[highlight_content]

41 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः

रामेण रावणकरग्रहणविमोचनेनपुनरागतंसुग्रीवंप्रत्यालिङ्गनपूर्वकं पुनरपितादृशसाहस करणप्रतिषेधनम् ॥ १ ॥ तथालक्ष्मणंप्रति युद्धादिसूचकदुर्निमित्तप्रदर्शनपूर्वकं सुवेलादवतरणेन -सुग्रीवेणसह रणायसेनासंनाहपूर्वकं लङ्कांप्रत्यभियानम् ॥ २ ॥ लङ्कांगतेनरामेण -नीलाङ्गदहनुमतां क्रमेण प्रागादिद्वारनिरोधनचोदनपूर्वकं स्वयंलक्ष्मणेन -सहरावणाधिष्ठितोत्तरद्वारमिरोधनम् ॥ ३ ॥ तथा राजनीत्यनुसारेणसंदेशनिवेदनाय रावणंप्रत्यङ्गदप्रेषणम् ॥ ४ ॥ अङ्गदेनरावणमेत्यराम संदेश निवेदने तन्नियोगेन राक्षसैरङ्गदग्रहणम् ॥ ५ ॥ तदुद्वहनेनैवगगनमुलुतेनाङ्गदेन स्वाङ्गविधूननेनरक्षसामधः पातनपूर्वकं पादाभिघातात्प्रासादभञ्जनेन पुनारामपार्श्वगमनम् ॥ ६ ॥

अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।

सुग्रीवं संपरिष्वज्य तदा वचनमब्रवीत् ।। १ ।।

अथ लङ्कावरोध एकचत्वारिंशे – अथेति ॥ तस्मिन् सुग्रीवे । निमित्तानि युद्धचिह्नानि । निमित्तं हेतुलक्ष्मणोः इत्यमरः ॥ १ ॥

 

असंमन्त्र्य मया सार्धं तदिदं साहसं कृतम् ।

एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ २ ॥

जनेश्वराः राजानः । न कुर्वन्ति अस्मादृशपरिजने विद्यमाने न कुर्वन्तीत्यादरोक्तिः ॥ २ ॥

 

संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।

कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ ३ ॥

संशये संशयपदे । त्वत्साहसेऽस्मदादीनां जीवनं दुर्लभमिति भावः ॥ ३ ॥

 

इदानीं मा कृथा वीर एवंविधैमचिन्तितम् ।

त्वयि किंचित्समापन्ने किं कार्यं सीतया मम ॥४॥

भरतेन महाबाहो लक्ष्मणेन यवीयसा ।

शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः॥ ५ ॥

इदानीमित्यादि श्लोकद्वयं ॥ इदानीं अद्यप्रभृति । अचिन्तितं अविचारितं । एवंविधं साहसं मा कृथाः । कुत इत्यत्राह – त्वयीति त्वयि किञ्चित्समापन्ने । – वानरेति संबोधनं । प्राप्ते मम सीतया कि कार्यं किं प्रयोजनं । अभिनववत्सवात्सल्येन पूर्ववत्समनमिलषन्त्या वत्सलाया गोरिव नित्यानपायिनीमपि सीतामनादृत्य तदानीमाश्रिते वानरमात्रेऽत्यभिनिवेशं कुर्वतो रामस्य वात्सल्यातिशय उच्यते । सीतया । अर्धो वा एष आत्मनो यत्पत्नी इत्यर्धशरीरभूतया न मे किञ्चित्कार्यं । भरतेन यवीयसेति कनिष्ठत्वमुच्यते । भ्राता स्वा मूर्तिरात्मन: इत्युक्तभरतादिनापि न मे किञ्चित्प्रयोजनं । स्वशरीरेण वा आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि इत्युक्तशरीरेण वा किं क्रियते ॥ ४-५ ॥

 

