[highlight_content]

26 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः

          वानरबलावलोकनाय शुकसारणाभ्यांसहोच्चप्रासाद मारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तद्बलपराक्रमवर्णमपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम्
।। १ ।।

अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति  अक्वीबं अकातरं । प्रत्यभाषत अनिन्ददित्यर्थः ॥ १ ॥

यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि
।। २ ।।

अभियुञ्जीरन् युद्ध्येरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् ।। २ ।।

 

त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् ।
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
।
को हि नाम सपत्नो मां समरे जेतुमर्हति
।। ३ ।।

त्वमित्यादिसार्धश्लोकः ॥ सपत्नः शत्रुः ।। ३ ।।

 

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डरम्
।
बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
।। ४ ।।

इत्युक्त्वेत्यादिसार्धश्लोकः ॥ ततः तस्मात्पूर्वस्थानात् । बहुतालसमुत्सेधं अनेकतालवृक्षतुल्यौन्नत्यं । यद्वा वितताङ्गुष्ठमध्यमामितस्तालः । तदाह सज्जनः – प्रादेशतालगोकर्णवितस्त्यश्च यथाक्रमम् । भवन्ति वितताङ्गुष्ठप्रदेशिन्यादिभिः सह इति  अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या क्रियानिमित्तकः । दिदृक्षया वानरबलदिदृक्षया ॥ ४ ॥

 

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।
पश्यमानः समुद्रं च पर्वतांश्च वनानि च
।
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः
।। ५ ।।

चराभ्यां चाराभ्यां । क्रोधमूच्छितः क्रोधेन व्याप्तः । पृथिवीदेशं त्रिकूटाधः प्रदेशं ।। ५ ।।

 

तदपारमसङ्ख्येयं वानराणां महद्बलम् ।
आलोक्य रावणो राजा परिपप्रच्छ सारणम्
।। ६ ।।

अपारं उत्तरावधिरहितं ॥ ६ ॥

 

एषां वानरमुख्यानां के शूराः के महाबलाः ।
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः
।। ७ ।।

एषामिति । इयं निर्धारणेषष्ठी ॥ ७ ॥

 

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।
सारणाचक्ष्व
तत्त्वेन के प्रधानाः प्लवङ्गमाः ।। ८ ।।

केषामिति । वचनमिति शेषः । प्रधानाः सेनापतयः ॥ ८ ॥

 

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।
आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः
।। ९ ।।

वचनं निशम्येति शेषः ॥ ९ ॥

 

एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ।
यूथपानां सहस्राणां शतेन परिवारितः
।। १० ।।

यस्य घोषेण महता सप्राकारा सतोरणा ।
लङ्का प्रवेपते सर्वा सशैलवनकानना
।। ११ ।।

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः
।। १२ ।।

त्रिभिर्नीलं वर्णयति- एष इत्यादि ॥ य एष इत्यन्वयः। तिष्ठते तिष्ठति ॥ १० – १२ ॥

 

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ।
लङ्कामभिमुखः
क्रोधादभीक्ष्णं च विजृम्भते ।। १३ ।।

अथाङ्गदं वर्णयति- बाहू इत्यादिना स्वेनानीकेन दुर्जय इत्यन्तेन ॥ बाहू प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभिमुखः । विजृम्भते जृम्भणं करोति ॥ १३ ॥

 

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः
।

यस्य लाङ्गूलशब्देन स्वनन्ती प्रदिशो दश ।। १४ ।।

पद्मकिञ्जल्कसन्निभः पद्मकेसरवत्पीतवर्ण इत्यर्थः । स्फोटयति भूमौ ताडयति । अभिसंरब्धः कुपितः । प्रस्वनन्तीत्यन्वयः ॥ १४ ॥


एष वानरराजेन सुर्ग्रीवेणाभिषेचितः
।
यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे
।। १५ ।।

अभिषेचितः अभिषिक्तः । आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव आर्षः ॥ १५ ॥

 

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।

राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ।। १६ ।।

पराक्रान्तः पराक्रमितुमुद्यतः ।। १६ ।।

 

एतस्य सा मतिः सर्वा यदृष्टा जनकात्मजा ।

हनूमता वेगवता राघवस्य हितैषिणा ।। १७ ।।

एतस्येति ॥ हनूमता सीता दृष्टेति यत्सा मतिः एतस्य अङ्गदस्य । एतद्बुद्धिमूलं हनुमत: सीतादर्शन मितिभावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ।। १७ ।।

 

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।

परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ।। १८ ।।

स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः । अतो न पुनरुक्तिः ॥ १८ ॥

 

अनु वालिसुतस्यापि बलेन महता वृतः ।

वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ।। १९ ।।

अनु वालीति । एतस्योत्तरार्धं वीरस्तिष्ठति संग्राम इति । वालिसुतस्य अनु पश्चात् । सेतुहेतुः सेतुकर्ता । संग्रामे संग्रामनिमित्तं ॥ १९ ॥

 

ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः
।। २० ।।

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः ।
अष्टौ शतसहस्राणि दशकोटिशतानि च
।। २१ ।।

य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।
ए
षैवांशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २२ ।।

नलपरिवारानाह—ये त्वित्यादिना मर्दितुमित्यन्तेन ॥ लोकत्रयमेकान्वयं । विष्टभ्य उन्नम्य । क्ष्वेलयन्ति सिंहनादं कुर्वन्ति । नदन्ति गर्जन्ति । उत्थाय आसनादिति शेषः । विजृम्भन्ते कोपेन गात्रविना कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः चन्दनवनवासिनः । एते एनं नलमनुगच्छन्तीति संबन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपिसमासः । चन्दनवासिनो वानरा इति । एषैवेति सन्धिरार्ष: । आशंसते प्रार्थयते ॥ २० – २२ ।।

