[highlight_content]

34 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः

सरमयासीतांप्रति रामे स्वेनसंदेशप्रापणप्रार्थने सीतयातस्यानौचित्यबुद्ध्या स्वविषयेरावणाध्यवसायावगतयेतत्प्रेषणं ॥ १ ॥ रावणाध्यवसायाधिगमेन पुनरागतयासरमया सीतांप्रति रावणमात्राऽविन्ध्यनाम्नामंत्रिणाचतंप्रति बहुधारामायसीताप्रत्यर्पणचोदनेपि तस्य तदनर्पणेदृढाध्यवसायनिवेदनम् ॥ २ ॥ तथा रामेण रावणहननपूर्वकमयोध्यांप्रतितदानयन -निवेदने तन्त्रोपश्रुतितयावानरसेनासंनाहभेरीशङ्खरवप्रादुर्भावः ॥ ३॥

अथ तां जातसन्तापां तेन वाक्येन मोहिताम् ।
सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा
।। १ ।।

अथ सरमया रावणाशयपरिज्ञानं चतुत्रिंशे–अथ तामित्यादि । अथेति प्रथमश्लोकेन पूर्वसर्गोक्तानुवादः । तेन वाक्येन ह्रादयामासेत्यन्वयः । यद्वा तेन वाक्येन रावणवाक्येन ॥ १ ॥

 

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः ।
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी
।। २ ।।

सख्याः सीतायाः । सखी सरमा ।। २ ।।

 

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्
।। ३ ।।

कुशलं कुशलप्रतिपादकं । त्वद्वाक्यमित्यन्वयः । निवर्तितुमुत्सहेयं समर्थेत्यर्थः ॥ ३ ॥

 

न हि मे क्रममाणाया निरालम्बे विहायसि ।
समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा
।। ४ ।।

बहुदूरं कथं गन्तुमर्हसीत्यत्राह – न हीति ॥ क्रममाणायाः गच्छन्त्याः ॥ ४ ॥

 

एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ।
मधुरं श्लक्ष्णया वाचा पू
र्वं शोकाभिपन्नया ।। ५ ।।

मधुरं मधुरार्थकं । श्लेक्ष्णयेति वाङ्माधुर्योक्ति: । पूर्वं शोकाभिपन्नया संप्रति हृष्टयेत्यर्थः ॥ ५ ॥

 

समर्था गगनं गन्तुमपि वा त्वं रसातलम् ।
अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे
।। ६ ।।

संदेशमाहरिष्यामीति वदन्तीं सरमां प्रति न गन्तव्यमित्युक्ते सख्यहानिः रामं प्रति प्रेषणं तत्तस्य सदृशं भवेदिति स्थितायाः सीताया न युक्तं अतो व्याजेन निपुणं परिहरति – समर्थेति ॥ मदन्तरे मद्विषये । अन्यैरकर्तव्यं कर्तुमशक्यं कार्यं त्वया कर्तव्यं कर्तुं शक्यमित्यवगच्छामि । यद्वा मद्विषये ते कर्तव्यं अवश्यकरणीयं जानामीत्यर्थः ॥ ६ ॥

 

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ।
ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः
।। ७ ।।

रावणं गत्वा स किं करोतीति ज्ञातुमिच्छामि । त्वत्कर्तृकं रावणज्ञानमिच्छामीत्यर्थः ॥ ७ ॥

 

स हि मायाबलः क्रूरो रावणः शत्रुरावणः ।
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी
।। ८ ।।

तस्य ज्ञानस्य किं प्रयोजनमित्यत्राह – स हीति ॥ पीतमात्रा सद्यः पीता । वारुणी मद्यं ॥ ८ ॥

 

तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ।
राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः
।। ९ ।।

तर्जापयति तर्जनंकारयति । भर्त्सापयति भर्त्सनं कारयति । आत्वपुगागमावार्षौ । या राक्षस्यो मां रक्षन्ति ताभिस्तर्जापयतीति संबन्ध: । नासाग्रे अङ्गुलिन्यासनयन -भ्रामणदन्तदर्शनप्रभृतिमुखचेष्टाभिर्भीजननं तर्जनं । हनिष्यति दहिष्यतीत्यादि वाचा भीजननं भर्त्सनं ॥ ९ ॥

 

उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम ।
तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता
।। १० ।।

कुत उद्विग्नेत्यत्राह -तद्भयाश्चेति । कुतः शङ्कितेत्यत्राह–अशोकवनिकां गतेति ॥ १० ॥

 

यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् ।।
निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः
।। ११ ।।

तस्य रावणस्य । यदि नाम कथा यदि वार्तास्ति । यच्च तस्य निश्चितं अध्यवसाय इति यावत् । तत्सर्वं निवेदयेथाः । ततश्च मे परोनुग्रहः उपकारः । कृतः स्यात् । याहिनामेतिपाठः सम्यक् ॥ ११ ॥

 

सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी ।
उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्ल
बम् ।। १२ ।।

वल्गु सुन्दरं यथा तथा भाषितुं शीलमस्या अस्तीति वल्गुभाषिणी । बाष्पविक्लवं बाष्पव्याकुलं । वदनं स्पृशन्ती परिमृजन्ती ॥ १२ ॥

