15 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पुञ्चदशः सर्गः स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ।। 5.15.1।। सन्तानकलताभिश्च पादपैरुशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ।। 5.15.2।। तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम् । 4.15.3 ।। स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः । मैथिलीं मार्गमाणः मैथिलीमार्गणाद्धेतोः । “लक्षणहेत्वोः क्रियायाः”इति शानच् । वीक्षमाणः विविधं चक्षुर्विक्षपन् महीं […]
14 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ।। 5.14.1 ।। सु मुहूर्तमित्यादि । इवशब्दो वाक्यालङ्कारे । प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः रावणस्य गृहात् । अवलुप्तः प्राप्तः ।। 5.14.1 ।। स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः । पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ।। 5.14.2 ।। स […]
13 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः । हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ।। 5.13.1 ।। विमानादित्यादि । इदानीं विमानादवतरणोक्त्या मध्ये विमानमधिरुढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाहविद्युदिति ।। 5.13.1 ।। सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ।। 5.13.2 ।। सम्परिक्रम्येति । सम्परिक्रम्य, प्राकारमिति शेषः । अब्रवीत्, स्वयमिति शेषः ।। 5.13.2 ।। […]
12 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ।। 5.12.1 ।। स तस्येत्यादि । निशागृहान् । रात्रिनिवासयोग्यगृहान् । “गृहाः पुंसि च भूम्न्येव” इति पुँल्लिङ्गत्वम् । पश्यति अपश्यत् ।। 5.12.1 ।। स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम् । ध्रुवं हि सीता म्रियते […]
11 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ।। 5.11.1 ।। अवधूयेत्यादि । तां बुद्धिं मन्दोदर्यां सीताबुद्धिम् । अवस्थितौ बभूव स्वस्थचित्तो बभूव ।। 5.11.1 ।। न रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी । न भोक्तुं नाप्यलङ्कर्तुं न पानमुसेवितुम् ।। 5.11.2 ।। नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् । […]
10 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे दशमः सर्गः तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान् ददर्श शयनासनम् ।। 5.10.1।। दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः । महार्हास्तरणोपेतैरुपपन्नं महाधनैः ।। 5.10.2।। तत्र दिव्योपममित्यादि । शयनासनं शयनस्यासनं खट्वामित्यर्थः । दान्तानि दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अत एव चित्राणि नानावर्णानि अङ्गानि येषां तैः । प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैडुर्यनिर्मितैरित्यर्थः […]
09 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे नवमः सर्गः तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् । ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः ।। 5.9.1 ।। तस्येत्यादि । आलयवरिष्ठस्य पुष्पकस्य ।। 5.9.1 ।। अर्द्धयोजनविस्तीर्णमायतं योजनं हि तत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ।। 5.9.2 ।। तद्भवनं कियत्प्रमाणमित्यत्राह अर्द्धयोजनेति ।। 5.9.2 ।। मार्गमाणस्तु वैदेहीं सातामायतलोचनाम् । सर्वतः परिचक्राम हनुमानरिनूदनः ।। 5.9.3।। सर्वतः पुष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य […]
08 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टमः सर्गः स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ।। 5.8.1 ।। पूर्वोक्तविमानवर्णनं विस्तृणीते– स तस्येत्यादि । प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकम् ।। 5.8.1 ।। तदप्रमेया ऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ।। 5.8.2 ।। तदिति । अप्रतिमेया ऽप्रतिकारकृत्रिमम् अपरिच्छेद्याप्रतिक्रियकृत्रिमम् । तत्र हेतुमाह […]
07 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् । यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ।। 5.7.1 ।। स वेश्मजालमित्यादि । व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रम् ।। 5.7.1 ।। निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः । मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ।। 5.7.2 ।। निवेशनानां शालाः गृहान्तःशालाः । प्रधानैर्मुख्यैः शङ्खायुधचापैः शालन्ते प्रकाशन्त इति प्रधानशङ्खायुधचापशालाः । पचाद्यच् । वेश्मादिषु हर्म्यप्रासादादिषु […]
06 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः स निकामं विमानेषु विषण्णः कामरूपधृक् । विचचार पुनर्लङ्कां लाघवेन समन्वितः ।। 5.6.1।। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।। 5.6.2।। स निकाममित्यादि विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेन वेगेन ।। 5.6.1,2।। रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।। 5.6.3।। रक्षितमिति । चकाशे जहर्षेत्यर्थः ।। […]