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।

जानतश्चापि ते वीर्य महेन्द्रवरुणोपम ॥ ६ ॥

हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् ।

अभिषिच्य च लङ्कायां विभीषणमथापि च ।

भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ॥ ७ ॥

एतदेव प्रपञ्चयति — त्वयीत्यादिना ॥ पूर्वं त्वय्यनागते सति । इति वक्ष्यमाणप्रकारेण मे मतिः निश्चितासीत् । जानतश्चापीति विशेषणेन अस्थाने भयशङ्कित्वोक्त्या वात्सल्यातिशय उक्त: । इतिशब्दार्थमाह-हत्वेति ॥ प्रतिज्ञानिर्वाहार्थमिति भावः । अभिषिच्येति । अन्यथा शरणागतिवैफल्यादिति भावः । भरत इति । अन्यथा कुलधर्मोच्छेदादिति भावः । महाबलेत्यनन्तरमितिकरणस्यान्वयः ॥ ६–७ ॥

 

तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ।

तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।

मर्षयामि कथं वीर जानन्पौरुषमात्मनः ॥ ८ ॥

तमेवमित्यादिसार्धश्लोकः ॥ पौरुषं त्वद्दास्यरूपं पुरुषधर्ममित्यर्थः । अतएवहि पूर्वं रावणान्तिके दासोस्मीत्युक्तवान् । जानन्नित्यनेन दासस्य कर्मैवेदं नतु साहसमित्युच्यते ॥ ८ ॥

 

इत्येवंवादिनं वीरमभिनन्द्य स राघवः ।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत्
।। ९ ।।

अथ रामस्योत्साहविशेषं दर्शयति- इत्येष मिति ॥ लक्ष्मिसंपन्नमित्यत्र इको ह्रस्वोऽङयो गालवस्य इति ह्रस्वः । लक्ष्मीरत्र निमित्तदर्शनजः सन्तोषः ॥ ९ ॥

 

परिगृह्योदकं शीतं वनानि फलवन्ति च ।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
।। १० ।।

संविभज्य तत्तद्यूथपाधीनं कृत्वा । व्यूह्य गरुडादिरूपेण स्थापयित्वा ॥ १० ॥

 

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
।। ११ ।।

लोकक्षयकरं लोकक्षयसूचकं । भीमं भयंकरं । भयं भयनि मित्तं । न केवलं लोकस्य प्रवीराणां चेत्याह – निबर्हणमिति । विनाशसूचक मित्यर्थः ॥ ११ ॥

 

वाताश्च परुषं वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति धरणी
रुहाः ।। १२ ।।

तदेव भयनिमित्तं प्रपञ्चयति – वाता इति ॥ पतन्ति अनिमित्तमिति शेषः ॥ १२ ॥

 

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः
।। १३ ।।

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
।। १४ ।।

क्रव्यादसंकाशा: श्येनादि- सदृशसंस्थानाः। परुषाः क्रूरवेषाः । क्रूराः लोकक्षयसूचकाः । मिश्रं जलमिति शेषः ॥ १३-१४ ॥

 

आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
।। १५ ।।

आदित्यमभि आदित्याभिमुखं । दीनाः दीनवेषाः । दीनस्वराः दैन्यसूचकस्वरवन्तः । अतएव घोराः भयंकराः । अप्रशस्ताः हीनाः शिवादयः ॥ १५ ॥

 

रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये
।

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।। १६ ।।

कृष्णरक्तान्तपर्यन्तः कृष्णान्तो रक्तपर्यन्तश्चेत्यर्थः । ह्रस्वः व्याममात्रः । रूक्षः भयंकरः । अप्रशस्त: अशुभकरः । सुलोहितः रक्तमध्यः । परिवेषः लोकस्य संक्षये यथा तथा । दृश्यत इति शेषः ॥ १६ ॥


आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
।

दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति
।। १७ ।।

आदित्येत्यादिसार्धश्लोकः ॥ लक्ष्म चन्द्रकलङ्क इवेत्यर्थः । तथैव छान्दोग्ये – यदादित्यस्य कृष्णं रूपं इत्यत्र उत्पातकाले तथा दृश्यत इति व्याख्यातं । नक्षत्राणि यथावत् यथाप्रकारेण न दृश्यन्ते । मलिनानि दृश्यन्त इत्यर्थः । उक्तं निमित्तजातं लोकस्य युगान्तं शंसतीवाभिवर्तत इतियोजना ॥ १७ ॥

 

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः
।। १८ ।।

[ शैलैः शूलश्च खड्गैश्च विमुक्तैः कपिराक्षसैः ।

भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ।। १९ ।। ]

नीचैः ह्रस्वं वेदिकास्थानं । परिपतन्ति प्राप्नुवन्ति । शिवा इति । अप्रशस्तमृगजात्युक्तावपि पुनरुक्तिरशुभाधिक्यात् ॥ १८-१९ ॥

 

क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् ।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः
।। २० ।।

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः ।
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः
।। २१ ।।

अभियामेति वर्तमानकाले लोट् ॥ २० – २१ ॥

 

अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः ।
परैः परमदुर्धर्षं ददर्श बलमात्मनः
।। २२ ।।

तस्मात् सुवेळात् । बलमित्यनेन सर्वे बलं न सुवेलमारुहदिति गम्यते ॥ २२ ॥

 

संनह्य तु स सुग्रीवः कपिराजबलं महत् ।
कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
।। २३ ।।

राघवः ससुग्रीवः सन् । कपिराजबलं कपिश्रेष्ठानां बलं । सन्नह्य प्रोत्साह्य । काले युद्धकाले । संयुगाय युद्धाय । अभ्यचोदयत् ॥ २३ ॥

 

ततः काले महाबाहुर्बलेन महता वृतः ।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्
।। २४ ।।

तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः ।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चा
न्वयुस्तदा ।। २५ ।।

काले प्रातःकाले ।। २४-२५ ।।

 

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् ।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्
।। २६ ।।

पृतना सेना ॥ २६ ॥

 

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् ।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
।। २७ ।।

तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ
।। २८ ।।

कुञ्जरप्रख्याः गजतुल्या: । परवारणाः शत्रुवारकाः ॥ २७-२८ ॥

 

पताकामालिनीं रम्यामुद्यानवनशोभिताम् ।
चित्रवप्रां सुदुष्प्रापामु
च्चैः प्राकारतोरणाम् ।। २९ ।।

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।
यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः
।। ३० ।।

पताकेत्यादिश्लोकद्वयं पताकमालिनीमित्यत्र ङ्यापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः । उद्यानं कृत्रिमवनं । चित्रवप्रां चित्रचयां । यथानिवेशं यथास्थानं । राम वचोऽन्यूनं स्वं स्वं स्थानमनतिक्रम्येत्यर्थः । संपीड्य उपरुध्य ।। २९-३० ।।

 

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् ।
रामः सहानुजो धन्वी जुगोप च रुरोध च
।। ३१ ।।

जुगोप परपरिभवादात्मीयं  बलं ररक्षेत्यर्थः । रुरोधेत्यनेन शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशं इत्युक्तत्रिकूटशिखरारोहणमर्थसिद्धं ॥ ३१ ॥

 

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
।।

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।। ३२ ।।

लङ्कामित्यादिसार्धश्लोक एकान्वयः ॥ लक्ष्मणानुचरो वीर इति पाठः । रावणो यत्र तिष्ठति तदुत्तरद्वारमासाद्य लङ्कामुपनिविष्ट इत्यन्वयः ॥ ३२ ॥


नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्
।

रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ३३ ।।
सायु
धै राक्षसैर्भीमैरभिगुप्तं समन्ततः ।
लघूनां त्रासजननं पातालमिव दानवैः
।। ३४ ।।