 

एष ते यद्यभिप्रायस्तदा गच्छामि जानकि ।
गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम्
।। १३ ।।

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ।
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः
।। १४ ।।

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः ।
पुनरेवागमत्क्षिप्रमशोकवनिकां तदा
।। १५ ।।

तदा गच्छामीतिपाठ: । गृह्य ज्ञात्वा । उपावृत्तां च पुनरागतामेव । पश्य तत्र सन्देहो नास्तीत्यर्थः ॥ १३ – १५ ॥

 

सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् ।
प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्
।। १६ ।।

स्वामेव आत्मानमेव । सरमामित्यर्थः । आत्मवाचिन: स्वशब्दस्य आबन्तत्वमार्षं । भ्रष्टपद्मां पद्मासनहीनामित्यर्थः ॥ १६ ॥

 

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् ।
परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्
।। १७ ।।

सुस्निग्धं स्नेहयुक्तं यथा तथा ॥ १७ ॥

 

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः ।
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
।। १८ ।।

सुखमासीनेत्यन्वयः ॥ १८ ॥

 

एवमुक्ता तु सरमा सीतया वेपमानया ।
कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः
।। १९ ।।

वेपमानया किंवा भयं वक्ष्यतीति कम्पमानया ॥ १९ ॥

 

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः ।
अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः
।। २० ।।

जनन्या कैकसीनाम्न्या । अविद्धेन अविद्धाख्येन मन्त्रिवृद्धेनच । राक्षसेन्द्रस्त्वन्मोक्षार्थं बृहद्वचनं बोधितः ।। २० ।।

 

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ।
निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्
।। २२ ।।

तदेव वचनं दर्शयति- दीयतामिति ।। जनस्थाने यदद्भुतं खरवधादिकं कृतं तदेव पर्याप्तं प्रमाणान्तरनिरपेक्षं । निदर्शनं दृष्टान्तः । करिष्यमाणस्य रामपराक्रमस्येति शेषः ॥ २१ ॥

 

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः ।
वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि
।। २२ ।।

तिष्ठतु रामः तद्भृत्यो हनुमानेव सर्वान्राक्षसा जेतुं समर्थ इत्याशयेन तत्पराक्रमं वर्णयति–लङ्घनमिति ॥ दर्शनं सीतादर्शनं । मानुष: मनुष्यसंबन्धी पुरुषः । कः कुर्यात् । तस्येदं इत्यण् । स्वदूतमुखेनानेककार्यकारी रामो देव एवेतिभावः ॥ २२ ॥

 

एवं स मन्त्रिवृद्धैश्चाविद्धेन बहु भाषितः ।
न त्वामुत्सहते मोक्तुम
र्थमर्थपरो यथा ।। २३ ।।

अविद्धेन तन्नान्ना । मन्त्रिवृद्धैरिति पूजायां बहुवचनं । बह्विति क्रियाविशेषणं ।। २३ ।।

 

नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि ।
सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते
।। २४ ।।

हि यस्मात्सामात्यस्य एष निश्चयो वर्तते इति तस्मात् युद्धे अमृतः सन् त्वां मोक्तुं नोत्सहतीति । इतिर्हेतौ इति निश्चय इत्यन्वय इत्येके । इति मन्य इत्यपरे । इह मैथिलीति केषुचित्पाठः ॥ २४ ॥

 

तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे
।
राक्षसानां च सर्वेषामात्मनश्च वधेन हि
।। २५ ।।

एतादृशाध्यवसायस्य किं निमित्तमित्यपेक्षायां मरणलोभ एवेत्याह – तदेषेत्यादिसार्धश्लोकः ॥ तत् तस्येत्यर्थः । राक्षसानामात्मनश्च वधेन अनिरस्त: अनिराकृतः । केवलभयास्त्वां मोक्तुं न शक्तः । नोत्सहत इत्यर्थः ॥ २५ ॥

 

निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः ।
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे
।। २६ ।।

कथं तर्हि मे निर्गमनमित्यत आह – निहत्येति ॥ एतत्सर्वं तव नेत्रसौभाग्यलक्षणादि -त्यभिप्रायेणाह–असितेक्षण इति ॥ २६ ॥

 

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।।
श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम्
।। २७ ।।

सरमोक्तस्योपश्रुतिनिमित्तं दर्शयन्नेव कथाशेषं दर्शयति — एतस्मिन्निति ॥ अत्र भेर्यादिशब्दो भेर्यादिशब्दपरः । वानरसैन्यानामपि भेर्यादिकमस्तीति किष्किन्धाकाण्डे दर्शितं ॥ २७ ।।

 

श्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः ।
नष्टौजसो दैन्यपरीतचेष्टाः
श्रेयो न पश्यन्ति नृपस्य दोषे ।। २८ ।।

श्रुत्वेति ॥ श्रेयो न पश्यन्ति नृपस्य दोष इति । रावणस्य दोषे निमित्तभूते जीवनभूतमात्मनः श्रेयो न पश्यन्ति ॥ २८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.