37 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः सुग्रीवादिभिः सहमन्त्रयमाणंश्रीरामंप्रति विभीषणेन लङ्कामेत्यरावणवृत्तान्ता -वगमेनपुनरागतनिजामात्यनिवेदितरावणकृतङ्कारक्षणसंविधानप्रकारनिवेदनम् ॥ १ ॥ रामेण लङ्कायाः प्रागादिद्वारत्रये क्रमेणयुद्धाय नीलाङ्गदहनुमन्नियोजनपूर्वकं स्वेनरावणाधिष्ठितो -त्तरभागेलक्ष्मणेनसहावस्थान निर्धारणेन सेनयासहलङ्काभियानम् ॥ २ ॥ नरवानरराजौ तौ स च वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ।। १ ।। अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ।। २ ।। गजो […]

36 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः रावणेनात्मश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभंमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मन्त्रिभिस्सहमन्त्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ।। १ ।। अथ लङ्कागुप्तिकरणं षट्त्रिंशे – तत्विति ॥ हितमुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नामर्षयत् ॥ १ ॥   स बद्ध्वा भ्रुकुटिं […]

35 Sarga युद्धकाण्डः

अथ पञ्चत्रिशः सर्गः ।। ३५ ।। रामसेनारणभेरीशङ्खरवश्रवणखिन्नेनरावणेन सभायांमन्त्रिणःप्रति तदानीमपितेषा मौदासीन्यस्यानौचित्योक्त्यागर्हणम् ॥ १ ॥ माल्यवतारावणंप्रति शास्त्रोदितनीतिप्रदर्शनपूर्वकं विपत्सूचकापशकुननिवेदनेन रामेणसंधानविधानम् ॥ २ ॥   तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।उपयाति महाबाहू रामः परपुरञ्जयः ।। १ ।। अथ माल्यवदुपदेशः पञ्चत्रिंशे–तेनेति ॥ शङ्खविमिश्रेण शङ्खशब्दविमिश्रेण । उपयाति उपाययौ ।। १ ॥   तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ।। २ […]

34 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः सरमयासीतांप्रति रामे स्वेनसंदेशप्रापणप्रार्थने सीतयातस्यानौचित्यबुद्ध्या स्वविषयेरावणाध्यवसायावगतयेतत्प्रेषणं ॥ १ ॥ रावणाध्यवसायाधिगमेन पुनरागतयासरमया सीतांप्रति रावणमात्राऽविन्ध्यनाम्नामंत्रिणाचतंप्रति बहुधारामायसीताप्रत्यर्पणचोदनेपि तस्य तदनर्पणेदृढाध्यवसायनिवेदनम् ॥ २ ॥ तथा रामेण रावणहननपूर्वकमयोध्यांप्रतितदानयन -निवेदने तन्त्रोपश्रुतितयावानरसेनासंनाहभेरीशङ्खरवप्रादुर्भावः ॥ ३॥ अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ।। १ ।। अथ सरमया रावणाशयपरिज्ञानं चतुत्रिंशे–अथ तामित्यादि । अथेति प्रथमश्लोकेन पूर्वसर्गोक्तानुवादः । […]

33 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः माया कल्पितशिरोदर्शनेनदूयमानांसीतांप्रति विभीषणभार्ययासरमया हेतूपन्यासेनसमाश्वासनम् ॥ १ ॥ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाथ वैदेहीं प्रियां प्रणयिनी सखी ।। १ ।। मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ।। २ ।। अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे सीतामिति ॥ मोहितां रामविषयविपरीतज्ञानवतीं । सरमा विभीषणभार्या । प्रणयिनीं […]

32 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः सीतया मायानिर्मितशिरसि सादृश्याद्रामशिरस्त्वप्रत्यभिज्ञानेन शोकाद्वहुधाविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहितदूतान्हानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेन सेनासंनाहनम् ॥ ३ ॥ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ।। १ ।। अथ सीताप्रलापो द्वात्रिंशे–सा सीतेत्यादिश्लोकत्रयमेकं वाक्यं ॥ हनुमता पूर्वं कथितं । सुग्रीवप्रतिसंसर्ग रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखाच्छ्रुत्वेतिशेषः । […]

31 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः रावणेनमन्त्रिमुखात्ससैन्यरामस्य सुवेलाचलागमनश्रवणान्मन्त्रिभिस्सहालोच्यकर्तव्य निर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिह्वेनमायानिर्मितरामशिरश्शरासनसदृश -शिरश्शरासनप्रदर्शनेन सीताविमोहनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।। अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व सर्गोक्तमनुवदति – तत इति ॥ स्पष्टः ॥ १ ॥   चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ।। […]

30 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः शार्दूलेनरायणप्रति निजबलेगरुडव्यूहरचनयारामस्वसु वेलाचल समीपेऽवस्थान निवेदनपूर्वकं प्रविष्टमात्रस्य स्वस्यविभीषणेन निवेदनेवानरैर्बलाद्ग्रहणेनसर्वतः संचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांच पृथक्पितृनामादिनिवेदनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।। अथ शार्दूलादिचारवचनं त्रिशे-तत इति ॥ सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेलस्य समीप इति पूर्वमुक्तत्वात् ॥ १ […]

29 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्सनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमाय शार्दूलादिचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानर सेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिष्टैः कृपयारामविमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥ शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् । समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ।। १ ।। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।। २ ।। [गजं गवाक्षं गवयं मैन्दं द्विविदमेव […]

28 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः शुकेनरावणंप्रति सारणानुक्तानांहनुमदादिवानरवीराणां रामलक्ष्मणादीनांच प्रभावादिप्रशंसनपूर्वकं पृथङ्गामनिर्देशन प्रदर्शनम् ॥ १ ॥ तथा लक्षकोढ्यादिसर्वसंख्यालक्षणकथनपूर्वकं वानरसेनासु तावसंख्या पर्याप्तिनिवेदनम् ॥ २ ॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ।। १ ।। एवं सारणेनोक्तं श्रुत्वाशुकस्तेन कार्त्स्न्येनानुक्ते: स्वयं तत्सर्वं दर्शयत्यष्टाविंशे सर्गे-सारणस्येति ॥ शुकः सारणस्य वचः श्रुत्वा तेन कार्त्स्न्येनानुक्तेः स्वयं तत्सर्वं बलं आदिश्य अङ्गुल्या […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.