[highlight_content]

05 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः

समुद्रवेलावलोकनाद्युद्दीपकसमुद्दीपित विरहशोकेनरामेण लक्ष्मणप्रति सीतामुद्दिश्य -सपरिशोचनंबहुधाविलापः ॥ १ ॥ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता ।
सागरस्योत्तरे तीरे साधु सेना निवेशिता
।। १ ।।

एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा हत्वादयः शरण्यत्वौपयिका रामगुणा दर्शिताः । अथ रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमारभते – सा त्विति ॥ स्वारक्षा आसमन्ताद्रक्षन्तीत्यारक्षा: शोभना: आरक्षाः यस्याः सातथोक्ता । विधिवत् नीतिशास्त्रोक्तरीत्या । सुसमाहिता निराकुला । निवेशिता ॥ १ ॥

 

मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ ।
विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम्
।। २ ।।

निविष्टायां तु सेनायां तीरे नदनदीपतेः ।
पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्
।। ३ ।।

दिशमिति जात्येकवचनं । दिश इत्यर्थ: । उभसर्वतसो :- इत्यादिना द्वितीया । सर्वत इति सप्तम्यर्थे तसिः । दिशां सर्वेषु प्रदेशेष्वि- त्यर्थः ॥ २ – ३ ॥

 

शोकश्च किल कालेन गच्छता ह्यपगच्छति ।
मम चापश्यतः कान्ता
महन्यहनि वर्धते ।। ४ ।।

समुद्रवेलावनाद्युद्दीपकदर्शनादुद्भूतं विरहशोकं सोढुमशक्नुवन् सौमित्रिं प्रत्याह- शोकश्चेत्यादिना ॥ प्रथमश्चकारोऽवधारणे। द्वितीयस्त्वर्थः । शोकः इष्टवस्त्वन्तरवियोगजनितः शोकः । गच्छता कालेन अपगच्छति । किलेत्यैतिह्ये । गच्छत्येवेति प्रसिद्धमिति लौकिका वदन्ति । कान्तामपश्यतो मम तु शोकः । अहन्यहनि वर्धते । लौकिकशोकविलक्षणोमम शोक इतिभावः ॥ ४ ॥

 

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ।
एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते
।। ५ ।।

ननु शत्रुहृताया दूरे स्थितायास्तस्याः प्रत्याहरणसमर्थस्य तव किं शोकेनेत्याशङक्य न तद्विषयोयं शोकः किंतूपभोगयोग्यस्य प्रियावयसो वैफल्यानुस्मरणादित्याह – न म इति ॥ प्रिया दूरे स्थितेति मे न दुःखं । सुग्रीवेण प्रस्थानेन तस्य निवर्त्यत्वात् । प्रबलरक्षसा हृतेति मे दुःखं नास्ति । तस्य तच्छिरः कृन्तनापनोद्यत्वात् । एतदेवानुशोचामि । इदमेकमेव शोकनिमित्तं । वयोस्या ह्यतिवर्तते गतं यौवनं न प्रत्याहर्तुं शक्य मितिभावः । अत्र यौवनमतिवर्तत इति नार्थः । नित्ययौवनत्वात्तस्याः । किंतु वयोतिवर्तते । व्यर्थतयैवयातीतिभावः । मानुषभावानुसारेण चेदं वचनं ॥ ५ ॥

 

वाहि वात यतः कन्ता तां स्पृष्ट्वा मामपि स्पृश ।
त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः
।। ६ ।।

प्रियास्पृष्टद्रव्यस्पर्शस्य विनोदहेतुत्वात्तत्संपादनार्थं वायुं प्रार्थयते-वाहीति ॥ हे वात मेकान्ता यतः यत्र वसति तत्र वाहि गच्छ । तन्त्रगत्वाकिंकरणीयमित्यत्राह- तामिति । न चैतदन्यतः सेत्स्यतीति सदृष्टान्तं दर्शयति — दृष्टिसमागमः चन्द्रे यथा चन्द्राधीनः । तथा मे तद्गात्रसंस्पर्शोपि । त्वयि त्वदधीनः । तथा तदवलोकितं चन्द्रं पश्यन् तत्प्रणालिकया तां दृष्टवानस्मि । तद्वत् तदङ्गस्पृष्टं । त्वां स्पृशन् तामेव स्पृष्टवान्भवेयमित्यर्थः ॥ ६ ॥

तन्मे दहति गात्राणि विषं पीतमिवाशये ।
हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्
।। ७ ।।

न केवलं वयोतिवर्तनस्मरणमेव व्यथाहेतुः किंतु कारणान्तरमप्यस्तीत्याह – तदिति ॥ तद्वचनं मे आशये हृदये । स्थितं सत् । सदा स्मर्यमाणंसदित्यर्थः । पीतं विषमिव गात्राणि प्रत्यवयवं । दहति । किं तद्वचनं तत्राह – हा नाथेति । सा सर्वान्भोगान्परित्यज्य मया सहागता । ह्रियमाणा सती रावणेन हरणसमये न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा इत्युक्तरीत्या पातिव्रत्याग्निना भस्मीकर्तुं समर्थापि तत्तस्य सदृशं भवेत् इत्युक्तरीत्या हा नाथेति मन्नाथत्वमेव पुरस्कृत्य मां यदब्रवीत् तन्मे गात्राणि दहति । एतेन रामशोकः सीताविषयकारुण्य मित्यवगम्यते । परदुःखदुःखित्वं हि कारुण्यं ॥ ७ ॥