रामेणैव निरोद्धव्यत्वे हेतुमाहनान्य इत्यादिश्लोकद्वयेन । लघूनां अल्पसाराणां ॥ ३३-३४ ॥

 

विन्यस्तानि च योधानां बहूनि विविधानि च ।
ददर्शायुधजालानि तथैव कवचानि च
।। ३५ ।।

विन्यस्तानि द्वारोपान्तवेदिकादिष्वितिशेषः ॥ ३५ ॥

 

पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान्
।। ३६ ।।

अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।
ऋषभेण गवाक्षेण गजेन गवयेन च
।। ३७ ।।

हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ।
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः
।। ३८ ।।

मैन्देन द्विविदेन चेत्यादिना प्रतिद्वारमधिकयूथपतिगमनस्यात्रोक्तत्वात्पूर्वं रामेण ते नियुक्ता इति ज्ञेयं ॥ ३६ – ३८ ।।

 

मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।
सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः
।। ३९ ।।

वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ।
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः
।। ४० ।।

शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।
द्वारेद्वारे हरीणां तु कोटिंकोटिं न्यवेशयत्
।। ४१ ।।

पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ।
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः
।। ४२ ।।

मध्यम इति । दुर्जयरावणेन्द्रजिदधिष्ठितयोरुत्तरपश्चिमद्वारयोर्मध्ये तदुभयद्वारनिरोधकानां काकाक्षिन्यायेन साहाय्यं कर्तुं सुग्रीवः स्वयमतिष्ठदिति ज्ञेयम् । पश्चिमेन तु रामस्य सुग्रीव : सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः इति वक्ष्यमाणत्वात् । सुपर्णः गरुडः ॥ ३९–४२ ॥

 

ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।
गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे
।। ४३ ।।

वानरशार्दूलाः वानरश्रेष्ठाः शैलाप्रानिति पुंस्त्वमा ॥ ४३ ।।

 

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
।। ४४ ।।

विकृतलाकूला: ऊर्ध्व प्रसारितपुच्छाः । विकृतचित्राङ्गा इत्यत्र विकृतत्वं कोपरक्तमुखनेत्रत्वं । अतएव चित्रं चित्रवर्ण अङ्गं येषां ते तथोक्ता इति विग्रहः । विकृताननाः राक्षसविडम्बनाय कुटिलितमुखाः ॥ ४४ ॥

 

दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
।। ४५ ।।

दशगुणोत्तरा: शतनागवला इत्यर्थः ॥ ४५ ॥

 

सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः ।
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः
।। ४६ ।।

ओघ बला: ओघसङ्ख्याकनागबलाः । शतगुणोत्तराः ओघसङ्ख्याकनागबलेभ्यः शतगुणेन उत्तरा: श्रेष्ठा इत्यर्थः । अप्रमेयबलाः अपरिच्छेद्यबला: ॥ ४६ ।।

 

अद्भुतश्च विचित्रश्च तेषामासीत्समागमः ।
तत्र वानरसैन्यानां शलभानामिवो
द्यमः ।। ४७ ।।

अद्भुतः आश्चर्यभूतः । विचित्र: वानरगोपुच्छभल्लूकजुष्टतया नानावर्णः । तत्र लङ्कायां तेषां वानरसैन्यानां । समागमः आगमनं । शलभानां शरभाणां अष्टापदमृगाणां । उद्यमः समागम इव आसीत् । तथा भयंकरोऽभूदित्यर्थः । यद्वा यथा शलभानां समागमो युगपद्भवति तथेति युगपत्पतने दृष्टान्तः ॥ ४७ ॥

 

परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी ।
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः
।। ४८ ।।

परिपूर्णमिति अत्र इवशब्दद्वयमपि वाक्यालङ्कारे । उपनिविष्ठैः पृथिवी पूर्णा संपतद्भिः आगच्छद्भिस्तु । आकाशं पूर्णं । भूमाववकाशाभावादिति भावः ॥ ४८ ॥

