05 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् । ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ।। 5.5.1 ।। ततः स मध्यमित्यादि । दिवि आकाशे मध्यं गतम् आकाशमध्यगतमित्यर्थः । लङ्काप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्लोके अभियान्तमित्यनेन नाभिगमनमुच्यते । दक्षिणां दिशं गच्छतो ऽभिमुखत्वासंभवात्, किन्तु गमनमात्रम् । सप्तदेशे सर्गेपि “प्रजगाम […]

04 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान् कपिसत्तमः । अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ।। 5.4.1।। स निर्जित्येत्यादि । अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ।। 5.4.1।। प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः । चक्रे ऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।। 5.4.2।। प्रविष्टः सत्त्वसंपन्नो निशायां […]

03 Sarga सुन्दरकाण्डः

श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः स लम्बसिखरे लम्बे लम्बतोयदसन्निभे । सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः ।। 5.3.1।। निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ।। 5.3.2।। शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरोपमनिर्घोषां सागरानिलसेविताम् ।। 5.3.3।। स लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायम् […]

02 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वितायः सर्गः स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ।। 5.2.1 ।। ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ।। 5.2.2 ।। योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः । अनिश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ।। 5.2.3।। स सागरमित्यादि ।। 5.1.1,2,3।। शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं […]

01 Sarga सुन्दरकाण्डः

।। श्रीमते रामानुजाय नमः ।। || सुन्दरकाण्डः || श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः । अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमान् शठारिर्गुरुः ।।1 ।। श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः । व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ।।2 ।। ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ।। 5.1.1 ।। उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । […]

67 Sarga किष्किन्धाकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः।।67।। तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ।। 4.67.1 ।। सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः । विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ।। 4.67.2 ।। प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः । त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ।। 4.67.3 ।। संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् […]

66 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ।। 4.66.1 ।। वीर वानरलोकस्य सर्वशास्त्रविशारद । तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ।। 4.66.2 ।। हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ।। 4.66.3 ।। अनेकेत्यादि ।। 4.66.13 ।। अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् […]

65 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः । स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ।। 4.65.1 ।। गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ।। 4.65.2 ।। आबभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ।। 4.65.3 ।। गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां […]

64 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः । सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ।। 4.64.1 ।। एवं प्रक्षिप्ताः पञ्च सर्गाः गताः ।। एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह आख्याता इति । समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ।। 4.64.1 ।। सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः […]

63 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स स्वमाश्रमम् ।। 4.63.1 ।। कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ।। 4.63.2 ।। एतैरित्यादि ।। 4.63.1,2 ।। अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् । देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर्वचः ।। 4.63.3 ।। अद्य त्विति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.