[highlight_content]

09 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः

विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनसायुधग्रहणंसरभससमुत्थित निकुंभा दिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थ -प्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीषणादिसर्वजन विसर्जनपूर्वकं स्वगृहप्रतिगमनम् ॥ २ ॥

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो यज्ञ
हारक्षो महापार्श्वो महोदरः ।। १ ।।

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
इन्द्रजिच्च महातेजा बलवान्रावणात्मजः
।। २ ।।

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः
।। ३ ।।

परिघान्पट्टिशान्प्रासाञ्शक्तिशूलपरश्वधान् ।
चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान्
।। ४ ।।

अथ निकुम्भमतमेवानुसरन्तः सर्वेपि प्रधाना अहमहमिकया समुत्थाय शत्रुवधोद्युक्ताः । तमुद्योगं नीतिशास्त्रज्ञो विभीषणः  प्रतिषिद्धवानित्याह । तत इत्यादि श्लोकषट्कमेकं वाक्यं ॥ आदौ निकुम्भोपादानं निकुम्भमतानुसरणसूचनार्थं ॥ १-४ ॥

 

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा
।। ५ ।।

समुत्पत्य आसनेभ्यः समुत्थाय ।। ५ ।।

 

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता
।। ६ ।।

प्रधर्षितेत्यनन्तरमितिकरणं द्रष्टव्यं ॥ ६ ॥

 

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः ।
अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्
।। ७ ।।

क्रियाभेदात्तानित्यस्य न पुनरुक्ति: ॥ ७ ॥

 

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः
।। ८ ।।

प्रहस्तादीनां प्रधानानां संनिहितत्वाद्रावणि वा रावणं वा प्रत्युक्ति: । मध्ये कचित्सचिवान्प्रति वोक्ति: । विक्रमस्य नायमवसर इति दर्शयितुं सामान्येन विक्रमकालानाह–अप्युपायैरिति ॥ तातेत्यभिमुखीकरणाय संबोधनं । त्रिभिः सामदानभेदरूपैः । उपायैरपि योर्थः लब्धुं न शक्यते तस्य सिद्धये । तान् नीतिशास्त्रप्रसिद्धान् । विक्रमकालान् युक्तानाहुः । तदुक्तं कामन्दकेन –  सामादीनामुपायानां त्रयाणां विफले नये । विनयेन्नयसंपन्नो दण्डं दण्ड्येषु दण्डभृत् इति ॥ तथाच नायं दण्डस्य काल इत्युक्तं ॥ ८ ॥

 

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च ।
विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः
।। ९ ।।

न केवलं दण्डस्याकालिकत्वं दण्ड्यत्वं च ते शत्रोर्नास्तीत्यभिप्रायेणाह – प्रमत्तेष्विति ॥ प्रमत्तेषु अनवधानेषु । विषयासक्तेष्वित्यर्थः । अभियुक्तेषु ज्ञानिषु । विरक्तेष्विति यावत् । यद्वा सामन्तैराक्रान्तेषु । दैवेन भाग्येन । प्रहृतेषु क्षीयमाणसंपत्स्वित्यर्थः । चकाराद्बालवृद्धादिषु । विधिना नीतिशास्त्रोक्त रीत्या । परीक्ष्य मन्त्रिभिर्विचार्य । कृताः विक्रमाः विग्रहा: सिध्यन्ति । नान्यत्रेत्यर्थः । यथाह कामन्दकः— बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ।। दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः ॥ अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्म व्यपेतश्च विंशतिः पुरुषा अमी ॥ एतैः सन्धि न कुर्वीत विगृह्णीयात्तु केवलं इति ॥ ९ ॥

 

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।
जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ
।। १० ।।

रामस्तु न तादृश इत्याह – अप्रमत्तमिति । अप्रमत्तं सावधानं । तुशब्दोऽवधारणे । बले स्थितं स्थिरबलमित्यर्थः । जितरोषं अकाले रोषरहितमित्यर्थः । इच्छथेति । पूर्व रावणंप्रतिवचनं । अत्र सर्वान्प्रतीति बहुवचनं ॥ १० ॥

 

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।
कृतं हनुमता कर्म दुष्करं तर्कयेत
वा ।। ११ ।।

राम इदानीं दैवानुपहत इत्यत्र उदाहरणमाह—समुद्रमिति ।। ११ ।।

 