 

शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।
लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः
।। ४९ ।।

शतसहस्राणां । ऋक्षवनौकसां शतं पूर्वनियुक्तेभ्योतिरिक्तं लंकाद्वाराण्युपाजगाम । अन्ये वानराः समन्ततः युद्धार्थमुपाजग्मुरित्यन्वयः ॥ ४९ ॥

 

आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः ।। ५० ।।

आवृत इत्यर्धमेकं वाक्यं ॥ स गिरिः त्रिकूटः ॥ ५० ॥


अयुतानां सहस्रं च पुरीं तामभ्यवर्तत
।। ५१ ।।

अयुतानामित्यर्धं ॥ अयुतानां सहस्रं च तां पुरीमभ्यवर्ततेत्यनेन पूर्वोक्तस्य द्वारावरणस्थानन्तरं अयुतानां सहस्रं च पुरीं तां पर्यवारयदित्युच्यते ॥ ५१ ॥

 

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।
संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ५२ ।।

दुष्प्रवेशा बभूवेत्यन्वयः ॥ ५२ ॥

 

राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः ।
वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः
।। ५३ ।।

अभिनिपीडिता: उपरुद्धाः । राक्षसाः । विस्मयं आश्चर्यं जग्मुः ॥ ५३ ॥

 

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः ।
सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः
।। ५४ ।।

तत्र त्रिकूटशिखरे । भिन्नस्य भिन्नमर्यादस्य । सागरस्येव अभिवर्ततः अभिवर्तमानस्य बलौघस्य । सलिलखनो यथा स्यात् तथा महाञ्छब्दो बभूवेति योजना । अतो न यथाशब्दवैयर्थ्य ॥ ५४ ॥

 

तेन शब्देन महता सप्राकारा सतोरणा ।
लङ्का प्रचलिता सर्वा सशैलवनकानना
।। ५५ ।।

सशैलवनकाननेत्यत्र वनं उद्यानं ॥ ५५ ॥

 

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
।। ५६ ।।

सुग्रीवेणेति रक्ष्यसाहित्यमुच्यते ॥ ५६ ॥

 

राघवः संनिवेश्यैव सैन्यं स्वं रक्षसां वधे ।
संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः
।

आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ५७ ।।
विभीषणस्यानुमते राजधर्ममनुस्मरन्
।
अङ्गदं वालितनयं समाहूयेदमब्रवीत्
।। ५८ ।।

राघव इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ वधे विषये । आनन्तर्य अनन्तरकर्तव्यं । अभिप्रेप्सुः प्राप्तुमिच्छुः । संमन्य दूत: प्रेषणीय इति विचार्य । निश्चित्य अङ्गद एव प्रेषणीय इति निर्धार्य । क्रमयोगार्थतत्त्ववित् क्रमयुक्ता योगाः सामाद्युपायाः तेषामर्थः फलं तस्य तत्त्वं याथार्थ्यं वेत्तीति तथोक्तः । राजधर्ममनुस्मरन् युयुत्सया शत्रुपुरं प्रत्यागता राजानः युद्धार्थ दूतमुखेन प्रथममाह्वयन्तीत्येवं रूपं राजधर्ममनुस्मरन् । विभीषणस्यानुमते अनुमतौ सत्यां । अङ्गदं समाहूयेदमब्रवीदिति संबन्धः ॥ ५७-५८ ॥

 

गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ।
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः
।। ५९ ।।

हे सौम्य गतव्यथः गतश्रमः सन् । लङ्कां पुरीं तत्प्राकारं लङ्घयित्वा भयं त्यक्त्वा दशग्रीवं मद्वचनात् ब्रूहि मयोक्तमितिब्रूहीत्यर्थः। कपे इत्यनेन लङ्घनसामर्थ्यं द्योतयति ।। ५९ ॥

 

भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतनः ।
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा
।। ६० ।।

