[highlight_content]

27 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः

रावणंप्रतिसारणेनपृथक्पृथङ्नामनिर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥

 

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
।। १ ।।

पुनरुक्तेभ्योप्युत्कृष्टान्प्रधानयूथपतीन्वक्तुं प्रतिजानीते – तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामीयन्वयः ॥ १ ॥

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
।। २ ।।

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ।
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः
।। ३ ।।

द्वाभ्यां हरं वर्णयति- वाला इति । वाला: रोमाणि । बहुव्यामा: बहुव्यामप्रमाणाः । व्यामो नाम प्रसारितबाहुद्वयप्रमाणं । प्रगृहीताः उत्क्षिप्ताः । प्रकीर्णाः विरलाः । सूर्यस्य मरीचय इव मेघेषु शक्रचापादिरूपेण प्रसृता रश्मय इव । प्रकाशन्ते । कदाचित् पृथिव्यामनुकृष्यन्ते । एष यूथपो हरो नाम ॥ २–३ ॥

 

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ।
द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः
।

यूथपा हरिराजस्य किङ्करा  समुपस्थिताः ।। ४ ।।

एष कोटीसहस्रेण वानराणां महौजसाम् ।
आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय
।। ५ ।।

यमित्यादि सार्धश्लोक एकान्वयः ॥ यं हरं । हरस्य हरिराजकिङ्करत्वेन तदीया अपि यूथपा हरिराजकिंकरा एवेति न विरोधः ॥ ४ -५ ।।

 

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ।
असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान्
।

असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ।। ६ ।।

ऋक्षसेना वर्णयति – नीलानित्यादि  अनिर्देश्यान् प्रत्येकं निर्देष्टुमशक्यान् । परं पारमिवोदधेः समुद्रस्यापरं तीरमिव स्थितमित्यर्थः ॥ ६ ॥

 

पर्वतेषु च ये केचिद्विषमेषु नदीषु च ।

एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ।। ७ ।।

विषमेषु निम्नोन्नतप्रदेशेषु ॥ ७ ॥

 

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ।
पर्जन्य इव जीमूतैः समन्तात्परिवारितः
।। ८ ।।

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ।
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः
।। ९ ।।

पर्जन्यः वर्षदेवता ।। ८ – ९ ।।

 

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ।
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे
।। १० ।।

यवीयान् कनिष्ठः । अयमिति शेषः । विशिष्टः अधिकः ॥ १० ॥

 

स एष जाम्बवान्नाम महायूथपयूथपः ।
प्र
क्रान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ।। ११ ।।

गुरुवर्ती गुरुशुश्रूषकः ।। ११ ।।

 

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ।
देवासुरे जाम्बवता लब्धाश्च बहवो वराः
।। १२ ।।

दैवासुरे देवासुरयुद्धे ॥ १२ ॥

 

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ।
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च
।। १३ ।।

राक्षसानां च सदृशाः पिशाचानां च रोमशाः ।
एतस्य सै
न्या बहवो विचरन्त्यग्नितेजसः ।। १४ ।।

जाम्बवतः सैनिकान्वर्णयति द्वाभ्यां –आरुह्येत्यादि । पर्वताप्राणीत्यर्थात्सिद्धं । मुञ्चन्ति च्यावयन्ति । नोद्विजन्ति न बिभ्यति । राक्षसानां पिशाचानां च सदृशा इत्यन्वयः ॥ १३ – १४ ॥

 

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्
।। १५ ।।

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः ।
बलेन बलसम्पन्नो
दम्भो नामैष यूथपः ।। १६ ।।

द्वाभ्यां दम्भं वर्णयति — यं त्विति । अभिसंरब्धं कुपितं । प्लवमानमिव सदा लवमानमिव स्थितं प्रेक्षन्ते । आश्चर्येणेति शेषः । बलेन पर्युपास्ते बलेन प्रीणयतीत्यर्थः ॥ १५-१६ ।।

 

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते ।
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
।। १७ ।।

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ।
श्रुतः संनादनो नाम वानराणां पितामहः
।। १८ ।।

येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता ।
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
।। १९ ।।

त्रिभिः सन्नादनं वर्णयति यः स्थितमिति ॥ यो गच्छन् योजने योजनदूरे । स्थितं शैलं पार्श्वन गच्छति । अस्य गमनकाले एकपदप्रक्षेपदशायां एकयोजनपरिमितः पर्वतः पार्श्वस्थो भवति । योजनायतशरीर इत्यर्थ: । कायेनोर्ध्वं गतः सन् योजनं प्राप्नोति । योजनोन्नतकायइत्यर्थः । अतएव चतुष्पादेषु यस्मात् परमं परं रूपं शरीरं । न विद्यते । शक्रस्य रणे शक्रस्यासुरैः सह युद्धे । येनासुरेभ्यो युद्धं दत्तं तदा पराजयश्चासुरेभ्यो न प्राप्तः सोयं सन्नादन इति श्रुतो नाम ।। १७ – १९ ।।