बलान्यपरिमेयानि वीर्याणि च निशाचराः ।
परेषां सहसाऽवज्ञा न कर्तव्या कथं चन
।। १२ ।।

परेषां रामादीनां ॥ १२ ॥

 

किं च राक्षसराजस्य रामेणापकृतं पुरा ।
आजहार जनस्थानाद्यस्य भार्यां यशस्विनः
।। १३ ।।

खरो यद्यतिवृत्तस्तु रामेण निहतो रणे ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्
।। १४ ।।

अनपराधिनि निष्कारणवैरकरणमध्यपरमनुचितमित्याह – किं चेत्यादि । खरवध एव प्रथमापराध इत्याशङ्कयाह –खर इति ॥ दुर्वृत्ततया स्ववधप्रवृत्तखरवधे रामस्य नापकारगन्धोपीति भावः । निहतो यदि तत्र को दोष इति शेषः । दोषाभाषमाह – अवश्यमिति ॥ १३ – १४ ।।

 

अयशस्यमनायुष्यं परदाराभिमर्शनम् ।

अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ।। १५ ।।

प्रथमं रामेणापकृतत्वेप्यनेकदोषमूलं सीतापहरणं न कार्यमित्याह – अय शस्यमिति ॥ पुनर्भवं जन्मान्तरं । मूर्त्यन्तरमितियावत् ॥ १५ ॥

 

एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् ।
आहृता सा परित्याज्या कलहार्थे कृते न किम्
।। १६ ।।

एवं सामान्यतः परदाराभिमर्शनस्यानर्थहेतुत्वमुक्त्वा प्रकृते तदर्शयति – एतदिति ॥ एतस्मान्निमित्तादित्यर्थ: । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् इति पञ्चम्यर्थे प्रथमा । अयशस्यत्वादिहेतोर्वैदेह्याः सकाशात्सुमहद्भयं भवेत् । तर्हि किमिदानीं कर्तव्यं तत्राह — आहृतेति ॥ उत्तमं वस्तु कथं त्यक्तव्यं तत्राह – कलहार्थे कृतेन किमिति । कलहार्थे विषये कृतेन कर्मणा किमित्यर्थः । अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रवस्तुहेतु निवृत्तिषु इति वैजयन्ती ॥ १६ ॥

 

न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना ।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
।। १७ ।।

बहुदोषप्रदर्शनपूर्वकं सीताप्रदानस्यावश्यकर्तव्यतामाहन नः क्षममित्यादिना ॥ १७ ॥

 

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली
।। १८ ।।

यावद्दारयते दारयिष्यति । यावत्पुरानिपातयोर्लट् इतिभविष्यदर्थे लट् । राम इति शेषः ॥ १८ ॥

 

यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी ।
नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्
।। १९ ।।

यावत् यदा । तावत् तदा । नावस्कन्दति न रुणद्धि ॥ १९ ॥

 

विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।
रामस्य दयिता पत्नी स्वयं
न यदि दीयते ।। २० ।।

शूरा इति । विनश्येयुरिति व्यत्ययेन योजनीयं । स्वयं न यदि दीयत इति पाठः ॥ २० ॥

 

प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम ।
हितं पथ्य
महं ब्रूमि दीयतामस्य मैथिली ।। २१ ।।

ब्रूमि ब्रवीमि । अस्य अस्मै ॥ २१ ॥

पुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः ।
सृजत्यमोघान्विशिखान्वधाय ते
प्रदीयतां दाशरथाय मैथिली ।। २२ ।।

अयं शल्यं पुङ्गं शरमूलं नवे अग्रपुङ्खे यषां ते । अतएव सुदृढान् पुरा सृजति स्रक्ष्यति । दशरथस्यायं दाशरथः । तस्येदम् इति संबन्धार्थे अण् । संबन्धश्चात्र पुत्रत्वं । दाशरथाय दाशरथये ॥ २२ ॥

 

त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् ।
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली ।। २३ ।।

रतिः सुखं ॥ २३ ॥

 

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।

विसर्जयित्वा तान्सर्वान्प्रविवेश स्वकं गृहम् ।। २४ ।।

विभीषणेति । सर्व प्रातरालोचयिष्याम इति विभीषणप्रमुखान् विसृज्येत्यर्थः ।। २४ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥ ४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.