 

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा ।
रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना
।। ८ ।।

अथ संतापो जलप्रवेशं विना न शाम्यतीति वक्तुं तस्याग्नित्वं सावयवं रूपयति—तद्वियोगेति ॥ मदनाग्निवर्धकत्वेन वियोगस्येन्धनरूपत्वं । संततत्वेन चिन्ताया ज्वालात्वरूपणं । रात्रिंदिवमिति । अचतुर — इत्यादिना सूत्रेण साधुत्वं । शीतलाशीतलकालाविशेषेण दह्यत इत्यर्थः ॥ ८ ॥

 

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।
कथं चित्प्रज्वलन्कामः स
मा सुप्तं जले दहेत् ।। ९ ।।

सौमित्रे कान्तास्मारकेण भवता विना अर्णवमवगाह्य स्वप्स्ये । अनेन लक्ष्मणस्य शेषावतारत्वमुक्तं । अर्णवशयनं हि शेषिणैव किं प्रयोजनमित्यत्राह – कथंचिदिति । इदानीं प्रज्वलन् स कामः जले सुप्तं मां कथंचिद्दहेत् कृच्छ्राद्दहेत् मन्दीभवेदित्यर्थः ॥ ९ ॥

 

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् ।
यदहं सा च वामोरुरेकां धरणिमाश्रितौ
।। १० ।।

केदारस्येव केदारः सोदकस्य निरूदकः ।
उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्
।। ११ ।।

कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् ।
विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम्
।। १२ ।।

एवं दुःसहदुःखाक्रान्तस्यापि मम जीवनधारणशक्तिस्तया सह एकधरण्याश्रयणात्तज्जीवनप्रवृत्त्युपलम्भाच्च जायत इत्याह-बह्वित्यादिना श्लोकद्वयेन ॥ अहं सा वामोरूश्च एकां धरणिमाश्रिताविति यत् एतद्बहु भूरि जीवनसाधनं । अतः एतेन कामयानस्य विरहिणो मम जीवितुं शक्यं । एकशय्याश्रयणन्यायेन कामिनोरेकधरण्याश्रयणमपि जीवनसाधनं भवतीत्यभिप्रायः ॥ जीवन्तीं तां शृणोमीति यत् तेन । निरूदकः निरुदकः । केदार: वनं । सोदकस्य केदारस्य उपस्नेहेन उपक्लेदेनेव जीवामि ॥ १० – १२ ॥

 

कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् ।
ईषदुन्नम्य पास्यामि रसायनमिवातुरः
।। १३ ।।

रसायनं शरीरसिद्धिकर मौषधविशेषं । आतुरः रोगी । आतुरोभ्य मितोभ्यान्तः इत्यमरः ॥ १३ ॥

 

तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ ।
कदा नु खलु सोत्कम्पौ
श्लिष्यन्त्या मां भजिष्यतः ।। १४ ।।

सा नूनमसितापाङ्गी रक्षोमध्यगता सती ।
मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति
।। १५ ।।

कथं जनकराजस्य दुहिता सा मम प्रिया ।

राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ।। १६ ।।

संहतौ श्लिष्टौ ।। १४-१६ ॥

कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति ।
विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव
।। १७ ।।

अविक्षोभ्यरक्षांसीत्येकं पदं । अविक्षोभ्याणि । दुराधर्षाणि रक्षांसि ॥ १७ ॥

 

स्वभावतनुका नूनं शोकेनानशनेन च ।
भूयस्त
नुतरा सीता देशकालविपर्ययात् ।। १८ ।।

देशकालविपर्ययात् देशकालयोर्व्यत्यासात् । सुखावहयोर्देशकालयोरपगमा -त्तद्विरुद्धयोरुपगमाच्चेत्यर्थः ॥ १८ ॥

 

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् ।
सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं
।। १९ ।।

कदा नु खलु मां साध्वी सीतामरसुतोपमा ।
सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं
पयः ।। २० ।।

सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसमिति । सीतां प्रत्याहृत्य कदा नु शोकमुत्स्रक्ष्यामीत्यर्थः । आस्यं व्यादाय स्वपितीतिवत्साधुः ॥ १९-२० ॥

 

कदा शोकमिमं घोरं मैथिली विप्रयोगजम् ।
सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा
।। २१ ।।

एवं विलपतस्तस्य तत्र रामस्य धीमतः ।
दिनक्षयान्मन्द
रुचिर्भास्करोऽस्तमुपागमत् ।। २२ ।।

शुक्लेतरं मलिनं ।। २१-२२ ।।

 

आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत ।
स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः
।। २३ ।।

उपासत उपास्त । भ्रातुरपि लक्ष्मणस्य पुरतो रघुनाथस्यैवंविधवचनप्र- योगस्तस्य सर्वविधसेवकत्वात् । अतो नानौचित्यं ॥ २३ ॥

 

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः ॥ ४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.