यस्य विक्रममाणस्य शक्रस्येव पराक्रमः
।

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ।। २० ।।

कस्यायं पुत्र इत्यत्राह – यस्येति ॥ विक्रममाणस्य पराक्रमं कुर्वतः । यस्य पराक्रमः शक्रस्येव । तत्पराक्रमसदृशपराक्रम इत्यर्थः ॥ २० ॥


पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्
।। २१ ।।

किमर्थमुत्पादित इत्यत्राह – तदेत्यर्धं ॥ तदा प्रसिद्धे ॥ २१ ॥

 

यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ।
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्
।। २२ ।।

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ।
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः
।। २३ ।।
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः
।

वृतः कोटिसहस्रेण हरीणां समुपस्थितः ।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
।। २४ ।।

कथनं वर्णयति सार्वैस्त्रिभिः – यस्येत्यादिना । यस्य गिरे: वैश्रवणः कुबेरो राजा । योगिरिः जम्बू जम्बूवृक्षं । उपनिषेवते । जम्बूयुक्त इत्यर्थः । यः ते भ्रातुः कुबेरस्य विहारसुखदः । तत्र पर्वते । युद्धेष्वकत्थनः कथनो नामैषः यूथपो वसतीति संबन्धः ॥ २२ – २४ ॥

 

यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् ।
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
।। २५ ।।

यो गङ्गामित्यादि सार्धोकप्तकं प्रमाथिविषयं । हस्तिनां वानराणां च अन्योन्यं पूर्ववैरमनुस्मरन् यः गङ्गामनु गङ्गासमीपे । कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया । हस्तियूथपान् त्रासयन् पर्येति परितश्चरति । अत्रेयं पौराणिकी कथा – पुरा किल शम्बसादनो नामासुरो गजरूपेण मुनीन् बाधमानस्तैर्मुनिभिश्चोदितेन केसरिणा हनुमत्पित्रा हतः । तत्संतुष्टैर्मुनिभिर्महापराक्रमो हनुमान् पुत्रस्ते भविष्यतीति केसरिणे वरो दत्तः । ततःप्रभृति हस्तिनां वानराणां च परस्परं वैरमभूदिति ॥ २५ ॥

 

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ।

गजान्योधयते वन्यान्गिरींश्चैवमहीरुहीन् ।। २६ ।।

गच्छन्नेव गमनकाल एव । रिपूणां नाशयिता । गिरिगुहायां शेते वर्तत इति गिरिगुहाशयः । गजानिति । गजैर्वृक्षान् वृक्षैर्गजांश्च हन्तीत्यर्थः ॥ २६ ॥


हरीणां वाहिनीमुख्यो नदीं हैमवतीम् अनु
।

उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ।
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्
।। २७ ।।

हैमवतीमनु गङ्गासमीपे । स्थितं उशीरबीजाख्यं पर्वतमाश्रित्य रमत इतियोजना । हरिवाहिनीमुख्यत्वेपि भिन्नजातीयत्वभ्रमव्युदासार्थं वानरश्रेष्ठ इत्युक्तं ।। २७ ।।

 

एनं शतसहस्राणां सहस्रमभिवर्तते ।

वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम् ।। २८ ।।

वीरस्य भावो वीर्यं । उत्साह इत्यर्थः । विक्रमः परान्प्रत्यभिभवः । वलशालिनां वानराणामित्यर्थसिद्धं । शतसहस्राणां सहस्रं सहस्रलक्षमित्यर्थः ॥ २८ ॥

 

स एष नेता चैतेषां वानराणां महात्मनाम् ।। २९ ।।

नेता नायकः ॥ २९ ॥


स एष दुर्धरो राजन्प्रमाथी नाम यूथपः ।

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ।। ३० ।।

प्रमाथिनं वर्णयति—स एष इति ॥ दुर्धरः दुर्धर्षः । प्रमाथी नाम । प्रमाथिनामकः । वातेनोद्धतं मेघमिव यमेनभनुपश्यसि एष प्रमाथीति संबन्धः ।। ३० ।।

 

अनीकमपि संरब्धं वानराणां तरस्विनाम् ।

उद्धूतमरुणाभासं पवनेन समन्ततः ।
विवर्तमानं बहु
धा यत्रैतद्बहुलं रजः ।। ३१ ।।

यत्र अनीके । समन्ततः पवनेनोद्भूतं अरुणाभासं अरुणकान्तिबहुलमेतद्रजः । बहुधा विवर्तमानं भवति । संरब्धं तत् तरस्विनां वानराणामनीकमपि पश्यसि । तदप्यस्य प्रमाथिनइत्यर्थः ॥ ३१ ॥

 

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ।
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्
।। ३२ ।।

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ।
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा
।। ३३ ।।

