[highlight_content]

25 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः

विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थंप्रहितयोः कपिरूपधारणेनकपिसेना -प्रविष्टयोः शुकसारणनाम्नो राक्षसयोग्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदन पूर्वकं राममोचिताभ्यांशुकसारणाभ्यां रावणमेत्य तंप्रति विभीषणकृतस्वग्रहणादिनिवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यत्व निवेदन पूर्वकं रामप्रभाववर्णनेनसीताप्रदानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥

सबले सागरं तीर्णे रामे दशरथात्मजे ।
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ
।। १ ।।

अथ शुकसारणप्रेषणं पञ्चविंशे – सबल इत्यादि ॥ दशरथात्मजइति मनुष्यत्वोक्तिः । श्रीमानिति मदातिशयोक्तिः । शुकः पूर्वस्मादन्यः । सारणसाहित्यात् ॥ १ ॥

 

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् ।
अभूतपूर्वं रामेण सागरे सेतुबन्धनम्
।। २ ।।

समग्र विशालं । दुस्तरं तरितुमशक्यं । सागरं कर्म । वानरं वानरसंबन्धि बलं कर्तृ । तीर्णं अतरत् । कर्तरि क्त: । सेतुबन्धनं रामेण कृतमिति शेषः ॥ २ ॥


सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन
।
अवश्यं चापि संख्येयं तन्मया वानरं बलम्
।। ३ ।।

सेतुबन्धनं रामेण कृतं । कथंचन आप्तपुरुषोदितत्वेपि । अपिच तथापि । संख्येयं ज्ञातव्यं ॥ ३ ॥


भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ
।
परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः
।। ४ ।।
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः
।
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः
।। ५ ।।
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे
निवेशश्च त
द्यथा तेषां वानराणां महात्मनाम् ।। ६ ।।
रामस्य व्यवसायं च वीर्यं प्रहरणानि च
।
लक्ष्मणस्य च वी
र्यं च तत्त्वतो ज्ञातुमर्हथः ।। ७ ।।
कश्च सेनापतिस्तेषां वानराणां महौजसाम्
।
एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः
।। ८ ।।
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
।
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्
।। ९ ।।

भवन्तावित्यादि चतुःश्लोक्येकान्वया ॥ तस्माद्भवन्तौ अनुपलक्षितौ परैरविज्ञातौ सन्तौ । वानरं सैन्यं प्रविश्य । परिमाणं वानराणामियत्तां । तेषां वीर्य बलपरिच्छेदं । ये प्लवङ्गमाःमुख्याः प्रधानभूताः तान् । ये रामस्य सुग्रीवस्य च संमता मन्त्रिणः । ये नासीरभटाः पूर्वमभिवर्तन्ते । ये च प्लवङ्गमाः वस्तुतः शूराः तान्सर्वान् । सागरे सगरखानिते । सलिलार्णवे लवणजलसमुद्रे । स सेतुः वानरतरणार्थसेतुश्च । यथा येन प्रकारेण बद्धः तं प्रकारं । तेषां निवेशं निवासं । उत्पत्तिस्थानं वा । क्लीबत्वमार्षं । यद्यथा यादृशप्रकार: । रामस्य व्यवसायं कर्तव्यविषयनिश्चयं । वीर्यं बलं । प्रहरणानि आयुधानि । लक्ष्मणस्य व्यवसायं बलं च । तत्त्वतः पारमार्थेन । ज्ञातुमर्थ्ये इत्यन्वयः ॥ ४–९ ॥


ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्
।
संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ
।। १० ।।

नाध्यगच्छेतां नाज्ञासिष्टां ।। १० ॥


संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ।
समुद्रस्य च तीरेषु वनेषूपवनेषु च
।। ११ ।।
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
।
निविष्टं निविशच्चैव भीमनादं महाबलम्
।

तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ।। १२ ।।

अज्ञानहेतुमाह सार्धश्लोकद्वयेन — संस्थितमिति । निर्दरेषु दलितपर्वतप्रदेशेषु । उपवनेषु आरामेषु । आराम: स्यादुपवनं इत्यमरः ।। ११ – १२ ।।


तौ ददर्श महातेजाः प्रच्छन्नौ च निभीषणः
।
आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ
।। १३ ।।

अथ विभीषणः ददर्श आचचक्षे चेत्यन्वयः ॥ १३ ॥

 

तस्येमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ ।
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय
।। १४ ।।
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा
।
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः
।। १५ ।।
आवामिहागतौ सौम्य रावणप्रहितावुभौ
।
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन
।। १६ ।।

लङ्काया इति पञ्चमी । परपुरं जयतीति परपुरंजयः । संज्ञायां भृतृवृजिधारिसहितपिदमः इति खच् ॥ १४ – १६ ॥


तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः
।
अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः
।। १७ ।।

दशरथात्मजः महापुरुषप्रसूतत्वेन सहजकारुण्य : प्रहसन् रावणबुद्धिमान्द्यस्मरणात् प्रहासः । सर्वभूतहिते रतः रिपूणामपि वत्सलः ॥ १७ ॥


यदि दृष्टं बलं कृत्स्नं वयं वा सु
परीक्षिताः ।
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्
।। १८ ।।

यथोक्तं रावणेन यथोक्तं । छन्दतः यथेच्छातः ॥ १८ ॥

 

