्यायादित्यहृदयस्तोत्रोपदेशः ॥ १ ॥ श्रीराम -कृतादित्यहृदयजपतुष्टेनसूर्येण तंप्रति रावणवधत्वरणम् ॥ २ ॥ आदित्यहृदयप्रारम्भः ॥   ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥ अथादित्यहृदयोपदेशः ॥ ततो युद्धपरिश्रान्तमित्यादिश्लोकद्वयमेकान्वयं ॥ रणं द्रष्टुं दैवतैः समागम्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.