[highlight_content]

38 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः

सूर्येणास्ताचलारोहणे रामेण सुग्रीवादिभिः सह लङ्कावलोकनाय सुवेलाचलारोहणम् ॥ १ ॥

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति ।
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
।। १ ।।

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ।
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
।। २ ।।

अथ लङ्कादर्शनार्थं सुवेलारोहणमष्टत्रिंशे–स त्वित्यादिश्लोकद्वयमेकान्वयं ।। धर्मज्ञत्वादि सुग्रीवस्यापि विशेषणं । सुवेलो नाम लङ्कासमतुङ्गताको गिरिविशेषः । विधिज्ञं कार्यज्ञं ॥ १–२ ॥

 

सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम् ।
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
।। ३ ।।

चितं व्याप्तं । अध्यारोहामहे आरोक्ष्यामः । अयंच समुद्रतरणदिवसवृत्तान्तः पूर्वं संग्रहेणोक्तः । अद्य सविशेषमुच्यते ॥ ३ ॥

 

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः
येन मे मरणान्ताय हृता भार्या दुरात्मना
।। ४ ।।

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा ।
राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्
।। ५ ।।

लङ्कामित्यादिश्लोकद्वयमेकान्वयं ॥ लङ्कालोकने निमित्तमाह – निलयमिति । मे भार्येति । संबन्ध: । मरणान्ताय मरणरूपफलाय । तत् प्रसिद्धं । वृत्तं धर्मशास्त्रविहितस्वकुलाचार: । कुलं स्वकुलातिशयः । एतत्सर्वं भार्यापहरणनिवृत्तिहेतुः तन्नासीदित्यर्थः । तर्हि केन हेतुना कृतमित्यत्राह – राक्षस्येति । तत् भार्यापहरणं ॥ ४ – ५ ॥

 

तस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे ।
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
।। ६ ।।

एतादृशस्य निलयदर्शने किं फलं तत्राह – तस्मिन्निति ॥ वर्तते उत्पद्यते । तर्हि तन्मात्रवधे यत्नः क्रियतामित्यत्राह—यस्येति ॥ ६ ॥

 

एको हि कुरुते पापं कालपाशवशं गतः ।
नीचेनात्मापचारेण कुलं तेन विनश्यति
।। ७ ।।

अन्यस्य दोषेणान्यवधः किमर्थक्रियत इत्यत्राह – एक इति ॥ एकः पापं कुरुते नीचेन तेन कर्त्रा आत्मापचारेण तद्दोषेण कारणेन कुलं तत्संबन्धिनः सर्वे विनश्यन्ति ॥ ७ ॥

 

एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति ।
रामः सुवेलं वासाय चित्रसानुमुपारुहत्
।। ८ ।।

संमन्त्रयन् वदन् । उपारुहत् उपारुक्षत् ॥ ८ ॥

 

पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः ।
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः
।

तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ।। ९ ।।

पृष्ठत इत्यादि सार्धश्लोकः ॥ समाहितः सावधानः ॥ ९ ॥


हनूमानङ्गदो नीलो मैन्दो द्विविद एव च
।

गजो गवाक्षो गवयः शरभो गन्धमादनः ।। १० ।।
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः
।

जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।। ११ ।।

दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।

एते चान्ये च बहवो वानराः शीघ्रगामिनः ।। १२ ।।
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः
।
अध्यारोहन्त शतशः सुवेलं यत्र राघवः
।। १३ ।।

[ ततः सुवेलमारुह्य रामस्तैस्सह वानरैः ।

निषासाद गिरेस्तस्य शृङ्गे समतले शुभे ।। १४ ।।

ततः कपिगणास्सर्वे समावृत्य द्वियोजनम् ।

सुवेलमध्यारोहंस्ते प्लवन्तो दक्षिणामुखाः ।। १५ ।। ]

सामात्य इत्युक्तं विवृणोति – हनुमानित्यादिचतुःश्लोकी ॥ हनुमानिति पृथगुक्त्या रामलक्ष्मणौ पद्भ्यामेवारूढाविति गम्यते । ते प्रसिद्धाः । एते चान्ये च । वायुवेगप्रवणाः वायुवेगेन गच्छन्तः । प्रुङ् गतौ इति धातोर्बहुलग्रहणात्कर्तरि युट् । अतएव शीघ्रगामिनः सन्तः अध्यारोहन्त ।। १०-१५ ॥

 

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ।
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्
।। १६ ।।

ते रामादयः । तस्य प्रसिद्धस्य त्रिकूटस्य । खे विषक्तां आकाशे लम्बमानामिव स्थितां । पुरीं लङ्कां । सर्वतो ददृशुः ॥ १६ ॥

 

तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम् ।
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः
।। १७ ।।

वानराश्च ददृशुरित्याह – तामिति ॥ स्पष्टः ।। १७ ।।

 

प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ।
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
।। १८ ।।

ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः ।
मुमुचुर्वि
विधान्नादांस्तत्र रामस्य पश्यतः ।। १९ ।।

प्राकारस्य चयः वनं तत्र स्थितैः । स्याच्चयो वप्रमस्त्रियां इत्यमरः ।। १८ – १९ ॥

 

ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः ।
पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते
।। २० ।।

प्रतिरञ्जितः रक्तवर्णीकृतः । पूर्णचन्द्रप्रदीप्तेति । अनेन पौर्णमास्यां सुवेलारोहणमित्युक्तं । प्रथमायां युद्धारम्भ इत्याहुः । यद्वा पूर्णचन्द्रतुल्यप्रदीपवतीति वाऽर्थः । संभवन्ति हि वानरसेनायामपि प्रकाशार्थमारोपिता दीपाः ॥ २० ॥

 

ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः ।
सलक्ष्मणो यूथपयूथसंवृतः
सुवेल पृष्ठे न्यवसद्यथासुखम् ।। २१ ।।

वाहिनीपतिः वानरसेनानिर्वाहकः ॥ २१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥

इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.