अथ किंचिददृष्टं वा भूयस्तद्द्रष्टुमर्हथः ।

विभीषणो वा कार्त्स्न्येन भूयः संदर्शयिष्यति ।। १९ ।।

अथेति पक्षान्तरे । भूयः अतिशयेन ॥ १९ ॥

 

न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति ।

न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ।। २० ।।

दूतौ युवामितिशेषः ॥ २० ॥

 

पच्छमानौ विमुञ्चैतौ चारौ रात्रिंचरावुभौ ।

शत्रुपक्षस्य सततं विभीषण विकर्षणौ ।। २१ ।।

विभीषणं प्रत्याह- पृच्छमानाविति ॥ सततं पृच्छमानत्वदशायामपि शत्रुपक्षस्य विकर्षणौ बाधकाविति यावत् ॥ २१ ॥


प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः
।
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम
।। २२ ।।

पुनर्दूतौ प्रत्याह- प्रविश्येति ।। २२ ।।


यद्बलं च समाश्रित्य सीतां मे हृतवानसि
।
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः
।। २३ ।।

यथाकामं यथेच्छं । शरणं वाऽऽगच्छेति भावः ॥ २३ ।।


श्वः काले नगरीं लङ्कां सप्राकारां सतोरणाम्
।
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया
।। २४ ।।

श्वः काल्ये परेद्युः प्रातःकाले ॥ २४ ॥


क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण ।
श्वः काले वज्रवान्वज्रं दानवेष्विव वासवः
।। २५ ।।

क्रोधं मोक्ष्ये क्रोधकार्यं करिष्य इत्यर्थः । वज्रवान् अभ्यस्तवत्र इत्यर्थः ॥ २५ ॥


इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
।

जयेति प्रतिनन्द्यैतौ राघवं धर्मवत्सलम् ।
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्
।। २६ ।।

इतीत्यादि सार्घश्लोक एकान्वयः ॥ प्रतिनन्द्य अभिष्टुत्य ॥ २६ ॥


विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर
।
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा
।। २७ ।।

मुक्तौ आवामिति शेषः । धर्मात्मना दूतवधमनिच्छतेत्यर्थः । अमिततेजसेत्यनेन अस्मत्यागे भीतिहेतुता न शंक्त्यर्थः ॥ २७ ॥


एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
।
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः
।। २८ ।।
रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः
।
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः
।। २९ ।।
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
।
उत्पाट्य् संक्रामयितुं सर्वे तिष्ठन्तु वानराः
।। ३० ।।

एकस्थानेत्यादि लोकत्रयमेकान्वयं ॥ यत्र एकस्थानं ऐकमत्यं । एकप्रदेशं वा गताः एते शक्ताः । पुरीं लङ्कामित्याद्यन्वयः । कृतास्त्राः शिक्षितास्त्राः । छत्रिणो गच्छन्तीतिवदयं निर्देशः । सुग्रीवस्याकृतास्त्रत्वात् । उत्पाट्य उद्धृत्य । संक्रामयितुं अन्यत्र क्षेतुं । सर्वे एतच्चतुष्टयभिन्नाः ॥ २८ – ३० ॥


यादृशं तस्य रामस्य रूपं प्रहरणानि च
।
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः
।। ३१ ।।

यादृशमिति । प्रहरणादिकं यादृशं तदवलोकने राम एको वधिष्यतीति मन्यावहे इत्यर्थः ॥ ३१ ॥


रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
।
बभूव दुर्धर्षतरा
सेन्द्रैरपि सुरासुरैः ।। ३२ ।।

[व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः ।

शतयोजनमायामस्तीर्णा सेना च सागरम्] ।। ३३ ।।

निविष्टो दक्षिणे तीरे रामः स च नदीपते ।

तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते ।। ३४ ।।

नन्वसहायशूरोपि राम: सेनाहननादनुत्साहः स्यात् तत्क्रियतामित्यत्राह — रामलक्ष्मणेति ॥ सुग्रीवेण च अङ्गदादिना च सहिता सा अपरिच्छिन्ना । हरिवाहिनी चपलकपिसेना । रामलक्ष्मणगुप्ता रामेण रामस्य दक्षिणो बाहुरिति रामदक्षिणबाहुभूतेन लक्ष्मणेन च गुप्ता सती । सुग्रीवस्य रक्ष्यकोटावेवान्वयः न तु रक्षककोटौ । तन्मन्त्रिणा हनुमतैव —  जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः इत्युक्तेः । दुर्धर्षतरा बभूव । तरसा मनसापि धर्षयितुमशक्येत्यवगम्यते । न केवलं मनुष्यादिभिः किन्तु सुरैरपि । न केवलं सुरैरेव किन्तु सुरासुरैः विरोधं विहाय कृतसौहार्दैरपि । न केवलमनायकैस्तैः किन्तु सेन्द्रैरपि । स्वस्वातन्त्र्यं विहाय नायकाज्ञानुवर्तिभिरित्यर्थः ॥ ३२–३४ ॥


प्रहृष्टरूपा ध्वजिनी वनौक
सां महात्मनां संप्रति योद्धुमिच्छताम् ।
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली ।। ३५ ।।

महात्मनां दृढमनस्कानां । संप्रति सद्य एव । योद्धुमिच्छतां । प्रहृष्टरूपा हर्षद्योतकाकारयुक्ता । भवतीति शेषः । अतस्तद्विरोधेनालं । शमः क्रोधनिवृत्तिः । विधीयतां क्रियतां । मैथिली प्रदीयतां च ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.