गवाक्षमाह श्लोकद्वयेन – एत इति ॥ असितमुखाः गोलाङ्गूला: सेतुबन्धनं दृष्ट्वा उत्साहेन शतं शतसहस्राणि च सन्तः गवाक्षं नाम स्वयूथपतिं परिवार्य लङ्कां ओजसा स्वतेजसा । मर्दितुमभिवर्तन्ते । अत्र यूथपत्यपेक्षया यूथानां बलोत्साहाधिक्यं व्यज्यते ॥ ३२-३३ ॥

 

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ।
यं सूर्यतुल्यवर्णाभमनु
पर्येति पर्वतम् ।। ३४ ।।

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ।
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः
।। ३५ ।।

सर्वकामफला वृक्षाः सदा फलसमन्विताः ।

मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे ।। ३६ ।।

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ।
मुख्यो वानरमुख्यानां केसरी नाम यूथपः
।। ३७ ।।

अथ चतुर्भिः केसरिणं वर्णयति — भ्रमरेति ॥ यत्र पर्वते । सर्वकामफलाः सर्वैः काम्यन्त इति सर्वकामाः सर्वाभीष्टार्था: तान् फलन्तीति सर्वकामफलाः ते च ते द्रुमाश्च सर्वकामफलद्रुमाः । भ्रमरैः आचरिता:व्याप्ताः भवन्ति । अनेन वृक्षाणां सर्वापेक्षितप्रदत्वं सदा पुष्पितत्वं चोक्तं । यं पर्वतं सूर्य: तुल्यवर्णाभं तुल्यप्रकारकान्तिकं यथा तथा । अनु समीपे । पर्येति संचरति । दृश्यते हि सूर्यस्तत्सन्निधाने काञ्चनवर्ण: । यस्मिन्पर्वतसत्तमे सर्वकामफलाः सर्वैः काम्यमानफलाः । अनेन स्वादुफलत्वमुक्तं । सदा फलसमन्विताः सर्वकालं फलयुक्ता इत्यर्थः । काञ्चनपर्वते मेरौ ॥ ३४-३७ ॥

 

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ।
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्
।। ३८ ।।

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ।
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा
नखायुधाः ।। ३९ ।।

अथ शतबलियानरसेनाश्लाघनपूर्वकं वर्णयति — षष्टिरित्यारभ्य हरिरित्यन्तेन ॥ गिरिसहस्राणां षष्टिरस्ति । ते रम्याः काञ्चनपर्वता भवन्ति । गिरिवरः मेरुः । अस्ति ह्यस्तगिरेः पूर्वतश्चपरो मेरुः ॥ ३८-३९ ॥

 

सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ।
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः
।। ४० ।।

वैश्वानरसमाः । वैश्वानरः अग्निः तद्वद्रुग्रा इत्यर्थः । ज्वलिताशीविषा: कुपितसर्पा: । आशिषि दंष्ट्रायां विषं येषां ते आशीविषा: । आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोः इत्यमरः । पृषोदरादित्वात् सलोपः । तद्वत्कोपना इत्यर्थः ।। ४० ।।

 

सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ।
महापर्वतसङ्काशा महाजीमूतनिस्वनाः
।। ४१ ।।

अञ्चितलाङ्गूला: उचितलाङ्गूला: । मत्तेत्यादिना महाकायत्वमुक्तं । पर्वतसंकाशाइत्यनेन दार्ढ्यमुक्तं ॥ ४१ ॥

 

वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः ।

मर्दयन्तीव ते सर्वे तस्थर्लङ्का समीक्ष्य ते ।। ४२ ।।

भीमभीमा : भीमप्रकाराः । प्रकार: सादृश्यं । भीमसदृशाः ईषद्भीमा इत्यर्थः । प्रकारे गुणवचनस्य इति द्विर्भाव: । तादृशगमनस्वराः ते वानराः । ते तव । लङ्कां समीक्ष्य मर्दयन्तीव तस्थुः मर्दयन्तीव तिष्ठन्ति । आर्षो लिङ्गव्यत्ययः ॥ ४२ ॥

 

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ।

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।। ४३ ।।

उपतिष्ठति उपतिष्ठते ॥ ४३ ॥


नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः
।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
।। ४४ ।।

एषैवेति संधिरार्षः ॥ ४४ ॥

 

विक्रान्तो बलवाञ्शूरः पौरुषे स्वे व्यवस्तितः ।

रामप्रियारिर्थं प्राणानां दयां न कुरुते हरिः ।। ४५ ।।

गजो गवाक्षो गवयो नलो नीलश्च वानरः ।
एकैक एव यूथानां कोटिभिर्दशभिर्वृतः
।। ४६ ।।

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ।
न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः
।। ४७ ।।

पौरुषे पराक्रमे । प्राणानां प्राणेषु ॥ ४५-४७ ।।

 

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः ।
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम् ।। ४८ ।।

प्रविध्वस्तविकीर्णशैलां प्रविध्वस्ताः चूर्णिताः विकीर्णा विक्षिप्ताः शैलाः यस्याः सा तां तथा ॥ ४८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.