भ्रष्टश्रीक भ्रष्टप्रायद्रविण । गतैश्वर्य गतप्रायनियन्तृत्व । संपदि भ्रष्टायामपि लोके नियन्तृत्वं संभवति । तदपिनास्तीत्यर्थः । तदुभयाभावेपि जीवनाशा संभवति सापिनास्तीत्याह-मुमूर्षो इति । तदानीमपि ज्ञानं संभवति तदपि नास्तीत्याह-नष्टचेतनेति ॥ ६० ।।

 

नागानामथ यक्षाणां राज्ञां च रजनीचर ।
यच्च पापं कृतं मोहादवलिप्तेन राक्षस
।

तस्य पापस्य संप्राप्ता व्युष्टिरद्य दुरासदा ।। ६१ ।।

नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः
।
दण्डं धारयमाणस्तु लङ्का
द्वारे व्यवस्थितः ।। ६२ ।।

नागानां सर्पाणां । अवलिप्तेन गर्वितेन त्वया । ऋषिप्रमुखानां यत्पापं कृतं यो द्रोहः कृतः । तस्य कारणभूतः स्वयंभूवरदानजो दर्पो गतः गतप्राय इत्यन्वयः । तत्र हेतुमाह — यस्येति । दण्ड धरः नियन्ता । अहं यस्य ते दण्डं धारयमाणः करिष्यमाण इत्यर्थः ॥ ६१-६२ ।।

 

पदवीं देवतानां च महर्षीणां च राक्षस ।
राजर्षीणां च सर्वेणां गमिष्यसि मया हतः
।। ६३ ।।

एवंविधस्य नियमने तव किं भविष्यतीत्यत्राह- पद्वीमिति ॥ पदवीं तेषुकृतं परिभवं तमपि गमिष्यसीत्यर्थः । यद्वा पदवीं लोकं । युद्धे स्थितः सन् तेषां लोकं गमिष्यसि । युद्धे स्थित्वा सर्वपापविशुद्धः सन् गतिं गमिष्यसि । ततस्तूर्णमागच्छेति भावः ॥ ६३ ॥

 

बलेन येन वै सीतां मायया राक्षसाधम ।
मामतिक्रामयित्वा त्वं हृतवांस्त
न्निदर्शय ।। ६४ ।।

मायया मारीचमायया । मां अतिक्रामयित्वा अपवाह्य । ल्यबभाव आर्षः । येन बलेन यद्बलमवलम्ब्य । सीतां हृतवानसि तद्बलं निदर्शयेत्यन्वयः ॥ ६४ ॥

 

अराक्षसमिमं लोकं कर्ताऽस्मि निशितैः शरैः ।
न चेच्छरणमभ्येषि मामुपादाय मैथिलीम्
।। ६५ ।।

मैथिलीमुपादाय समर्प्य मां शरणं नाभ्येषि चेदिमं लोकमराक्षसं कर्तास्मि । शरणागतौ तु सर्वं क्षमिष्य इति भावः । मैथिलीमुपादायेत्यनेन स्वर्णस्तेये स्वर्णप्रत्यर्पणमन्तरेण प्रायश्चित्तानधिकारवत्सीताप्रत्यर्पणाभावे शरणागतौ तु नाधिकार इत्युक्तं । रावणेन शरणागतौ कृतायां विभीषणाय कोसलराज्यं दास्यामीत्यभिप्रायः ॥ ६५ ।।

 

धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः ।
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम्
।। ६६ ।।

शरणागत्यकरणे स्वकर्तव्यमाह – धर्मात्मेति ॥ यद्वा शरणागतौ प्राणत्राणं करिष्यामि न तु राज्यं दास्यामीत्यभिप्रायेणाह – धर्मात्मेति ॥ धर्मात्मा धर्मबुद्धिः । रक्षसां श्रेष्ठः राक्षसनायकइत्यर्थः । अयं विभीषणः । संप्राप्तः मां प्रपन्नः । तस्माल्लंकैश्वर्यमयं प्राप्नोति उत्तरक्षणे प्राप्स्यतीत्यर्थः । श्रीमान् तदनुगुणानुकूल्यवान् । एवं क्रियाभेदादयंशब्दद्वयोपपत्तिः ॥ ६६ ॥