 

श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः ।
बुद्धिमान्वान
रो वीरस्त्रिषु लोकेषु विश्रुतः ।। २३ ।।

तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः ।
विभजन्वानरीं सेनामनीकानि प्रहर्षयन्
।। २४ ।।

अथ द्वाभ्यां श्वेताख्यं वानरं वर्णयति – श्वेत इत्यादि । अन्वर्थनामेत्याह – रजतेति । चपल: युद्धचपलः । अनीकानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिडां सेनां भित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अद्यैव लङ्कां ध्वंसयामीति निवेदनार्थं गत्वा तेन सान्त्वितः पुनर्गच्छतीत्यवगम्यते ॥ २३ – २४ ॥

 

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः
।। २५ ।।

चतुर्भिः कुमुदं वर्णयति – यः पुरेत्यादि । पुरेत्यनेनाद्य सुग्रीवसमीप एव वसतीति गम्यते । पर्येति परितः संचरति । नाम्ना संकोचनो नाम यः प्रसिद्धः तं पर्वतमित्यन्वयः ॥ २५ ॥

 

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।
योऽसौ शतसहस्राणां सहस्रं परिकर्षति
।। २६ ।।

तत्र गोमतीतीरे । परिकर्षति आनयति ॥ २६ ॥

 

यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णाघोरकर्मणः
।। २७ ।।

घोरकर्मणो यस्य लाङ्गूलमाश्रिताः वाला: रोमाणि । दैर्ध्यस्यावधिमाह – बहुव्यामा इति । व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरं इत्यमरः ॥ २७ ॥

 

अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति ।
ए
षोप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २८ ।।

अदीन इत्यत्र य इत्युपस्कार्यं ॥ २८ ॥

 

यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः ।
निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
।। २९ ।।

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।
राजन्सततमध्यास्ते रम्भो नामैष यूथपः
।। ३० ।।

शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ।

यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः ।
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा
।। ३१ ।।

अथ सार्धैस्त्रिभी रम्भं वर्णयति — यस्त्वेष इत्यादि ।। २९ – ३१ ॥

 

यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ।
न च संविजते मृत्योर्न च यू
द्धाद्विधावति ।। ३२ ।।

प्रकंपते च रोषेण तिर्यक्च पुनरीक्षते ।

पश्यँल्लाङ्गूलमपि च क्ष्वेलते च महाबलः ।। ३३ ।।

महाजवो वीतभयो रम्यं साल्वेयपर्वतम् ।
राजन्सततमध्यास्ते शरभो नाम यूथपः
।। ३४ ।।

एतस्य बलिनः सर्वे विहारा नाम यूथपाः ।
राजञ्शतसहस्राणि चत्वारिंशत्तथैव च
।। ३५ ।।

अथ शरभं वर्णयति – यस्तु कर्णावित्यादि ॥ संविजते बिभेति ॥ ३२-३५ ॥

 

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ।
मध्ये वानरवीराणां सुराणामिव वासवः
।। ३६ ।।

भेरीणामिव संनादो यस्यैष श्रूयते महान् ।
घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम्
।। ३७ ।।

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः
।। ३८ ।।

अथ पनसं वर्णयति – यस्तु मेघ इत्यादिना ।। ३६-३८ ।।

 

एनं शतसहस्राणां शतार्धं पर्युपासते ।
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः
।। ३९ ।।

एनं पनसं । येषां यूथपानां यूथानि च भागशः स्वस्वांशासङ्करेण । एनं पर्युपासत इति संबन्धः ॥ ३९ ॥

 

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ।
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः
।। ४० ।।

एष दर्दरसङ्काशो विनतो नाम यूथपः ।
पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम्
।। ४१ ।।

विनतं वर्णयतियस्त्वित्यादि । प्रवल्गन्तीं उत्साहेन लवमानां समुद्रस्य पारे स्थितां । अतएव द्वितीयः सागर इव स्थितामिति शेषः । विनतविशेषणं वा । दर्दरो नाम गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीं ।। ४० – ४१ ॥

 

षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ।। ४२ ।।

विनतसेनासङ्ख्यामाह – षष्टिरिति ।। षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं सेनेत्यर्थः ॥ ४२ ॥


त्वामाह्वयति युद्धाय
क्रोधनो नाम यूथपः ।

विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ।। ४३ ।।

एकेन क्रोधनमाह – त्वामिति ॥ उत्तरार्धे अस्येत्यध्याहार्यं । यथायूथानि यथायूथं । अमभावश्छान्दसः । भागशः भागत्वेन स्थिता वानराः विक्रान्ता बलवन्तश्चेति योजना ॥ ४३ ॥

 

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।

अवमत्य सदा सर्वान्वानरान्बलदर्पितान् ।। ४४ ।।
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते
।

एनं शतसहस्राणि सप्ततिः पर्युपासते ।
ए
षैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। ४५ ।।

शेषेण गवयं वर्णयति – यस्त्वित्यादिना । गैरिकं रक्तवर्णधातुविशेषः । धातुर्मनश्शिलाद्यद्रेर्गैरिकं तु विशेषत: इत्यमरः । तद्वर्ण इवाभा यस्येति विग्रहः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । पुष्यति युद्धहर्षादभिवर्धयतीत्यर्थः ॥ ४४-४५ ॥

 

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ।
यूथपा यूथपश्रेष्ठा
एषां यूथानि भागशः ।। ४६ ।।

उपसंहरति — एत इति ॥ यूथपा : अङ्गदादयः । यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि भागशः पृथक् । विद्यन्त इति शेषः ॥ ४६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः ॥ २६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडिविंशः सर्गः ॥ २६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.