46 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ।। 3.46.1 ।। अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ।। […]

45 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।। 3.45.1 ।। अस्थाने भयशङ्किन्या जानक्यापि सुहृज्जनम् । धिक्कृत्य चिन्तितं रामं नित्यापूर्वामहं भजे ।। आर्त्तस्वरं त्वित्यादि । भर्तुः भर्तुस्स्वरस्य ।। 3.45.1 ।। नहि मे हृदयं स्थाने जीवितं वावतिष्ठति । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।। […]

44 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ।। 3.44.1 ।। अजानन्निव यो मायामृगं कार्यान्तरैकदृक् । अनुसृत्य जघानाशु तं लीलामानुषं भजे ।। अथ मारीचवधः तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । “त्सरुः खङ्गादिमुष्टिः स्यात्” इत्यमरः ।। 3.44.1 ।। ततस्त्र्यवनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ।। 3.44.2 […]

43 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती । हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।। 3.43.1 ।। प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ।। 3.43.2 ।। तया ऽ ऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ।। 3.43.3 ।। शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् […]

42 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विचत्वारिंशः सर्गः एवमुक्त्वा तु वचनं मारीचो रावणं ततः । गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः ।। 3.42.1 ।। क्षणं क्षणार्धमपि वा वियोगो यस्य दुःखदः । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ।। एवमित्यादि । भयात् रावणादधुनैव वधो भविष्यतीति भयात् ।। 3.42.1 ।। दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ।। 3.42.2 ।। दीन इत्युक्तं दौस्थ्यमुपपादयति […]

41 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः आज्ञप्तो ऽराजवद्वाक्यं प्रतिकूलं निशाचरः । अब्रवीत् परुषं वाक्यं मरीचो राक्षसाधिपम् ।। 3.41.1 ।। येन सर्वात्मना वर्ज्यं प्रातिकूल्यं हितैषिणाम् । सर्वलोकानुकूलं तमाश्रये रघुनायकम् ।। आज्ञप्त इत्यादि । अराजवत् यदा रामप्रातिकूल्ये प्रवृत्तस्तदैव राजत्वं गतमिति मुनेराशयः । यद्वा राजवत् राजार्हं “तदर्हम्” इत्यर्हार्थं वतिः । यद्वा राजवदिति पूर्वसर्गोक्तमौद्धत्यं लक्ष्यते । वाक्यं वाक्यार्थानुष्ठानं मृगरूपमासाद्य […]

40 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ।। 3.40.1 ।। यस्य तत्त्वं समुद्दिष्टं नाभिजानन्ति दुर्जनाः । तमहं शिरसा वन्दे रघुनाथं गुणार्णवम् ।। मारीचेन त्वित्यादि । क्षमं निवर्तनसमर्थम् । युक्तं कार्यम् ।। 3.40.1 ।। तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ।। 3.40.2 ।। […]

39 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनचत्वारिंशः सर्गः एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे । इदानीमपि यद्वृतं तच्छृणुष्व निरुत्तरम् ।। 3.39.1 ।। अपराधविहीनेषु नापराधं करोति यः । दयालुं सर्वभूतेषु तमहं राममाश्रये ।। एवमित्यादि । इदानीमपि । यद्वृत्तं मद्विषयमभूत् तत् निरुत्तरं शृणुष्व मध्ये वाक्याविच्छेदाकरणेन शृण्वित्यर्थः । यदुत्तरमिति पाठे यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं तदपि शृण्वित्यर्थः ।। 3.39.1 ।। राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः । […]

38 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टात्रिंशः सर्गः कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः ।। 3.38.1 ।। नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः । व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ।। 3.38.2 ।। आबाल्यसिद्धसहजशौर्यादिगुणशेवधिः । रघुनाथो महाप्रीत्या परिस्फुरतु सर्वतः ।। तद्गुणजातं न युक्त्या कल्पयित्वोच्यते किन्त्वनुभवसिद्धमित्याह कदाचिदित्यादिना । सार्धश्लोकद्वयमेकान्वयम् । अहं व्यचरमित्यन्वयः । नागो गजः । […]

37 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ।। 3.37.1 ।। सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ।। तच्छ्रुत्वेत्यादि ।। 3.37.1 ।। सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। 3.37.2 ।। सततम् आपत्प्राप्तावपि । प्रियवादिनः स्वामिहिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.