 

न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।
शक्यं मूर्खसहायेन पापेनाविजितात्मना
।। ६७ ।।

एवं विभीषणस्य राज्ययोग्यतामुक्त्वा रावणस्य तद्भावमाह —न हीति ॥ अधर्मेण धर्मरहितेन । अतएव पापेन पापिष्ठेन । अतएवाविदितात्मना अस्वाधीनमनस्केन । मूर्खसहायेन त्वया न शक्यमित्यन्वयः ॥ ६७ ॥

 

युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि
।। ६८ ।।

यद्वा विशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः ।
मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि
।। ६९ ।।

सीतामादाय शरणमागतोसि चेद्विभीषणाय राज्यं दत्त्वा त्वत्प्राणान् रक्षामि अन्यथा युध्यस्वेत्याह- युध्यस्वेति ।। शान्तः मृतः । पूत इति । युद्धे अपरावृत्त्या मृते: सर्वपापप्रायश्चित्तत्वादिति भावः ॥ ६८ – ६९ ॥

 

ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदैहिकम् ।
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्
।। ७० ।।

क्रियतामौर्ध्वदैहिकमिति अराक्षसकरणेन श्राद्धकर्त्रभावात्स्वयमेव जीवच्छ्राद्धं कुर्वित्यर्थः । सुदृष्टेति । म्रियमाणा हि चापलेन पुत्रकलत्रादिमुखदर्शनं कुर्वन्ति तद्वदिति भावः । मयि स्थितं मदायत्तं । अवश्यं त्वां नाशयामीत्यर्थः ॥ ७० ॥

 

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्
।। ७१ ।।

मूर्तिमान् कर चरणादिसंस्थानवान् । हव्यवाट् अग्निः ॥ ७१ ॥

 

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।
ददर्शासीनमव्यग्रं रावणं सचिवैः सह
।। ७२ ।।

ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः ।
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः
।। ७३ ।।

अतिपत्य प्राप्य । अव्यग्रं ददर्शेत्यन्वयः । श्रीमानित्यनेन हर्षवत्त्वमुच्यते ॥ ७२–७३ ।।

 

तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।
सामात्यं श्रावयामास निवेद्यात्मानमात्मना
।। ७४ ।।

उत्तमं पथ्यं । सामात्यं रावणमिति शेषः । आत्मना स्वयं । आत्मानं निवेद्य । आत्मनो वालिपुत्रत्वादिनिवेदनपूर्वकं रामवचनं कथयामासेत्यर्थः ॥ ७४ ।।

 

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः
।। ७५ ।।

यदि ते श्रोत्रमागतः । मां श्रुतवानसि किमित्यर्थः ॥ ७५ ।।

 

आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।
निष्पत्य प्रतियुध्यस्व नृशंसं पुरु
षो भव ।। ७६ ।।

राघव इत्यादिना छद्मना न योत्स्यत इत्युक्तं । कौसल्यानन्दवर्धन इत्यनेन बहुतपःप्रभावजनिततया धार्मिकत्वमुक्तं । निष्पत्य पुरान्निर्गत्य । पुरुषो भव शूरो भवेत्यर्थः । पुरुषाधमेति पाठे पुरोपरोघेण्यनिर्गमने नूनं पुरुषाधम एवासीति भावः ॥ ७६ ।।

 

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि
।। ७७ ।।

हन्तेति अहमिति शेष: । निरुद्विमा: निर्भयाः ॥ ७७ ॥

 

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्
।। ७८ ।।

विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।
न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि
।। ७९ ।।

उद्धरिष्यामि उन्मूलयिष्यामि । कण्टकं बाधकमित्यर्थ: ।। ७८–७९ ।।

 

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ।
अमर्षवशमापन्नो निशाचरगणेश्वरः
।। ८० ।।

आपन्नः प्राप्तः । बभूव ॥ ८० ॥

 

ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।
गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत्
।। ८१ ।।

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः
।। ८२ ।।

दुर्मेधाः दुर्बुद्धिः । न दूतो वध्य इति शास्त्रानभिज्ञ इत्यर्थः । असकृच्छशासेत्यन्वयः । यद्वा दुर्मेधा इत्यङ्गदमेवाह ॥ ८१-८२

 

ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।
बलं दर्शयितुं वीरो यातुधानगणे तदा
।। ८३ ।।

स तान्बाहुद्वये सक्तानादाय पतगानिव ।
प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा
।। ८४ ।।

तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।
भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
।। ८५ ।।

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।

ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ८६ ।।

यातुधानगणे विषये स्वबलं दर्शयितुं । आत्मवान् धृतिमान् । स्वयं आत्मानं ग्राहयामास ग्रहीतुमनुमेने ॥ ८३ – ८६ ।।


तत्पफाल
पदाक्रान्तं दशग्रीवस्य पश्यतः ।

पुरा हिमवतः श्रृङ्गं वज्रिणेव विदारितम् ।। ८७ ।।

पफाल व्यशीर्यत ॥ ८७ ।।

 

भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।
विनद्य सुमहानादमुत्पपात विहायस
म् ।। ८८ ।।

व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापि वानरान् ।

स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ८९ ।।

विश्राव्य विशेषेण श्रावयित्वा ॥ ८८ – ८९ ॥

 

रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।
विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत्
।। ९० ।।

प्रासादधर्षणात् प्रासादभञ्जनात् । पश्यन् तर्कयन् । निश्वासपरम: अधिकनिश्वासः ।। ९० ।।

 

रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ।
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
।। ९१ ।।

राम इति अङ्गदागमनं दृष्ट्वेति शेषः ॥ ९१ ॥

 

सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः
।। ९२ ।।

संवृतः बभूवेति शेषः । उत्तरश्लोकेनैकवाक्यत्वे हरिकपिशब्दयोः पौनरुक्त्यं स्यात् ।। ९२ ॥

 

चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः ।
पर्य
क्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ९३ ।।

न्यूनताव्यावृत्यर्थं सर्वाणीत्युक्तं । कपिः सुषेण: । पर्यक्रामत परितश्चचार । नक्षत्राणि नक्षत्रनिरूपितराशीनित्यर्थः ॥ ९३ ॥

 

तेषामक्षौहिणिशतं समवेक्ष्य व नौकसाम् ।
लङ्कामुपनिविष्टानां सागरं चातिवर्तताम्
।। ९४ ।।

राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे ।
अपरे समरोद्धर्षाद्धर्षमेव
प्रपेदिरे ।। ९५ ।।

अक्षौहिणिशतमित्यत्र ङयापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः । अनेकाक्षौहिणीमित्यर्थः । सागरंचाभिवर्ततां सागरसमीपे वर्तमानानामित्यर्थः । राक्षसाः धीरा इति शेषः । अपरे अधीरा इत्यर्थः । उद्धर्षात् गर्वात् ।। ९४ – ९५ ॥

 

कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्
।। ९६ ।।

हरिभिर्व्याप्तं प्राकारपरिखान्तरं प्राकारपरिखयोरन्तरालं । वानरीकृतं वानरप्रचुरतया कृतं । अपरमिव प्राकारं ददृशुरित्यर्थ: ।। ९६ ।।

 

हाहकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ९७ ।।

तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।
प्रगृह्य रक्षांसि महायुधानि
युगान्तवाता इव संविचेरुः ।। ९८ ।।

हाहेत्यर्धं ।। ९७-९८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.